संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवल्लीस्तव:

श्रीवल्लीस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भृङ्गाम्भोदभ्राजद्रेणीं भीतिक्लेशोच्छेदिस्वाङिम् ।
भक्तव्रातस्वर्भूवल्लीं वन्दे स्कन्दप्रेष्ठां वल्लीम् ॥१॥
पाथोजातन्यक्कृत्पाणिण सर्वाभीष्टस्प्रष्ट्र्यङ्घ्र्यब्जाम् ।
वृष्टिक्षीराम्भोधृद्वस्त्रां वन्दे स्कन्दप्रेष्ठां वल्लीम् ॥२॥
आनम्रालीकाम्यश्राणिस्तोकस्वेक्षां रम्यस्वान्ताम् ।
स्व:सेनानीकाम्याकारं वन्दे देवीं श्रीमद्वल्लीम् ॥३॥
कृष्णादीड्यभ्राजन्मूर्त्ति कृत्तानम्राशेषक्लेशाम् ।
कारुण्याब्धिं पौलिन्देड्यां वन्दे स्कन्दप्रेष्ठां वल्लीम् ॥४॥
मेनारम्भामुख्याराध्यां नानामौनिव्रातेड्याङ्घ्रिम् ।
स्वर्णन्यक्कृद्वर्णश्रेष्ठां वन्दे देवीं श्रीमद्वल्लीम् ॥५॥
नैल्योद्रेकाद्यस्थावैणीं स्वीयाभ्रत्वभ्रान्तिस्प्रष्ट्रीम् ।
सङ्कष्टालीपारस्प्रष्ट्रीं वन्दे देवीं श्रीमद्वल्लीम् ॥६॥
क्ष्माधृद्धिक्क्रुद्वक्षोजातां नम्राशेषांहोविच्छेत्रीम् ।
तार्क्ष्यारूढस्वस्त्रुद्भूतप्रेष्ठां वन्दे वल्लीदेवीम् ॥७॥
वीणाभ्राजत्पाण्यम्भोर्भू मौन्याद्युद्गीतात्मश्रेष्ठ्याम् ।
एणाङ्कोत्तंसात्मोद्भूतप्रेष्ठां वन्दे वल्लीदेवीम् ॥८॥
वल्लीदेवीभक्त्या स्पृष्टं ध्यायेत्पद्यान्येतान्यष्टौ ।
तत्कारुण्यात्कष्टान्मुक्त: सर्वं तूर्णं प्राप्नोतीष्टम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP