संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीज्ञानेश्वरस्तव:

श्रीज्ञानेश्वरस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


श्रीरुक्मिणीविठ्ठलवर्ष्मसम्भवं
निवृत्तिसोपानविमुक्तिसोदरम् ।
तरङ्गिणीनीरनिवासलोलं
ज्ञानेश्वरं विष्णुनवाकृतिं भजे ॥१॥
निवृत्तिमार्गात् पविबोधलभ्य -
सोपानतो मुक्तिरिति प्रसिद्धयै ।
सोपानमुक्ती अनुजे निवृत्ति -
नाथोsग्रजो यस्य बुधं तमीडे ॥२॥
यतीन्द्रकायोद्भवतां स्वकीयां
निजोपनीतेर्विहितान्तरायाम् ।
ज्ञात्वा लुलायाननत: श्रुतीर्य:
संश्रावयामास बुधं तमीडे ॥३॥
आशी:प्रणामोभयकर्महीनता -
सिद्धे: कृते वैनहितां तु पत्रिकाम् ।
शून्या यथास्ते मतिलेशशून्यता
तथायमस्तीति विमुक्तिवर्णित: ॥४॥
योगशक्तिमहसा विभीषण -
दन्दशूकशयानिगृहीतम् ।
व्याघ्रयानमधिरुह्य समेतं
चाङ्गदेवमभित: क्षणमात्रात् ॥५॥
प्रत्युद्गमाय तरसा निजयोगशक्त्या
भित्तिं जिघाय समुपागतयोगिदर्पम् ।
हत्वा जगाद तदनुश्रुतिमस्तकोक्तं
तत्त्वं परं स्वभगिनीमुखतस्तमीडे ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP