TransLiteral Foundation
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ स्त्रीरोगाधिकार: ॥

॥ अथ स्त्रीरोगाधिकार: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ स्त्रीरोगाधिकार: ॥
॥ अथ स्त्रीरोगाधिकार: ॥
तत्रादौ प्रदरस्य निदानमाह ॥ विरुद्धमद्याध्यशनादजीर्णाद्‍ गर्भप्रपातादतिमैथुनाच्च यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च ॥१॥
तं श्लेष्मपित्तानिलसंनिपातैश्चतुष्प्रकारं प्रदरं वदन्ति ॥२॥
प्रदरस्य सामान्यलक्षणमाह ॥ असृगदरं भवेत्सर्वं साड्गमर्दं सवेदनम्‍ ॥१॥
अथ श्लैष्मिकस्य लक्षणमाह ॥ आमं सपिच्छप्रतिमं सपाण्डु पुलाकतोयप्रतिमं कफात्तु ॥१॥
पैत्तिकमाह ॥ सपीतनीलासितरक्तमुष्णं पित्तार्तियुक्तं भृशवेगि पित्तात्‍ ॥१॥
वातिकमाह ॥ रुक्षारुणं फेनिलमल्पमल्पं वातात्सतोदं पिशितोदकाभम्‍ ॥१॥
अथ सान्निपातिकमाह ॥ सक्षौद्रसर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषम्‍ । तं चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्र कुर्वीत भिषक६ चिकित्साम्‍ ॥१॥
अथ रक्तस्यातिप्रवृतावुपद्रवानाह ॥ तस्यातिवृतौ दौर्बल्यं भ्रमो मूर्च्छा मदस्तृषा । दाह: प्रलाप: पाण्डुत्वं तन्द्रा रोगश्च वातजा: ॥१॥
अथासाध्यां प्रदरव्याधिमतीमाह ॥ शश्वत्‍ स्त्रवन्तीमास्त्रावं तृषादाहज्वरान्विताम्‍ । दुर्बलां क्षीणरक्तां च तामसाध्यां विवर्जयेत्‍ ॥१॥
अथ चिकित्सानिवृत्त्यर्थं शुद्धार्तवलक्षणमाह ॥ मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च । नैवातिबहु नात्यल्यमार्तवं शुद्धमादिशेत्‍ ॥१॥
शशासृकप्रतिमं यच्च यद्वा लाक्षारसोपमम्‍ । तदार्तवं प्रशंसन्ति यच्चाप्सु न विरज्यते ॥२॥
इति प्रद्ररनिदानम्‍ ॥ अथ प्रद्ररचिकित्सा ॥ दग्धा सौवर्चलाजाजीमधुकं नीलमुत्पलम्‍ । पिबेत्क्षौद्रयुतं नारी वातासृग्‍ दरशान्तये ॥१॥
नागरं मधुकं तैलं सितादधि च तत्समम्‍ । खञ्जेनोन्मथितं पीतं वातप्रदरनाशनम्‍ ॥२॥
एलामंशुमतीं द्राक्षामुशीरं तिक्तरोहिणीम्‍ । चन्दनं कृष्णलवणं सारिवालोध्रसंयुतम्‍ ॥३॥
वातासृगदरशान्त्यर्थं पिबेद्दध्रा सहाड्गना । पित्तासृगदरशान्त्यर्थं सक्षौद्रं ललना पिबेत्‍ ॥४॥
वासकस्य गुडूच्या वा रसं किं वा वरीभवम्‍ । मधुकं कर्षमेकं तु चतुष्कर्षां सितां तथा ॥ तण्डुलोदकसम्पिष्टं लोहिते प्रदरे पिबेत्‍ ॥५॥
प्रदरं हन्ति बलाया मूलं दुग्धेन संयुतं पीतम्‍ । कुशवाट्यालकमूलं तण्डुलसलिलेन रक्ताख्यम्‍ ॥६॥
बलाकड्कतिकाख्या या तस्या मूलं सचूर्णितम्‍ । लोहितप्रदरे खादेच्छर्करामधुसंयुतम्‍ ॥७॥
मद्यैर्निम्बगुडूच्योश्च रोहितस्याथवा रसम्‍ । कफप्रदरनाशाय पिबेद्वा मलयूरसम्‍ ॥८॥
काकजड्घामूलरसं मधुना सह भामिनी । सलोध्रचूर्णमापीय कफप्रदरकं जयेत्‍ ॥९॥
पथ्यामलकबिभीतकविश्वौषधदारुरजनीनाम्‍ । सक्षौद्रलोध्रचूर्ण: क्वाथो हन्त्येष सर्वजं प्रदरम्‍ ॥१०॥
रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रान्वितं तण्डुलतोयपीतम्‍ । असृगदरं सर्वभवं निहन्ति श्वासं सुभार्गी सह नागरेण ॥११॥
अशोकवल्कलं क्वाथशृतं दुग्धं सुशीतलम्‍ । यथाबलं पिबेत्प्रातस्तीव्रासृगदरनाशनम्‍ ॥१२॥
समुद्‍धृत्य कुशमूलं पेषयेत्तण्डुलाम्बुना । एतत्पीत्वा त्र्यहं नारी प्रदरात्परिमुच्यते ॥१३॥
क्षौद्रयुक्तं फलरसं काष्ठोदुम्बरजं पिबेत्‍ । असृग्दरविनाशाय सशर्करपयोऽन्नभुक्‍ ॥१४॥
मलयूफलचूर्णस्य शर्करासहितस्य च । मधुना मोदकं कृत्वा खादेत्प्रदरनाशनम्‍ ॥१५॥
दार्वीरसाञ्जनवृषाब्दकिरातबिल्वभल्लातकैरवकृतो मधुना कषाय: । पीतो जयत्यतिबलम्प्रदरं सशूलं पीतासितारुणविलोहितनीलशुक्लम्‍ ॥१६॥
भूम्यामलकमूलं तु पीतं तण्डुलवारिणा । द्वित्रैरेव दिनैर्नार्या: प्रदरं दुस्तरं जयेत्‍ ॥१७॥
शुण्ठीतिरिट्योश्चूर्णं मुक्तं सघृतशर्करम्‍ । प्रबलं प्रदरं हन्ति नार्या वा कुटजाष्टकम्‍ ॥१८॥
धातक्याश्च तथा पूगीकुसुमानां पिबेच्छृतम्‍ । नाशयेत्प्रदरं सद्यस्त्रिदिनाद्योषितां ध्रुवम्‍ ॥१९॥
आखो: पुरीषं पयसा निपीय वह्नेर्बलादेकमहो व्द्यहं वा । स्त्रियस्त्र्यहं वा प्रदरं स्त्रवन्त्य: प्रसह्य पारं परमाप्नुवन्ति ॥२०॥
अशोकवल्कलं पिष्ट्वा सतार्क्ष्य तण्डुलाम्भसा । सक्षौद्रं पीत्वा प्रदरान्मुच्यन्तेऽड्गना ॥२१॥
सूचिस्थाने व्याघ्रनख्या मूलमुत्तरदिग्भवम्‍ । नीतमुत्तरफल्गुन्यां कटिबद्धं हरेदसृक्‍ ॥२२॥
अथ पुष्यानुगं चूर्णम्‍ ॥ पाठा रसाञ्जनं मुस्तं मज्जा जम्ब्वाम्रयोस्तथा । अम्बष्ठकी शिलोद्भेदं कट्‍फलं च मरिच रक्तचन्दनम्‍ ॥२॥
कट्वड्गं धातकी द्राक्षानन्ता मधुकमर्जुनम्‍ । वत्सकातिविषा चेति पुष्येणोद्‍धृत्य बुद्धिमान्‍ ॥३॥
तुल्यभागानि सर्वाणि सूक्ष्माणि च विचूर्णयेत्‍ तच्चूर्णं माक्षिकोपेतं पीतं तण्डुलवारिणा ॥४॥
जयेदर्शांस्यतीसारं तथा रक्तप्रवाहिकाम्‍ । बालानां कृमिरोगांश्च योनिदोषांश्च योषिताम्‍ ॥५॥
रजोदोषी तथा सर्वान्प्रदरान्दुस्तरानपि । पीतनीलारुणश्वेतान्सर्वानेव विनाशयेत्‍ । चूर्णं पुष्यानुगं नाम पूर्वमात्रेयभाषितम्‍ ॥६॥
इति पुष्यानुगं चूर्णम्‍ ॥ अथ जीरकावलेह: ॥ जीरकं प्रस्थमेकं तु क्षीरं व्द्याढकमेव च । प्रस्थार्धं लोध्रघृतयो: पचेन्मन्देन वह्निना ॥१॥
लेहिभूतेऽथ शीतेऽत्र सिताप्रस्थं विनिक्षिपेत्‍ । चातुर्जातकणा विश्वमज्जाजी मुस्तवालकम्‍ ॥२॥
दाडिमं रसजं धान्यं रजनी पडवासकम्‍ । वंशजं च तवक्षीरी प्रत्येकं शुक्तिसंमितम्‍ ॥३॥
जीरकस्यावलेहोऽयं प्रमेहप्रदरापह: । ज्वरावल्यारुचिश्वासतृष्णादाहक्षयापह: ॥४॥
निष्कमैन्द्रयवं चूर्णं सिताद्विगुणितं भवेत्‍ । उषितेन जलेनैव पीतम्प्रदरनाशनम्‍ ॥५॥
अथ मुद्गाद्यं घृतम्‍ ॥ मुद्गमाषस्य निर्यूहे शाल्मलीघृतम्‍ ॥ शाल्मलीपुष्पनिर्यास: पृश्निपर्णी तथैव च । काश्मरी चन्दनं चैषां कल्केन स्वरसेन वा ॥१॥
गव्यं पचेद्‍ घृतप्रस्थं तत्सिद्धं तरुणी पिबेत्‍ । सर्वप्रदरनाशाय बलवर्णाग्निवर्धनम्‍ ॥२॥
अथ शीतकल्याणकं घृतं वृन्दात्‍ ॥ कुमुदं पद्मकोशीरं गोधूमो रक्तशालय: । मुद्गपर्णी पयस्या च काश्मरी मधुयष्टिका ॥१॥
बलातिबलयोर्मूलमुत्पलं तालमस्तकम्‍ । विदारी शतपुष्पी च शालपर्णी सजीवका ॥२॥
त्रिफला त्रापुसम्बीजं प्रत्यग्रं कदलीफलम्‍ । एषामर्धपलान्भागान्‍ गव्यक्षीरं चतुर्गुणम्‍ ॥३॥
पानीयं द्विगुणं दत्वा घृतप्रस्थं विपाचयेत्‍ । प्रदरे रक्तगुल्मे च रक्तपित्ते हलीमके ॥४॥
अरोचके ज्वरेऽजीर्णे पाण्डुरोगे मदे भ्रमे । तरुणी त्वल्पपुष्पा वा या च गर्भं न विन्दति ॥५॥
अहन्यहनि च स्त्रीणां भवति प्रीतिवर्धनम्‍ । शीतकल्याणकं नाम परमुक्तं रसायनम्‍ ॥६॥
रक्तपित्ताधिकारोक्तं कूष्माण्डखण्डं च प्रदरे देयम्‍ ॥ अथ रसा: ॥ रसं गन्धं सीसं मृतमितिसमं तैस्तु रसजं समानं सर्वै: स्यात्तुलितमपि लोध्रं वृषरसै: । दिनं पिष्टे नाम्ना प्रदररिपुरेषोपहरति द्विवल्ल: क्षौद्रेण प्रदरमपि दु:साध्यमपि च ॥१॥
इति प्रदरारि: ॥ रसरत्नप्रदीपात्‍ ॥ अथ बोलपर्पटी ॥ सूतगन्धकसुकज्जलिकाया: पर्पटी समयुता समभागम्‍ । बोलचूर्णविहितं प्रतिवाप्यं स्याद्रसोऽयमसृगामयहारी ॥१॥
वल्लयुग्मयुगुलं प्रतिदेयं शर्करामधुयुत: किल दत्त: । रक्तपित्तगुदजासृतियोनिस्त्रावमाशु विनिवारयतीश: ॥२॥
इति बोलपर्पटी योगसारात्‍ ॥ इति प्रदरचिकित्सा ॥
॥ अथ सोमरोगाधिकार: ॥
तत्र सोमरोगस्य निदानपूर्विकां संप्राप्तिमाह ॥ स्त्रीणामतिप्रसड्गाद्वा शोकाच्चापि श्रमादपि । अतिसारकयोगाद्वा गरदोषात्तथैव च ॥१॥
आप: सर्वशरीरस्था: क्षुभ्यन्ति प्रस्त्रवन्ति च । तस्यास्ता: प्रच्युता: स्थानान्मूत्रमार्ग व्रजन्ति हि ॥२॥
अथ तस्य लक्षणमाह ॥ प्रसन्ना विमला: शीता निर्गन्धा नीरुज: सिता: । स्त्रवन्ति चातिमात्रं ता: सा न शक्नोति दुर्बला ॥१॥
वेगं धारयितुं तासां न विन्दति सुखं क्वचित्‍ । शिर:शिथिलता तस्या मुखं तालु च शुष्यति ॥२॥
मूर्च्छा जृम्भा प्रलापश्च त्वग्‍रुक्षा चातिमात्रत: । भक्ष्यैर्भोज्यैश्च पेयैश्च न तृप्तिं लभते सदा ॥३॥
सन्धारणाच्छरीरस्य ता आप: सोमसंज्ञिता: । तत: सोमक्षयात्स्त्रीणां सोमरोग इति स्मृत: ॥४॥
तस्मात्सोमक्षयाद्देहो निश्चेष्टश्च भवेत्सदा । स एव सरुज: सोमो मूत्रेण स्त्रवते मुहु: ॥५॥
सोमलक्षणसंसृष्ट: कालातिक्रान्तयोगत: । सोमक्रान्तिक्रमेणैव स्त्रवन्मूत्रमभीक्ष्णश: ॥ मूत्रातिसार इत्येव तमाहुर्बलनाशनम्‍ ॥६॥
इति सोमरोगनिदानम्‍ ॥ अथ सोमरोगस्य चिकित्सा ॥ कदलीनां फलं पक्वं धात्री फलरसं मधु । शर्करासहितं खादेत्सोमधारण्मुत्ततम्‍ ॥१॥
माषचूर्णं समधुकं दिदारीमधु शर्कराम्‍ । पयसा पाययेत्प्रात: सोमधारणमुत्ततम्‍ ॥२॥
जलेनामलकीबीजकल्कं समधुशर्करम्‍ । पिबेद्दिनत्रयेणैव श्वेतप्रदरनाशनम्‍ ॥३॥
तक्रौदनाहाररता संपिबेन्नागकेशरम्‍ । त्र्यहं तक्रेण सम्पिष्टं श्वेतप्रदरनाशनम्‍ ॥४॥
चूर्णं तु पडवासस्य तिलतैलेन लेहयेत्‍ । सप्तरात्रेण योषाणां श्वेतप्रदरनाशनम्‍ ॥५॥
अत्रैव मूत्रातिस्त्रारस्य चिकित्सामाह ॥ स एव सरुज: सोम: स्त्रवेन्मूत्रेण चेन्मुहु: । तत्रैलापत्रचूर्णेन पाययेत्‍ तरुणीं सुराम्‍ ॥१॥
तालकन्दं च खर्जूरं मधुकं च विदारिकाम्‍ । सितामधुयुतां खादेन्मूत्रातीसारनाशनम्‍ ॥३॥
अथ कदलीघृतम्‍ ॥ कदलीकन्दनिर्यासद्रोणे शतपालान्वितम्‍ । कदलीकुसुमं पक्वं क्वाथं पादावशेषितम्‍ ॥१॥
घृतप्रस्थं पयस्तुल्यं पिप्पल्येलालवड्गकम्‍ । कपित्थस्य फलं मांसी कदलीकन्दचन्दनम्‍ ॥२॥
न्यग्रोधादिगणै: सार्धं सर्वान्वारिसमुद्भवान्‍ । सर्वं समं कर्षमात्रं कल्कीकृत्वा पचेच्छनै: ॥३॥
घृतं क्वाथं च कल्कं च पक्त्वा चैवावतारयेत्‍ । प्रात:काले पिबेन्नित्यं सेवयेत्कर्षमात्रकम्‍ ॥४॥
सोमरोगं हरेद्दाहं मूत्रकृच्छ्राश्मरीं तथा । प्रमेहान्विंशतिं हन्यात्प्रमेहगजकेसरी ॥५॥
मूत्रातिसारमप्यन्यं व्याधिं विध्वंसयेद्‍ ध्रुवम्‍ । कदलीकन्दनामेदं घृतं सर्वरुजापहम्‍ ॥६॥
अथ रस: ॥ कूष्माण्डापत्रस्वरसै: पक्वं पारदनिष्ककम्‍ । द्विनिष्कं गन्धकं कृत्वा ज्वलने कज्जलीकृत: ॥ असौ समरिच: सोमरोगातिसूतिनाशन: ॥१॥
इति सोमरोगमूत्रातिक्ताराधिकार: ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T20:21:45.3500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आर्जविकाचे लक्षण, घातक शत्रुप्रमाण

  • जो मनुष्य आपल्या गरजेकरितां आपले आर्जव करतो त्यात त्याचा स्वार्थ असतो 
  • तेव्हां त्यावर विश्र्वास ठेवू नये. त्याला शत्रूप्रमाणें मानावा. 
RANDOM WORD

Did you know?

पापा पासून मुक्त होण्यासाठी काय उपाय करावेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.