संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवल्लिदेवसेनागुहस्तुति:

श्रीवल्लिदेवसेनागुहस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


वैराग्यभक्तिमतिदान्तिशरीर......
श्रद्धासितिक्षणमुखाढ्यजनाप्यपादान् ।
साराग्यमुख्यमलिनाशयदुर्लभाङ्घ्रीन्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥१॥
नैजङ्घ्रिपद्मयुगलाश्रितदीनलोक -
दुर्मृत्युरोगजरठत्वमुखापनेतॄन् ।
देवव्रजासुरंवरेण्यसमर्चिताङ्घ्रीन्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥२॥
यत्पादपाथसिजनिप्रणतेर्बलेन
स्वश्रीवचोविजितगुह्यकराजजीवा: ।
सद्यो भवन्त्यतिदरिद्रतमाश्च मूका:
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥३॥
त्यक्तान्यवस्तुपरतं पदपद्मभृङ्गी -
भूतस्वकीयमनसां करुणासुधाब्धीन् ।
प्रालेयशैलतनयाहृदयाब्जभानून्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥४॥
नम्रावलीबहुजनूरचिताघपूग -
भस्मीकृतिप्रवणनैजमनोsरविन्दान् ।
कर्यादिदान् करिमुखस्तुतचित्तवृत्तीन्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥५॥
स्वाङ्गस्फुरद्रुचिलवापहृताब्जगर्भ -
स्वर्णाद्रिजापतिवतंससमस्तदर्पान् ।
स्वीयासनीकृतशिखावलवंशमौलीन्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥६॥
गोत्रच्छिदग्नियमनिरृतिवारिराशि -
क्षोणीशवायुशशिमुख्यहरित्पतीड्यान् ।
मन्त्राक्षरादिजपबोध्यनिजाक्षरार्यान्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥७॥
सच्चित्प्रमोदघनरूपनिजात्मतत्त्व -
साक्षात्कृतिप्रदपदाब्जसकृत्प्रणामान् ।
भक्तालिवाच्छितसमस्तपदार्थदातॄन्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥८॥
मल्लीजलस्थलसमुद्भवपद्मजाती -
पुन्नागचम्पकमुखाखिलपुष्पपूज्यान् ।
सद्योवितीर्णपुरुषार्थचतुष्ट्याङ्घ्रीन्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥९॥
धात्रीभुवर्मुखनिजे [ ष्ट ] समस्तलोका -
ध्यक्षीकृतस्वपदपङ्कजचञ्चरीकान् ।
स्वाज्ञावशंवदसमस्तजगन्निकायान्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥१०॥
स्वाङ्घ्रिप्रसादलववारितनम्रलोक -
कुष्ठज्वरक्षितिपयक्ष्ममुखामयालीन् ।
दोर्दण्डविक्रमनिराकृततारकादीन्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥११॥
भक्ताभयप्रदसमस्तसमीहितास्पृड् -
मुद्राविराजिनिजपाणिपय:प्रजातान् ।
तैरेव शास्त्रवविभीषणशस्त्रधर्तॄन्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥१२॥
वाक्यद्मजातकमलाहरिशैलपुत्री -
चन्द्रार्धशेखरमुखप्रमदप्रदातॄन् ।
निर्धूतमानसमलीमसचिन्तिताङ्घ्रीन्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥१३॥
यन्नम्रभूरिकरुणार्द्रकटाक्षलेशै -
रायासबर्जितपथै: सुलभीक्रियन्ते ।
शान्तिक्षमोपरतिमुख्यसमीहितार्थान्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥१४॥
पादाब्जभक्तिविलसद्गणनाद्यतीत -
सर्वाद्यकाननदवाग्निनतस्वपादान् ।
अङ्घ्रिप्रणम्रवरागीकृतयोगसिद्धीन्
श्रीवल्लिकासुरचमूशुचिजान् प्रपद्ये ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP