संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरेवतीस्तोत्रम्

श्रीरेवतीस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मन्मथाद्यर्यधीनातिदूराङ्घ्रिकां
त्यक्तसर्वेषणाल्याप्यपादाम्बुजाम् ।
इन्द्रमुख्यादृतस्वाङ्घ्रिपङ्केरुहां
मानसाब्जे दधे रेवतीं सन्ततम् ॥१॥
भक्तगी:श्रीलवोद्धूतजीवामरा -
धीश्वराशेषविद्याधनाहङ्कृतिम् ।
भक्तराजीजरादुर्मृतिघ्नार्चनां
मानसाब्जे दधे रेवतीं सन्ततम् ॥२॥
दीनकारुण्यवारांर्निधिस्वाशयां
धूधराशेवमानापहृच्छ्रोणिकाम् ।
दन्तिवक्त्रादिसंसेविताङ्घ्र्य्म्बुजां
मानसाब्जे दधे रेवतीं सन्ततम् ॥३॥
पापतापापनोदिस्वपादस्मृतिं
भूधराहीश्वरप्रागकान्तामणिम् ।
कान्तिनिर्धूत्तकार्त्तस्वराब्जोदरां
मानसाब्जे दधे रेवतीं सन्ततम् ॥४॥
नारदव्यासकीरादिमौनीडितां
शेषहीनस्वशेषस्वशक्त्याकृतिम् ।
भक्तकाङ्क्षाधिकाभीप्सितस्पर्शकां
मानसाब्जे दधे रेवतीं सन्ततम् ॥५॥
धर्ममुख्याखिलाभीष्टवस्तुप्रदां
रुक्मिणीरूपपद्मालयासेविताम् ।
तत्त्वविज्ञानरूपप्रकाशस्पृशं
मानसाब्जे दधे रेवतीं सन्ततम् ॥६॥
भूमिपालत्वदां भूतमुख्याघहां
स्वर्मुखाशेषलोकालिवास्यादृताम् ।
भक्तिकृत्सर्वरोगव्रजोत्सारणीं
मानसाब्जे दधे रेवतीं सन्ततम् ॥७॥
आसुरस्वान्तवृत्तिप्रणाशप्रियां
पाणिराजद्भयघ्नेप्सितश्राणिकाम् ।
क्षोभहौनाशयध्यातापदाम्बुजां
मानसाब्जे दधे रेवतीं सन्ततम् ॥८॥
भारतीपद्मभूभार्गवीमाधवो -
माम्बुभूधृच्छचीशक्रमुख्येडिताम् ।
मोक्षसंस्पृव्क्शमक्षान्तिमुख्यप्रदां
मानसाब्जे दधे रेवतीं सन्ततम् ॥९॥
श्रान्तिपारम्परीभस्मकृद्वीक्षणां
ध्यातसर्वानमन्मन्तुपूगाशयाम् ।
मृत्युभीमुख्यहृद्योगसिद्धप्रदां
मानसाब्जे दधे रेवतीं सन्ततम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP