संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीशारदास्तुति:

श्रीशारदास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


फालाक्षीयललाटलोचनशिखिज्वालाप्रदग्धावनीए
धृद्योज्जीवितशेषमुख्यविजितस्वान्तातिदूराङ्घ्रिकीम्
नित्यानित्यविवेकपूर्णधिषणासंन्यस्तसर्वैषणा -
व्रातावाप्यपदारविन्दयुगलां श्रीशारदाम्बां भजे ॥१॥
पाकाहिप्रमुखासुरासुहृतिकृत्पाथोनिधीट्पावक -
पीयूषांशुसहस्रदीधितिमरुन्मुख्यार्चिताङ्घ्रिद्वयाम् ।
स्वीयङ्घ्रयम्बुसमुद्भवोद्भवरजोलेशस्मृदालीजरा -
दुर्मृत्युप्रमुखाखिलार्त्तिशमनीं श्रीशारदाम्बां भजे ॥२॥
अप्यत्यन्तदरिद्रमन्दधिषणो वाचा श्रिया च स्वया
देवाचार्यधनाधिनाथनिखिलाहङ्कारसंहर्तृताम् ।
यत्पादाब्जसकृत्प्रणामकणिकामात्रप्रभावादहो -
सम्प्राप्यशु विराजते पुरुशास्तांशारदाम्बां भजे ॥३॥
नानाकष्टसहस्रकोटिनिकरस्वाकारनक्रावली -
सम्पूर्णप्रभवाब्धिमग्नविनमत्कारुण्यकीलालधिम् ।
पूर्णक्षोनिधरोद्भवाधरखिधृद्वंशावत्तंxद्भव -
हृत्पाथोजदिवाकरानुजनुषं श्रीशारदाम्बां भजे ॥४॥
हस्तीन्द्राननवीरभद्रदिविषद्वक्त्रप्रभासेवितां
हस्तिस्यन्दनवाजिकोशपृतनामुख्याखिलश्रीप्रदाम् ।
पादाम्भोजमधुव्रताशयजनु:पारम्परीसञ्चित -
सर्वांहोविततीभपञ्चवदनं श्रीशारदाम्बां भजे ॥५॥
आत्मोद्भूतसमुद्भवाशिनिचयक्षोनीधरस्वासना -
कान्तारत्नमयोद्भवामखसुरस्त्रीरत्नसंसेविताम् ।
मानातीतमनोहरत्वविलसल्लावण्यवारांनिधिं -
स्वीयाङ्ग्कच्छविधूततप्तकनकां श्रीशारदाम्बां भजे ॥६॥
क्षीराम्भोनिधिसम्भवाशिनिकरज्येष्ठोरुजाताङ्गक -
पाराशर्यसमुत्थशौनकमुखैर्मौनीश्वरै: संस्तुताम् ।
भैमीशाय दवासिभीमसहभूकायाय वस्तुक्षरा -
तद्भिन्नाच्च परं तदाकृतिधरां श्रीशारदाम्बां भजे ॥७॥
तत्तत्काम्यपरम्परेप्सुचरणाम्भोजातनम्रावली -
सर्वाभीष्टवितारकत्वविलसल्लेशस्ववीक्षाव्रजाम् ।
आम्नायालितदुत्तमाङ्गगदितत्रैवर्ग्यमोक्षाभिधा -
शेषार्थव्रजदानतत्परपदां श्रीशारदाम्बां भजे ॥८॥
जातीचम्पकपद्मभूमिकमलप्रत्यग्रमल्लेमन: -
प्रह्नादप्रदकर्णकुण्डलसुमव्रातार्चिताङ्घ्रिद्वयाम् ।
आधारादिनिजाभिधानसरसीसञ्जातमध्योल्लसत् -
स्वीयावासनिवेदिपद्मसदनां श्रीशारदाम्बां भजे ॥९॥
पादाम्भोभवयुग्मभृङ्गहृदयग्रन्थिप्रभेदक्रिया -
प्रौढात्युग्रपरश्वधाकृतिधरस्वापाङ्गलीलालवाम् ।
अम्भोराशिचतुष्टयस्वरशनाक्षोणीतलाधीश्वर -
स्थानश्राणनपण्डितस्वनमनां श्रीशारदाम्बां भजे ॥१०॥
सर्वक्षोणिभुव:स्वरादिभुवनब्रातस्वसद्मप्रजा -
सङ्घातादृतशासनाढ्यचरणाम्भोजातयुग्मस्मृताम् ।
कुष्ठापस्मृतिराजयक्ष्मविविधप्रज्वारमुख्यामय -
व्रातध्वंसनतत्परस्वचरणां श्रीशारदाम्बां भजे ॥११॥
नम्रालीहृदयान्धकारविततिस्वाकारदैत्याधम -
प्राणोच्छेदनसक्तपण्डितनिजस्वान्ताङ्घ्रिपाथोरुहाम् ।
वीणापुस्तकमुद्रिकाद्वयसुधावार्धातयुक्पाणिका -
स्पष्टीभूतसमस्तवृत्तिमनसं श्रीशारदाम्बां भजे ॥१२॥
रागद्वेषविमोहलोभमदयुड्मात्सर्यनैजाकृति -
स्पष्टीभूतविकारलेशरहितध्यातस्वपादाम्बुजाम् ।
स्वीयस्वान्तसरोजघस्ररमणश्रीकान्तदाक्षायणीट् -
पौलोमीशधनञ्जयादिकलितां श्रीशारदाम्बां भजे ॥१३॥
चेत:शान्तिसमस्तबाह्यखदमश्रद्धातितिक्षामुख -
मोक्षश्राणकतत्त्वबोधकरणव्रातप्रदाङ्घ्रिस्मृतिम् ।
संसारस्य निसर्गत: प्रभवत: सर्वश्रमान् सत्वरं
हृत्वा शाश्वतसौख्यमाशु ददतीं श्रीशारदाम्बां भजे ॥१४॥
अज्ञानप्रभवा: प्रणम्ररचिता जन्मस्वसङ्ख्यषुया
सोधोन्मूल्य महाद्वकोटिविततीरप्याशु कारुण्यत: ।
नि:शेषं यममुख्यसाध्वसचयोच्छेदाय योगेशतां
द्रागु दत्ते यममुख्यरञ्जितमलं श्रीशारदाम्बां भजे ॥१५॥
भक्ताभीष्टनिकायदानरसिकस्वाङ्घ्रिस्मृते: शारदा -
देव्या: पादयुगींप्रणम्य पठतामेनां तदीयस्तुतिम् ।
विद्वद्वृन्दशिरोमणित्वतुलनाहीनाखिलश्रीतति -
नीरोगत्वकलत्र्रत्नसुयश:पुत्रादिसम्पद् भवेत् ॥१६॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP