संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकमलास्तुति:

श्रीकमलास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नम्रानेप्सितदानविनिर्जितकल्पलताङ्घ्रिमुरोजनुरीष -
नम्रतनुं घनषट्चरणोरगकेलिविलासविडम्बिशिरोजाम् ।
आम्रकवित्वनिरूपितमाधवकामपराजयचुञ्चुकटाक्षां
कम्रनिजस्मितनिर्जितकोकरिपुं कलये कमलामनुवेलम् ॥१॥
अस्तपरास्तसमस्तनिजाङ्घ्रिसरोजनतावलिदु:खदपापां
दुस्तरसङ्कटसन्ततिभीकरसंसृतिसागरतारणनौकाम् ।
प्रस्तरकर्कशपर्वतधिक्कृदुर:स्थलवासितकोमलकायां
शस्तचरित्र्वशीकृतनैजपतिं कलये कमलां जगदम्बाम् ॥२॥
नीरभवाखिलडम्बरभञ्चनपण्डितभीतिविभेदकमुद्रा -
धारकनैजकरप्रतिपादितप दरज:कणनम्रजनेष्टाम् ।
शारदनीरदतुल्यमहार्हपटावृतभर्मविहासिशरीरां
क्षीरपयोनिधिसम्भवनैजतनुं कलये कमलां हरिकान्ताम् ॥३॥
आजसमुद्भवनक्षितिपाथसिजातजनु:स्थलनाभाभिकाम्यां
गोजमुखासुरसूदनसोदरमुख्यसुरव्रजमस्तकनम्याम् ।
नैजपदाम्बुजयुग्मसमाश्रितवत्सलतादिविभूषण रम्यां
राजतभूमिधरेशमुखेप्सितदां कलये कमलां गुणसौभाम् ॥४॥
कृच्छ्रतरापदिकालसमागतम्रुत्युभवान्तिमसाध्वसमारा -
कृष्टनिजाङ्घ्रिपरागकणार्चकपाशनिकृन्तनचुञ्चुक्रुपार्द्राम् ।
कृष्णमनोहरमञ्जुलसुन्दरताञ्चितदिव्यकलेवरबुद्धिं
कृत्तसमस्तभवपदबन्धततिं कलये कमलां जगदम्बाम् ॥५॥
वीननिजासनधिष्ठितनैजकनत्कनकाभतनूज्ज्वलकान्तिं
दीनजनावनपावननैजपदाम्बुजनु:शरणागतपालाम् ।
शौनकनारदमुख्यमहामुनिसन्ततिसन्ततचिन्तितमूर्त्तिं
मेनसहोदरनैजतनुं सततं कलये कमलां जगदम्बाम् ॥६॥
मारनिषूदननाराकीरमुखाखिलभागवतोत्तमगीतां
घोरभवाम्बुधिपारदपारदसन्निभशुभ्रतनुस्मृतिलेशाम् ।
नीरदनीलकचाञ्चितहीरमुखोज्ज्वलहेममयाढ्यकिरीटां
क्षीरपयोनिधिसम्भवनैजतनुं कलये कमलां हरिकान्ताम् ॥७॥
पीननिरन्तरतुङ्गनिजस्तनघृष्ट्यपनीतमहाहरिवक्ष: -
स्थानगदानवपातितपर्वतपादपवाणमुखोद्भवपीडाम् ।
यानपदस्थितिभाग्यलसिद्विनतात्मजनुर्विनताङ्घ्रिपयोजां
मेनसहोदरनैजतनुं सततं कलये कमलां जगदम्बाम् ॥८॥
वारुणसद्मसमुद्भवविष्णुमनोहरवर्ष्मजनु:सुमवाणा
चारुसुगानुयुतं हरिचित्तविनोदकृते नखवादितवीणाम् ।
मारुतभोजिमहीशफणामणिरूषितदोप्तितनुं वरशोणा -
म्भोरुहजिष्णुपदां कलये कमलां शुभदां पदपद्यपराणाम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP