संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमञ्जुमञ्जुनाथस्तुति:

श्रीमञ्जुमञ्जुनाथस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अञ्जनासुतवरप्रदसम्ज्ञा - जञ्जपूकसततं सह गौर्या
कञ्जशत्रुशिशुशेखरनम्रं मञ्जुनाथ कृपया परिपाहि ॥१॥
[ वसन्ततिलका ]
कर्मद्विजार्यगुरुभक्तिसुबोधमुख्य - धर्मप्रबोधलवदूरमनोयुजे मे ।
धर्मस्थिलस्थितिजुडात्मविबोधनाख्य - शर्मप्रदानमनिशं कुरु मञ्जुनाथ ॥२॥
[ आर्या ]
अन्तर्व्यधायि सम्यग् भानोरेषा त्रिरद्य मया ।
सद्यो ज्वरोsप्यशाम्यत् स्वास्थञ्चाभूद् यथापुरं कमलेट् ॥३॥
[ स्वागता ]
जपादिरतनम्रजनार्त्तिभञ्जनैककृतिखर्वमनस्क ।
कञ्जशत्रुकलयाञ्चितशोर्ष मञ्जुनाथ कृपया परिपाहि ॥३॥
रञ्जनेन नमतां हृदयानां भञ्जनेन निजभक्तजनार्त्ते: ।
मञ्जुलात्रिजगदीश्वरतातो मञ्जुनाथ कृपया परिपाहि ॥५॥
[ उपजाति: ]
सुरासुरोत्तंसशिरोsवर्तसरत्नालिनीराजितनैजपीठम् ।
धर्मस्थलाधीश्वरमञ्जुनाथपादाम्बुजातं प्रणतोsस्मि नित्यम् ॥६॥
[ वसन्ततिलका ]
भीमं विगीतपथसेवकदुर्मतीनां रामं समस्तरमणीयगुनावलीभि: ।
कामं वितीर्णनतलोकसमस्तकामं श्रीमञ्जुनाथमनिशं शरणं प्रपधे ॥७॥
[ इन्द्रब्रज्रा ]
अन्यामरादेयसमस्तदं श्रीधन्यावलीपूजितपदपद्मम् ।
कन्याकुमारीयुतमञ्जुनाथं मन्यामहे सन्ततमीप्सिताल्यै ॥८॥
[ शार्दूलविक्रीडितम् ]
ह्रीमन्तर्हृदि कुर्वतां प्रणमतां विद्यातिरेकेक्षणाद् -
ध्रीमन्तं विदधात्युतथ्यसहजं जम्भारिमर्यान्तया ।
सीमन्तिन्यवतंसताप्रविलसत्कन्याकुमारीयुजं
धीमन्तं कलये हृदम्बुजनुषि श्रीमञ्जुनाथेश्वरम् ॥१॥
भूधर्त्रीश्वरवर्ष्मजन्मविलसद्वामप्रदेशेषदं
श्रीधर्मस्थलवासलोलमनिशं श्रीमञ्जुनाथं भजे ।
गन्धर्वव्रजगीयमानगरिमन्नह्रायमायाजनु -
बन्धादानमदार्त्तिमोचनचणं त्वत्पादपङ्केरुहम् ॥१०॥
[ स्रग्धरा ]
श्रीमद्धर्मस्थलाख्ये वृषततिवितरत्क्षेत्रवर्यें वसन्तं
धीमल्लोकार्चिताङ्घ्रिद्वयमनिशमहं मञ्जुनाथं नमामि ।
मञ्जुत्वान्नाथताया अपि निखिलधरामण्डलस्यर्तसञ्ज्ञम्
ॐ जुण्भक्तिप्रदाय्हिस्मृतिलवचरणाम्भोजनुर्धूंलिलेशम् ॥११॥
[ धर्मानुरागोल्लसितान्तरङ्गं दुर्दोषभङ्गव्रतमादधानम् ] ।
धर्मस्थलक्षेत्रनिवासलीलं श्रीमञ्जुनाथं शरणं प्रपद्ये ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP