संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनवनायकस्तव:

श्रीनवनायकस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


राजानं घस्रेशं मन्त्रिचमूनायकं काव्यम् ।
नीरससस्यपमिन्दुं धान्याधिपतिं शनैश्चरणम् ॥१॥
मेघार्धेशं धिषणं रसनाथं चन्द्रवर्ष्मभवम् ।
पशुपालं यममीडे श्रीरुधिरोद्गारिहायनपान् ॥२॥
अर्कमधीशं मन्त्रिचमूपं भृगुनाथं
नीरससस्याधीशमथेन्दुं रसपज्ञम् ।
धान्यपमार्किं मेधार्धेशं त्रिदशगुरुं
यममथपशुपं वत्सरनाथान् कलयेsहम् ॥३॥
[ मालिनी ]
नृपतिमिनममात्यानीकपं काव्यमर्ध -
जलदपममरार्थं सस्यपालं शशाङ्कम् ।
रसपतिमुडुपोत्थं भाण्डजं धान्यनाथं
यममथपशुपालं नीरसेशं भजेsब्जम् ॥४॥
वत्सरेश्वरं रविं चमूपमन्त्रिणं कविं
सस्यनीरसाधिपं विधुं रसाधिपं बुधम् ।
धान्यनाथमर्कजं पयोधरार्धपं गुरुं
भावयामि सन्ततं हृदां यमं पशुप्रभुम् ॥५॥
दिनेश्वरं शरद्धवं कविं चमूपमन्त्रिणं
विधुं च सस्यनीरसाधिपं बुधं रसाधिपम् ।
इनात्मजं च धान्यपं गुरुं पयोध्रनायकं ( पयोधरार्धपं प्रभु )
यमं पशुप्रभुं मुदा विभावयामि सर्वदा ॥६॥
दिनेशमधिपं तत: सचिवसैन्यपं भार्गवं
क्षपेशमथसस्यनीरसपतिं शनिं धान्यपम् ।
रसाधिपतिमब्जजं धिषणमर्धमेघाधिपं
भजामि पशुमं यमं रुधिरवामिवर्ष्मप्रभून् ॥७॥
रवि वर्षांध्यक्षं सचिवचमुपतिं दानवगुरुं
शशाङ्कं सस्येशं त्रिदशपगुरुमर्धाम्बुदपतिम् ।
शनिं धान्याधीशं तुहिनकिरणसूनुं रसपतिं
भजेsहं पश्वीशं यममथ शशिनं नीरसपतिम् ॥८॥
धात्रीशामात्यौ दिनपतिकवी वाहिनीशं कवीन्द्रं
सस्याधीशानं जलनिधिजनिं नीरसेशं च चन्द्र ( शशाङ्क ) म् ।
धान्यानामीशं रवितनुभवं जीवमर्धाब्दनाथं
पश्वाल्यध्यक्षं यममथरसाधीश्वरं सौम्यमीडे ॥९॥
राजदिनेशं मन्त्रिकवीशं सैन्यपकाव्यं
सस्यपचन्द्रं धान्यपसौरिं ( मन्दं ) मेघपजीवम् ।
अर्धेशगुरुं रसपेन्द्रसुतं नीरसपाब्जं
पशुपालयमं हृदये कलये वत्सरनाथा ( हायनपाला ) न् ॥१०॥
नृपतिदिनपमन्त्रिदैत्यार्चितानीकनीभार्गवान्
धनपधिषणसस्यपाम्भोजनुर्नीरसाम्भोधिजान् ।
रसपशशिजधान्यपाकत्मिजार्धाधिपेन्द्रार्चितान्
पशुपतियममाश्रये सन्ततं वत्सराधीश्वरान् ॥११॥
राजघस्रपमन्त्रिभार्गवसैन्यनायकभार्गवान्
सस्यपोडुपधान्यपार्कजमेघनाथसुरार्चितान् ।
अर्धपार्यरसेश्वरेन्दुजनीरसाधिपमाधिपाम्
पश्वधीशयमं दधे हृदि नव्यहायन ( वत्सर ) नायकान् ॥१२॥
रविं राजानं सचिवपूतनिकानायकं दैत्यपूज्यं
विधुं सस्येशं सलिलदपतिगुरुं वारिवाहाधिनाथम् ।
शनि धान्येशं रसविततपतिं वार्धिजातात्मजातं
पशूनां पालं यममथ कलये नीरसेशं शशाङ्कम् ॥१३॥
वर्षाधीशमिनं ततोsस्य सचिवं सेनापतिं भार्गवं
सस्याधीश्वरमब्धिजातवपुषं धान्याधिपं भास्करिम् ।
अर्धेशं च जलाधिपं च धिषणं सौम्यं रसाधीश्वरं
सोमं नीरसपं यमं पशुपतिंण संवत्सरेशान् भजे ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP