संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीतुङ्गास्तोत्रम्

श्रीतुङ्गास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


वैराग्याप्यां रागिहृद्दुर्लभाङ्घ्रिं
जारठ्यघ्नीं निर्जराल्यर्चिताङ्घ्रिम् ।
जीवेन्द्रक्क्वृद्वच:श्रीप्रणम्रां
वन्दे तुङ्गां कारुणीतोयराशिम् ॥१॥
लक्ष्मीकान्तोमाधवप्रापकार्चां
पापघ्नाङ्घ्रिं कुञ्जरादिप्रदात्रीम् ।
ऋष्यश्रृङ्गस्वर्णधिक्कारिवर्णां
वन्दे तुङ्गां कारुणीतोयराशिम् ॥२॥
नम्राभीष्टशेषधर्मादिदात्रीं
मोक्षस्प्रष्ट्रीं राज्यसम्पत्स्पृगर्चाम् ।
रुड्मृत्युघ्नीं विश्वरक्षाप्रवीणां
वन्दे तुङ्गां कारुणीतोयराशिम् ॥३॥
श्रृङ्गाद्रिस्थां योगिसञ्चिन्तिताङ्घ्रिं
शान्तिश्रीदाम् ऋष्यश्रृङ्गार्चिताङ्घ्रिम् ।
क्षान्ताघालीं कृत्तनम्रश्रमालिं
वन्दे तुङ्गां कारुणीतोयराशिम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP