संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरेणुकाम्बादेवीस्तोत्रम्

श्रीरेणुकाम्बादेवीस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सुमधन्वमुख्यवशीकृताशयदुर्लभस्वपदाम्बुजां
जितचित्तभूमुखशास्त्रवव्रजलभ्यपादपयोरुहाम् ।
अहिजम्भमुख्यनिषूदनादिसुपर्वसेवितापादुकां
हृतदुष्टभूपतिसन्ततेर्जननीं भजे हृदि रेणुकाम् ॥१॥
निजपादपङ्कजघूलिसंस्मृतिलभ्यगी:कमलालव
परिभावितामरदेशिकैडविडेड्यडम्बरसन्ततिम् ।
प्रणतापमृत्युजरादिकाननदग्धृदावधनञ्जयं
हृतदुष्टभूपतिसन्ततेर्जननीं भजे हृदि रेणुकाम् ॥२॥
पदपद्मसन्नतदीनलोककृपार्णवस्वहृदम्बुजां
गिरिराजवर्ष्मसमुद्भवस्वकलेवराभिनवाकृतिम् ।
करिवाजिकोशचमूमुखाखिलसम्पदावलिदायिनीं
हृतदुष्टभूपतिसन्ततेर्जननीं भजे हृदि रेणुकाम् ॥३॥
दुरितावलीफलकष्ट [ कोश ] विमोचिताङ्घ्रिसमाश्रितां
निजकुन्तलच्छविलेशधूतसरीसृपाम्बुदषट्पदान् ।
पुटपाकतप्तकनत्सुवर्णविजित्वरस्वतनुत्विषं
हृतदुष्टभूपतिसन्ततेर्जननीं भजे हृदि रेणुकाम् ॥४॥
शुकबादरायणशौनकादिमुनिस्तुतस्वपदाम्बुजां
शुकमल्लिकाक्षशिखावलान्यभृताभिमानहरस्वराम् ।
परिपूरिताङ्घ्रिसरोजसंश्रितहृद्गताखिलकामनां
हृतदुष्टभूपतिसन्ततेर्जननीं भजे हृदि रेणुकाम् ॥५॥
करपल्लवादृतकार्मुकेषुमुखायुधां शवरीतनु
पदसंस्मृदावलिहृत्सरोजविकासनप्रियघस्रपम् ।
विमलात्वतत्त्वविबोधदीपकदीपितानतहृद्गुहां
हृतदुष्टभूपतिसन्ततेर्जननीं भजे हृदि रेणुकाम् ॥६॥
अखिलक्षमैकपतित्वमुख्यसमस्तकाङ्क्षितदार्चनां
धरणीभुंवर्मुखसर्वलोकनिवास्यलङ्घितशासनाम् ।
ज्वरकुष्ठभूपतियक्ष्म्मुख्यसमस्तरुक्शमनस्मृतिं
हृतदुष्टभूपतिसन्ततेर्जननीं भजे हृदि रेणुकाम् ॥७॥
अभयेष्टसर्वपदार्थदानपरात्मबोधकमुद्रिका ( पाणिका ) म्
दितिवंशसम्भवदुष्टनिग्रहशिष्टपालनदीक्षिताम् ।
धिषणाविकारकणातिदूर [ सु ] चित्तसन्ततचिन्ततां
हृतदुष्टभूपतिसन्ततेर्जननीं भजे हृदि रेणुकाम् ॥८॥
द्रुहिणप्रियाकमलाशचीप्रमुखेडितस्वपदाम्बुजां
द्रुहिणाब्धिजाधवपार्वतीपतिवासवप्रमुखार्चिताम् ।
शमदान्तिमुख्यसमस्तसद्गुणदानदक्षकटाक्षकां
हृतदुष्टभूपतिसन्ततेर्जननीं भजे हृदि रेणुकाम् ॥९॥
पदचिन्तनप्रवणाशयश्रमसङ्घसूदनसंस्मृतिं
प्रणतापराधरपरम्परासहनाम्बुधिं दुरितापहाम् ।
यममुख्यभीतिहृतिप्रवीणयमादिभोगवितारिणीं
हृतदुष्टभूपतिसन्ततेर्जननीं भजे हृदि रेणुकाम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP