संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीअभिनवद्वारका(डङ्कपुर)क्षेत्रे श्रीश्रीकान्तस्तुति:

श्रीअभिनवद्वारका(डङ्कपुर)क्षेत्रे श्रीश्रीकान्तस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नयनरसनानस्त्वक्श्रोत्रप्रमुख्यनिजेन्द्रिय -
व्रजविषयसङ्घातेच्छानिर्जिताशयदुर्लभौ ।
स्थिरचरपरामर्शोद्धूताखिलाक्षसुखेच्छुता -
प्रमुखशमलव्रातप्राप्यस्वकोयपदाम्बुजौ
( मनसि कलये श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ) ॥१॥
पदनतजरादुर्मृत्यादिप्रशामकसंस्मृती
शतमखहविर्ग्राह्याग्रांशुक्षपेशमुखार्चितौ ।
सुमशररुषामुख्याधीनस्वमत्यतिदुर्लभौ
जितमनसिभूक्रोधादिद्विट्प्राप्यपदाम्बुजौ
( मनसि निदधे श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ) ॥२॥
निरुपमनिजश्रीगी:सम्पत्पराजितनाकसत् -
क्षितिपतिसुरव्रातार्यत्वं यदङ्घ्रिनतान् स्वयम् ।
वसुविरहितान् मन्दप्रज्ञानपि द्रुतमाश्रये
मनसि निदधे श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥३॥
निजतनुलसत्पीयूषांशुप्रपोषितनिर्जर -
व्रजहिममहीधर्त्रुद्भूतासहोद्भवविग्रहौ ।
बहुविधशुचाजालार्ताङ्घ्रिप्रणम्रकृपाम्बुधी
मनसि निदधे श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥४॥
निजपदवनेसञ्जातालिस्वकीयधियामिभ -
प्रवरतुरगश्रेष्ठानीकप्रमुख्यरमाप्रदौ ।
प्रणतजनताभूयोजन्मार्जिताघचयापहौ
मनसि कलये श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥५॥
सलिलनिधिगाम्भोजातात्मप्रजाजनुर्निजा -
शनधरणिभृद्भोगस्वीयासनाभिनवाकृती ।
कनकवनदाहङ्कारच्छित्स्वविग्रहरोचिषौ
मनसि निदधे श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥६॥
शुकपिकसितस्वाक्षन्यक्कृत्स्वकण्ठनिजस्वरौ
शुकमुखमुनिव्रातध्यातस्वपादपयोरुहौ ।
श्रितजनकृते ब्रह्मानन्दस्वरूपविबोधदौ
मनसि कलये  श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥७॥
स्वचरणसरोजातद्वन्द्वप्रणम्रसकामता -
युतविततये सद्योदत्ताखिलेष्टकदम्बकौ ।
अपगतसुखाकाङ्क्षालीनां भवाम्बुधितारकौ
मनसि निदधे श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥८॥
कमलतुलसीविष्णुक्रान्ताकुटोद्भवजातिका -
मुखसुमदलव्रातैरर्च्यंस्वपादवनोद्भवौ ।
प्रणतहृदयग्रन्थेस्तूर्णं प्रभेदनदक्षिणौ
मनसि निदधे श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥९॥
सुतलधरणीगीर्वाणौक:प्रमुख्यजगत्त्रयी -
विहितवसतिप्राणिव्रातप्रपालितशासनौ ।
प्रणतहृदयाम्भोजाभीष्टस्थलाधिपतित्वदौ
मनसि निदधे श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥१०॥
स्वपदसरसीसम्भूधूलीसकृत्स्मरणादिकृन् -
मतिजनितया स्पर्शेनापि प्रणोद्यशुगालयौ ।
भुजबलपराक्रान्त्युच्छिन्नोद्धतासुरमण्डलौ
मनसि कलये श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥११॥
कुजनभयकृद्घोरस्वीयायुधाढ्यकराञ्चितौ
प्रणत भवहृत्सर्वाभीष्टप्रदानविबोधदौ ।
विघटिततमोग्नन्थिध्यातस्वकीयपदाम्बुजो
मनसि निदधे श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥१२॥
कमलजजनु:पीयूषांशुस्वकीयशिखामणि -
त्रिदशधरणीपालाबीशामरास्यमुखस्तुतौ ।
वचनततिसूक्ष्माभृत्कन्याशचीप्रमुखचितौ
मनसि निदधे श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥१३॥
मतिशमकलकृद्रागद्वेषप्रलओर्भावमूढता -
मदमुखरिपुव्रातोच्छेदिप्रशान्तिमुखप्रदौ ।
विनमदखिलश्रान्तिश्रेणीतमोदिवसाधिपौ
मनसि निदधे श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥१४॥
यममुखनिजाशेषाङ्गालीसमुज्ज्वलयोगदौ
यममुखभयव्रातध्वंसप्रदस्वपदस्म्रुती ।
प्रणतदुरितश्रेणीमत्तद्विदन्तमृगेश्वरौ
मनसि निदधे श्रीश्रीकान्तौ सुडङ्वपुराधिपौ ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP