संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीत्रिशक्ति ( त्रिमूर्त्ति ) स्तव:

श्रीत्रिशक्ति ( त्रिमूर्त्ति ) स्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अगणितपरिमितिसंख्याहीनब्रह्माण्डव्रजकोटिश्रेणीनिकुरम्ब -
प्रजननपालनसंहृतिपण्डितमायाशक्तिविशेषविभास्वरनिजविद्भावान् ।
वीणाधरकरवाणीकृतसुमगणपतिमुख्निजतनुसम्भवलसितोत्सङ्गान्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥१॥
अव्याजामितकारुण्यामृतजन्मधरित्रीशेवधिनिजहृत्पाथोजान्
निजचरणाम्भ:सम्भवयुग्मप्रणतजनालीहर्षाम्भोनिधिनीरधिजान् ।
आशातिक्रान्तेष्टस्पर्शप्रमुखानुग्रहपूरोधृतनिजभक्तालीन्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥२॥
इभकुलवर्यस्यन्दनसैन्धवपत्तिमुखाखिलसम्पन्मण्डितराज्यरमा -
मुख्याशेषाभीष्टनिकायश्राणनपण्डितनिजचरणाब्जकृपाकणिकान् ।
इहपरलोकोभयविधकांक्षितभोगाल्यनुभवपूर्वकमुक्तिस्पर्शपटून्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥३॥
ईहाद्वेषप्रमुखाशेषमलीमसवर्जितयोगिध्येयपदाम्भोजान्
इष्टापूर्तव्रतमुखनानाकर्मांराधिततुष्टाहृदम्बुजफलदातॄन् ।
ईशान् सर्वविधामितविद्यासम्पच्छक्तिप्रमुखैश्वर्यनिकायानां
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥४॥
उडुपतिगुरुसुता उडुपतिसहजाश्यालावुडुपककाङ्क्षितनिजशीर्षे:
उरगाहङ्कृतिवारकचिकुरानुरगपितामहगुरुनिजशय्यास्थानविला [ खिलान् ]
सुरगादिस्वफणामणिभूषितविग्रहारीर्विहितोरगवंशोत्तंसान्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥५॥
ऊरीकृतनिजचरणाम्भोजनियुग्मजधूलिस्मृतिलवकृज्जनहृदयाम्भ: -
प्रभवस्थाखिलकांक्षितपूगश्रेणीपूरणविषयात्मव्रतमुखदीक्षान् ।
कांक्षिस्वचरणविनताखिलसुरकोटीकोटीरोत्तमनिकरोत्प [ लगन्धान् ]
भ्राजन्मणिगणदीधितिरूपकदीपकमलानीराजितनिजपादाब्जान्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥६॥
ऋवर्णाकृतिनिजचरणाब्जध्यानालम्बनजपमुखसाधननिकुरम्ब -
दाराविहितस्वोपास्तीनिहपरलोकाखिलभूतिव्रजसंस्प्रष्टॄन् ।
नारदशुकहयकन्धरलोपामुद्राकुम्भजशौनकशैलाद्यादिनुतान्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥७॥
ॠतत्कामव्रातातिशयं तूर्णश्राणितनतजनकाङ्क्षितनानर्द्धीन्
त्रिभुवनकुशलप्रापणनिजकृतिकृतआवश्यकनानाविधशक्तिविशेषान्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥८॥
लृस्वाकारप्रमुखाराधनसंज्ञोच्चारणमुख्योपायफलीभूत -
स्वीयाशेषेश्वर्यव्रातत्रिदिवालयपतिधनदायकमुखसुरसन्धान् ।
व्याजविवर्जितपारविवर्जितमानविवर्जितकरुणाजन्मधराहृदयान्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥९॥
लॄकारादिमनिजरूपाख्यसर्वाक्षरततिनिजरूपाख्यालोकेश्वरकमला -
लक्ष्मीप्रमुखाक्षररूपालोकेङ्लक्ष्मीलक्ष्मीङ्ललितानामललाटाक्षान् ।
लालित्याञ्चितविलसल्लोनिन्यादिनिषेवितनिजपदकमलरुहान्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥१०॥
एणाङ्काधिकशिशिरस्वान्तानेणीकमलजदर्पनिवारकनिजनयनान्
कणभुग्गौतमकपिलपतञ्जलिजैमिनिशुकगुरुकृतनयनिकरप्रदनमनान् ।
( शोणस्वाधररुच्यधरीकृतबिम्बाच्छोणाम्भोजविजिष्णुस्वकरपदान् । )
आरुण्यश्रीधूतार्पणसुतनिटिलाल्लावण्याकरतनुकारुण्यनिधीन्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥११॥
ऐहिकमामुष्मिकमपिभोगव्रजमयमोक्षं निजपदपङ्केरुहयुगली -
लग्नहृदम्बुजनिकराणा क्षणतस्तरुणारुणकरुणार्द्रस्वकटाक्षै: ।
दढते ये तान् पदपदपद्मानतजनतापूगमनोरथपूरणकल्पतरून्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥१२॥
ओमिति येषामाख्यारूपध्यानोपायान् गायन्त्यनुदिनमविरत -
माम्नायान्तपुराणप्रमुखाशेषप्राणामिकवाक्यनिकाया: ।
ऐह्रींश्रीमितिनैजविभूत्यन्तर्गतनानाशक्तिशक्त्यपरीक्षाकृतमूर्त्ती ( रूपा ) न्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥१३॥
औदासीन्योज्ज्वलनिजवृत्तिविभावितविश्वगविषयव्रातान्त:करण -
भ्राजद्विजिताक्षासुमनोधी संयमिसन्ततिसुलभप्रत्यक्षीकरणा: ।
येषामङ्घ्रिसरोजयुगल्या त्रिभुवनसृष्ट्यवनप्रलयादिस्वविलासान्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥१४॥
अंगसमुद्भववीणाधृन्मुनिविग्रहवर्जितविघ्नविनाशकमुखरत्नान्
नीरक्षीरविभेदककार्त्तस्वररुचिपक्षकपुंगवपुङ्गवनिजयानान् ।
*वीणाधरकरवाणीकृतसुमगणपतिमुखनिजतनुसंभवलसितोत्संगान्
अंगसमुज्ज्वलकान्तिस्तोमविनिर्जितराकारजनीकरदिनकरकोटीन्
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥१५॥
अ:साधनवानृग्भिर्भुवमानीतो यदनुग्रहभवमहिमानं
मात्रद्वन्द्वध्यातायजुरुन्नीतोsनुभवति यद्दत्तैन्दवभूतितती: ।
प्रणवध्याता सामभिरूढो भानुमतीत: पश्यति यत्पूर्णाकारं
वाणीपद्मजसरसिजनिलयासरसिजलोचनगिरिजागिरिशान् कलयेsहम् ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP