संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीछायादेवीसञ्ज्ञादेवीभानुस्तव:

श्रीछायादेवीसञ्ज्ञादेवीभानुस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


करवरकान्तिह्रेपितपङ्कजसर्वाभिमतीन् भक्ताभीष्टदकल्पतरून्
शारदजलधरडम्बरवारकवस्त्रबृताङ्गान् भवमृतिभयमुखसंहर्तॄन् ।
वरवरनिकरश्राणनसक्तस्वहृदम्भोजान् भृङ्गभुजङ्गमनिजकेशान् ।
वारम्वारं छायादेवीसञ्ज्ञादेवीभानून् निजहृदि निदधेsहम् ॥१॥
कृष्णद्वैपायनमुखनतजननिकरादीप्सितकाम्यव्रातस्पृशिकर्तॄन् ।
कृत्तकृतान्तकृपाम्बुधिनैजकटाक्ष[क्षा]काङ्क्षकनम्यपदाम्भोजनियुगलान्
वारम्वारं छायादेवीसञ्ज्ञादेवीभानून् निजहृदि निदधेsहम् ॥२॥
चरणाम्बुजरतकाङ्क्षितवरततिदाननिषक्तान् मेनाद्यर्चितचरणाब्जान्
पारविवर्जितभवजनिनीरधिपारदनभनाञ् छौनकमुखमुनिविनुताङ्घ्रीन् ।
नीरधराखिलदर्पनिवारणनिपुणशिरोजान् कनकोदरमुखनिजरूपान्
वारम्वारं छायादेवीसञ्ज्ञादेवीभानून् निजहृदि निदधेsहम् ॥३॥
वाणीपाणिघटोद्भवमुखमुनिपूजितपादान् विनतजनव्रजपापहरान्
काणादादिमशास्त्रविबोधानुग्रहकर्त्तॄन् विनतासुतकृतसुतसारथीन् ।
एणविलोचनपङ्कजनयनान् घनकुचपङ्कजखरकिरणान्
वारम्वारं छायादेवीसञ्ज्ञादेवीभानून् निजहृदि निदधेsहम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP