TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ नेत्ररोगाणांधिकार: ॥

॥ अथ नेत्ररोगाणांधिकार: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ नेत्ररोगाणांधिकार: ॥
॥ अथ नेत्ररोगाणांधिकार: ॥
तत्र नेत्रस्य प्रमाणमाह ॥ विद्याद्‍व्द्यड्गुलबाहुल्यं स्वाड्गुष्ठोदरसंमितम्‍ । व्द्यड्गुलं सर्वत: सार्धं भिषड्ग नयनमण्डलम्‍ ॥१॥
अथ नेत्रस्याड्गान्याह ॥ पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु । अनुपूर्वं तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम्‍ ॥१॥
तत्र नेत्रमण्डलेऽष्टसप्ततिर्व्याधयो भवन्तीत्याह ॥ द्वादश व्याधयो दृष्ट्यां तत्रैवान्यौ गदावुभौ । कृष्णभागे तु चत्वारो दशैक: शुक्लभागज: ॥१॥
वर्त्मन्येको विंशतिश्च पक्ष्मजौ द्वौ प्रकीर्तितौ । नव सन्धिषु सर्वस्मिन्नेत्रे सप्तदशोदिता: ॥ एवं नेत्रे समस्ता: स्युरष्टसप्ततिरामया: ॥२॥
सुश्रुतोक्तान्षट्‍सप्ततिसंख्यानाह ॥ वाताद्दश तथा पित्तात्कफाच्चैव त्रयोदश । रक्तात्षोडश विज्ञेया: सर्वजा: पञ्चविंशति: । बाह्यौ पुनर्द्वौ नयने रोगा: षट्‍सप्तति: स्मृता: ॥१॥
अथ नेत्ररोगाणां सामान्यतो विप्रक्रृष्टं सन्निकृष्टं च निदानमाह ॥ उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात्स्वप्रविपर्ययाच्च । स्वेदाद्रजो धूमनिषेवणाच्च च्छर्देर्विघाताद्वमनातियोगात्‍ ॥१॥
द्रवान्नपानातिनिषेवणाच्च विण्मूत्रवातक्रमनिग्रहाच्च । प्रसक्तसंरोदनशोकतापाच्छिरोऽभिघातातिमद्यपानात्‍ ॥२॥
तथा ऋतूनां च विपर्ययेण क्लेशाभितापादिमैथुनाच्च । बाष्पग्रहात्सूक्ष्मनिरीक्षणाच्च नेत्रे विकाराञ्जनयन्ति दोषा: ॥३॥
नयनरोगसम्प्राप्ति: सुश्रुते पठ्यते । शिरानुसारिभिर्दोषैर्विगुणैरुर्ध्वमाश्रितै: । जायन्ते नेत्रभागेषु रोगा; परमदारुणा: ॥ नेत्रभागेषु नेत्रस्य दृष्ट्याद्यवयवेषु च ॥१॥
अथादौ दृष्टिरोगानाह ॥ तत्र दृष्टिलक्षणम्‍ ॥ मसूरदलमात्रां तु पञ्चभूतप्रसादजाम्‍ । खद्योतविस्फुलिड्गाभां सिद्धां तेजोभिरव्ययै: ॥१॥
आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम्‍ । शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तका: ॥२॥
अथ तत्र पटलानि चत्वारि भवन्ति तान्याह ॥ तेजो जलाश्रितं बाह्यं तेष्वन्यत्पिशिताश्रितम्‍ । मेदस्तृतीयं पटलमाश्रितं त्वस्थ्रि चापरम्‍ ॥ पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते ॥१॥
अथ तत्र प्रथमपटलगतस्य दोषस्य स्वभावमाह ॥ प्रथमे पटले दोषो यस्य दृष्ट्यां व्यवस्थित: । अव्यक्तानि च रुपाणि कदाचिदथ पश्यति ॥१॥
दृष्टेभ्यन्तरे दोषा: पटले समधिष्ठिता: । एकैकमनुपद्द्यन्ते पर्यायात्पटलान्तरम्‍ ॥२॥
इति विदेहवचनात्‍ ॥ अथ द्वितीयपटलगतदोषस्वभावमाह ॥ दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते ॥१॥
मक्षिकामशकान्केशांल्लाजकानीवपश्यति । मण्डलानि पताकाश्च मरीचीन्कुण्डलानि च ॥२॥
परिप्लवांश्च विविधान्‍ वर्षमभ्रतमांसि च । दूरस्थानि च रुपाणि मन्यते च समीपत: ॥३॥
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात्‍ । यत्नवानपि चार्यर्थं सूचीपाशं न पश्यति ॥४॥
अथ तृतीयपटलगतदोषमाह ॥ ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते । महान्त्यपि च रुपाणि च्छादितानीव चाम्बरै: ॥
कर्णनासाक्षिरुपाणि विकृतानीव पश्यति ॥१॥
अथात्र रागप्राप्तिमाह ॥ यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि । अध:स्थे तु समीपस्थं दूरस्थे चोपरिस्थिते ॥ पार्श्वस्थिते पुनर्दोषे पार्श्वस्थानि न पश्यति ॥१॥
समन्तत: स्थिते दोषे संकुलानीव पश्यति । दृष्टिमध्यस्थिते दोषे महद्‍ध्रस्वं प्रपश्यति ॥२॥
दोषे दृष्टिस्थिते तिर्यगेकं वै मन्यते द्विधा । द्विधा स्थिते त्रिधा पश्येद्‍ बहुधा वानवस्थिते ॥३॥
अथ चतुर्थपटलगतदोषमाह ॥ तिमिराख्य: स वै दोषश्चतुर्थपटलं गत: । रुणद्धि सर्वतो दृष्टिं लिड्गनाश इति क्वचित्‍ ॥१॥
अस्मिन्नपि तमोभूते नातिरुढे महागदे । चन्द्रादित्यौ सनक्षत्रावन्तरिक्षे च विद्युत: ॥२॥
निर्मलानि च तेजांसि भ्राजिष्णुनि च पश्यति । स एव लिड्गनाशस्तु नीलिकाकाचसंज्ञित: ॥३॥
अथ दृष्टिरोगाणां संख्यां नामानि चाह ॥ दृष्ट्याश्रया: षट्‍ च षडेव रोगा: षड्‍ लिड्गनाशा हि भवन्ति तत्र । वातेन पित्तेन कफेन सर्वैरक्तात्परिम्लाय्यभिधश्च षष्ठ: ॥१॥
तथा नर: पित्तविदग्धदृष्टि: कफेन चान्यस्त्वथ धूमदर्शी । यो हृस्वजात्यो नकुलान्धसंज्ञो गम्भीर संज्ञा च तथैव दृष्टि: ॥२॥
तत्रैव द्वावन्यावाह ॥ तत्रैवान्यौ गदौ द्वौ च सन्निपातनिमित्तकौ ॥१॥
तेषु वातजस्य लिड्गनाशस्य व्याविद्धानीव मानव: ॥१॥
अथ पैत्तिकमाह ॥ पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान्‍ । नृत्यतश्चैव शिखिन: सर्व नीलं च पश्यति ॥१॥
अथ श्लैष्मिकमाह ॥ कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च । सलिलप्लावितानीव परिजाड्यानि मानव: ॥१॥
अथ संनिपातजमाह ॥ सन्निपातेन चित्राणि विप्लुतानि च पश्यति । बहुधापि द्विधा वापि सर्वाण्येव समन्तत: ॥ हीनाधिकाड्गान्यथवा ज्योतींष्यपि च भूयसा ॥१॥
====
अथ रक्तजमाह ॥

पश्येद्रक्तेन रक्तानि तमांसि विविधानि च । हरितान्यथ कृष्णानि पीतान्यपि च मानव: ॥१॥
अथ परिम्लायिनमाह ॥ रक्तेन मूर्च्छितं पित्तं परिम्लायिनमाचरेत्‍ । तेन पीता दिश: पश्येदुद्यन्तमिव भास्करम्‍ ॥ विकीर्यमानान्‍ खद्योतैर्वृक्षांस्तेजांसि चैव हि ॥१॥
अथ नेत्रवर्णै: षडविधं लिड्गनाशमाह ॥ वातादिजनितैर्नेत्रवर्णैरपि च षडविध्‍: । लिड्गनाशो निगदितो वर्णो वातादिजो यथा ॥१॥
रागोऽरुणो मारुतज: प्रदिष्टो म्लायी च नीलश्च तथैव पित्तात्‍ । कफात्सित: शोणितज: सरक्त: समस्तदोषप्रभवो विचित्र: ॥२॥
अथ वातादिना हेतुभूतेन जनिते नेत्र मण्डले रुपविशेषमाह । अरुणं मण्डलं वाताच्चञ्चलं परुषा तथा । पित्तान्मण्डलमानीलं कांस्याभं पीतमेव च ॥१॥
श्लेष्मणा बहलं स्निग्धं शड्खकुन्देन्दुपाण्डुरम्‍ । चलत्पद्मपलाशस्थ: शुक्लो बिन्दुरिवाम्भस: ॥२॥
संकुचत्यातपेऽत्यर्थं छायायां विस्तृतो भवेत्‍ । मृद्यमाने तु ननने मण्डलं तद्विसर्पति । मण्डलं तु भवेच्चित्रं लिड्गनाशे त्रिदोशजे ॥३॥
प्रवालपद्मत्राभं मण्डलं शोणितात्मकम्‍ । रक्तजं दृष्टौ स्थूलं काचारुणप्रभम्‍ ॥४॥
परिम्लायिनि रोगे स्यान्म्लानं नीलं च मण्डलम्‍ । दोषक्षयात्स्वयं तत्र कदाचित्स्यात्तु दर्शनम्‍ ॥५॥
अनुक्तव्यथादाहगौरवादिदोषलिड्गसंग्रहार्थमाह ॥ यथास्वं दोषलिड्गानि सर्वैष्वेव भवन्ति हि ॥ अथ पित्तविदग्धदृष्टेर्लक्षणमाह ॥ पित्तेन दुष्टेन गतेन वृद्धिं पीता भवेद्यस्य नरस्य दृष्टि: । पीतानि रुपाणि च तेन पश्येत्स वै नर: पित्तविदग्धदृष्टि: ॥१॥
तस्त्मिन्नेव पित्ते दृष्टौ तृतीयं पटलं गते रुपविशेषेण दिवान्धलक्षणमाह ॥ प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते स: । रात्रौ स शीतानुगृहीतद्दष्टि: पित्ताल्पभावात्सकलानि पश्येत्‍ ॥१॥
अथ श्लेष्मविदग्धदृष्टिलिड्गमाह ॥ तथा नर: श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु ॥१॥
अथ नक्तान्ध्यमाह ॥ त्रिषु स्थितो य: पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य । दिवा स सूर्यानुगृहीतदृष्टि: पश्येत्तु रुपाणि कफाल्पभावात्‍ ॥१॥
अथ धूमदर्शिनमाह ॥ शोकज्वरायासशिरोऽभितापैरभ्याहता यस्य नरस्य दृष्टि: । धूम्रांस्तु य: पश्यति सर्व भावान्‍ सधूमदर्शीति नर: प्रदिष्ट: ॥१॥
अथ हृस्वजात्यमाह ॥ यो वासरे पश्यति कष्टतोऽथ रुपं महच्चापि निरीक्षतेऽल्पम्‍ । रात्रौ पुनर्य: प्रकृतानि पश्येत्स ह्रस्वजात्यो मुनिभि: प्रदिष्ट: ॥१॥
तन्त्रान्तरे । दृष्टिमध्यस्थिते दोषे महद्‍ध्रस्वं न पश्यति । रात्रौ पित्ताल्पभावाच्च तानि रुपाणि पश्यति ॥१॥
अथ नकुलान्ध्यमाह । विद्योतते यस्य नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत्‍ । चित्राणि रुपाणि दिवा स पश्येत्स वै विकारो नकुलान्ध्यसंज्ञ: ॥१॥
अथ गम्भीरकामाह ॥ दृष्टिर्विरुपा श्वसनोपसृष्टा संकोचमभ्यन्तरतस्तु याति । रुजावगाढा च तमक्षिरोगं गम्भीरकेति प्रवदन्ति वृद्धा: । अथ बाह्यौ निमित्तानिमित्तसंज्ञौ लिड्गनाशावाह ॥ बाह्यौ पुनर्द्वाविह संप्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च । निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शन: स: ॥१॥
सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्करस्य । हन्येत द्रष्टिर्मजुनस्य तस्य स लिड्गनाशस्त्वनिमित्तसंज्ञ: ॥२॥
अथानिमित्ततो लिड्गनाशस्य लक्षणमाह ॥ तत्राक्षिविस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टि: ॥१॥
अथ दृष्टिमण्डलप्रत्यासन्नतया कृष्णगतविकारानाह ॥ यत्सव्रणं शुक्रमथाव्रणं च पाकात्ययश्चाप्यजका तथैव । चत्वार एते नयनामयास्तु कृष्णप्रदेशे नियता भवन्ति ॥१॥
तत्र सव्रणशुक्रलिड्गमाह ॥ निमग्नरुपं तु भवेद्धि कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै । स्त्रावं स्त्रवेदुष्टमतीव यच्च तत्सव्रणं शुक्रमुदाहरन्ति ॥१॥
विदेहेऽप्युक्तम्‍ ॥ रक्तराजिनिभं कृष्णे छिन्नाभं यत्र लभ्यते । सूच्यग्रेणेव तच्छुक्रमुष्णाश्रुस्त्रावि तद्‍व्रणम्‍ ॥१॥
अथास्य साध्यासाध्यलक्षणमाह ॥ दृष्टे समीपे न भवेत्तु यच्च न चावगाढं न च संस्त्रवेच्च । अवेदनं वा न च युग्मशुक्रं तत्सिद्धिमायाति कदाचिदेव ॥१॥
अथाव्रणशुक्रमाह ॥ स्यन्त्दात्मकं कृष्णगतं तु शुक्रं शड्खेन्दुकुन्दप्रतिमावभासम्‍ । वैहायसाभ्रप्रतनुप्रकाशं तं चाव्रणं साध्यतमं वदन्ति ॥१॥
साध्यतमस्याप्यस्यावभेदेन कष्टसाध्यतामाह ॥ गम्भीरजातं बहुलं च शुक्रं चिरोत्थितं चापि वदन्ति कृच्छ्रम्‍ ॥१॥
अथासाध्यतां चाह । विच्छिन्नमध्यं पिशितावृतं वा चलं शिरासूक्ष्ममदृष्टिकृच्च । द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम्‍ ॥१॥
अपरमसाध्यलक्षणमाह । उष्णाश्रुपात: पिटिका च नेत्रे यस्मिन्भवेन्मुद्गनिभं च शुक्रम्‍ । तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च वा तित्तिरिपक्षतुल्यम्‍ ॥१॥
अथाक्षिपाकात्ययमाह ॥ श्वेत: समाक्रामति सर्वतो हि दोषेण यस्यासित्तमण्डलं तु । तमक्षिपाकात्ययामक्षिकोपं सर्वात्मकं वर्जयितव्यमाहु: ॥१॥
अथाजकाजातमाह ॥ अजापुरीषप्रतिमो रुजावान्सलोहितो लोहितपिच्छिलाश्रु । विगृह्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्ययस्येत्‍ ॥१॥
अथात्र विदेह: ॥ कृष्णेक्षणोद्भवे शुष्कच्छगलीविट्‍समप्रभम्‍ । सान्द्रपिच्छलरक्तास्त्रं द्वित्वग्गं वाजिकेति सा ॥१॥
इति कृष्णजा: ॥ अथ शुक्लभागजा रोगास्तेषाम नामानि सड्ख्यां चाह ॥ प्रस्तारिशुक्लक्षतजाधिमांसस्त्राय्यर्मसंज्ञा: खलु पञ्च रोगा: ॥ स्याच्छुक्तिका सार्जुनपिष्टकाख्या जालं शिराणां पिटिकाश्च तासाम्‍ ॥ रोगा बलासग्रथितेन सार्धमेकादशोक्ता: खलु शुक्लभागे ॥१॥
तेषु प्रस्तार्यर्मणो लक्षणमाह । प्रस्तारि तनु विस्तीर्णं श्यावं रक्तनिभं सिते ॥ अथ शुक्लार्माह ॥ सुश्वेतं मृदु शुक्लार्म शुक्ले तद्वर्धतेचिरात्‍ ॥ अथ रक्तजार्माह ॥ पद्माभं मृदु रक्तार्म यन्मांसं चीयते सिते ॥१॥
अथाधिमांसार्माह ॥ पृथु मृद्वाधिमांसार्म बहलं च यकृन्निभम्‍ ॥ अथ स्नाय्वर्माह ॥ स्थिरं प्रस्तारिमांसाढ्यं शुष्कं स्न्त्राय्वर्म पञ्चमम‍ ॥१॥
अथ शुक्तिकामाह ॥ श्यावा: स्यु: पिशितनिभास्तु बिन्दवो ये शुक्त्याभास्त्वसितसिता: स शुक्तिसंज्ञ: ॥ अथार्जुनमाह ॥ एको य: शशरुधिरोपमश्च बिन्दु: शुक्लस्थो भवति तदर्जुनं वदन्ति ॥१॥
अथ पिष्टकमाह ॥ श्लेष्ममारुतकोपेन शुक्ले मांसं समुन्नतम्‍ । पिष्टवद्‍ पिष्टकं विद्धि मलाक्तादर्शसन्निभम्‍ ॥१॥
अथ शिराजालमाह ॥ जालाभ: कठिनशिरो महान्‍ सरक्त: सन्तान: स्मृतइह जालसंज्ञितस्तु ॥१॥
अथ शिरापिटिकामाह ॥ शुक्लस्था: सितपिटिका: शिरावृता यास्ता ब्रूयादसितसमीपजा: शिराजा: ॥१॥
अथ बलासग्रथितमाह ॥ कांस्याभोऽमृदुरथ वारिबिन्दुकल्पो विज्ञेयो नयनसिते बलाससंज्ञ: ॥१॥
इति शुक्लभागजा रोगा: ॥ अथ वर्त्मपक्ष्मजा: ॥ तत्रत्यानां रोगाणां नामानि सड्ख्यां चाह । उत्सड्गिन्यथ कुम्भीका पोथकीं वर्त्मशर्करा । तथार्शोवर्त्म शुष्कार्शस्तथैवाञ्जननामिका ॥१॥
बहलं वर्त्म यच्चापि तथोक्तो वर्त्मबन्धक: । क्लिष्टवर्त्म तथा वर्त्म कर्दम: श्याववर्त्म च ॥२॥
प्रक्लिन्नवर्त्म चाक्लिन्नवर्त्म वातहतं च तत्‍ । वर्त्मार्बुदं निमेषश्च शोणितार्शस्तथैव च ॥३॥
लगणो बिसवर्त्मापि कुञ्चनं नाम तत्परम्‍ । एकविंशतिरित्येते विकारा वर्त्मसंश्रया: ॥४॥
अथ तेषूत्सड्गपिटिकामाह ॥ अभ्यन्तरमुखी ताम्रा बाह्यतो वर्त्मनश्च या । सोत्सड्गोत्सड्गपिटिका सर्वजा स्थूलकण्डुरा ॥१॥
अथ कुम्भीकामाह ॥ वर्त्मान्त: पिटिका ध्याता भिद्यन्ते च स्त्रवन्ति च । कुम्भीकाबीजसदृशा: कुम्भीका: सन्निपातजा: ॥१॥
अथ पोथकीमाह ॥ स्त्राविण्य: कण्डुरा गुर्व्यो रक्तसर्षपसन्निभा: । रुजावत्यश्च पिटिका: पोथक्य इति संज्ञिता: ॥१॥
अथ वर्त्मशर्करामाह ॥ पिटिकाभि: सुसूक्ष्माभिर्घनाभिरतिसंवृता । पिटिका या खरा स्थूला वर्त्मस्था वर्त्मशर्करा ॥१॥
अथार्शोवर्त्माह ॥ एर्वारुबीजप्रतिमा: पिटिका मन्दवेदना: ॥ तथा च निमि: ॥ नीरुजा कठिना वर्त्मपक्ष्मान्ते बाह्यगापि वा ॥१॥
पिटिका: सन्निपातेन तदर्शोवर्त्म कीर्तयेत्‍ । श्लक्ष्णा: स्वराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते ॥१॥
अथ शुष्कार्श आह ॥ दीर्घाड्कुर: स्वर: स्तब्धो दारुणोऽभ्यन्तरोद्भव: । व्याधिरेषोऽभिविख्यात: शुष्कार्शो नाम नामत: ॥१॥
अथाञ्जननामिकामाह ॥ दाहतोदवती ताम्रा पिटिका वर्त्मसम्भवा । मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साञ्जननामिका ॥१॥
अथ बहलवर्त्माह ॥ वर्त्मोपचीयते यस्य पिटिकाभि: समन्तत: । सवर्णाभि: स्थिरामिश्च विद्याब्दहलवर्त्म तत्‍ ॥१॥
अथ वर्त्मबन्धकमाह ॥ कण्डुरेणाल्पतोदेन वर्त्मशोफेन मानव: । असमं छादयेदक्षि यत्रासौ वर्त्मबन्धक: ॥१॥
अथ क्लिष्टवर्त्माह ॥ मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च । अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्मेति तद्विदु: ॥१॥
तया निमि: ॥ श्लेष्मा दुष्टेन रक्तेन किल्ष्टमांसगत: समम्‍ । बन्धुजीवनिभं वर्त्म क्लिष्टमांसं तदुच्यते ॥१॥
अथ वर्त्मकर्दाममाह ॥ क्लिष्टं पुन: पित्तयुतं शोणितं विदहेद्यदा । तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमम्‍ ॥१॥
अथ श्याववर्त्माह ॥ वर्त्म यब्दाह्यतोऽन्तश्च श्यावं शूनं च जायते । तदाहु: श्याववर्त्मेति वर्त्मरोगविशारदा: ॥१॥
तथा च निमि: । दुष्टं श्लेष्मानिलात्‍ पित्तं वर्त्मनोश्चीयतेयदा । अग्निदग्धनिभं श्यावं श्याववर्त्मेति तद्विदु: ॥१॥
अथ प्रक्लिन्नवर्त्माह । अरुजं बाह्यत: शूनं वर्त्म यस्य नरस्य च । प्रक्लिन्नवर्त्म तद्विद्याक्लिन्नमत्यर्थमन्तत: ॥१॥
अथाक्लिन्नवर्त्माह ॥ यस्य धौतान्यधौतानि सम्बध्यन्ते पुन: पुन: । वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत्‍ ॥१॥
अथ वातहतवर्त्माह ॥ विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य निमील्यते । तद्वातनिहतं वर्त्म जानीयादक्षिचिन्तक: ॥१॥
अथ वर्त्मार्बुदमाह ॥ वर्त्मान्तरस्थं विशमं ग्रन्थिभूतमवेदनम्‍ । आचक्षतेऽर्बुदमिति सरक्तमविलम्बितम्‍ ॥१॥
अथ निमेषमाह ॥ निमेषणी: शिरा वायु: प्रविष्ट: सन्धिसंश्रय: । सञ्चालयति वर्त्मानि निमेष: स न सिध्यति ॥१॥
अथ शोणितार्शोलक्षणमाह ॥ वर्त्मस्थो यो विवर्धेत लोहितो मृदुरड्कुर: । तद्रक्तजं शोणितार्शश्छिन्नं वापि विवर्धते ॥१॥
तथाच विदेह: ॥ वायु: शोणितमादाय शिराणां प्रमुखस्थित: । जनयत्यड्कुरं ताम्रं वर्त्मनि च्छिन्नरोहिणम्‍ ॥ तच्छोणितार्शोऽसाध्यं स्याद्रक्तस्त्राव्यथ रक्तजम्‍ ॥२॥
अथ लगणमाह ॥ अपाकी कठिन: स्थूलो ग्रन्थिर्वर्त्मभवोऽरुज: । सकण्डू: पिच्छिल: कोलप्रमाणो लगण: स्मृत: ॥१॥
अथ बिसवर्त्माह ॥ त्रयो दोषा बहि: शोथं कुर्युश्छिद्राणि वर्त्मनाम्‍ । प्रसवन्त्यरुदकं बिसवब्दिसवर्त्म तत्‍ ॥१॥
अथ कुञ्चनमाह ॥ वाताद्या वर्त्मसड्कोचं जनयन्ति मला यदा । तदा द्रष्टुं न शक्नोति कुञ्चनं नाम तद्विदु: ॥१॥
इति वर्त्मरोगा: ॥ अथ पक्ष्मरोगो ॥ तत्रत्ययोरोगयोनीमनी आह ॥ पक्ष्मकोप: पक्ष्मशातो रोगौ द्वौ पक्ष्मसंश्रयौ ॥१॥
अथ तत्र पक्ष्मकोपमाह ॥ प्रचालितानि वातेन पक्ष्माण्यक्षि विशन्ति हि । असिते सितमागे च मूलकोशात्पतन्त्यपि ॥१॥
घृष्यन्त्यक्षि मुहुस्तानि संरम्भं जनयन्ति च । पक्ष्मकोप: स विज्ञेयो व्याधि: परमदारुण: ॥२॥
अथ पक्ष्मशातमाह ॥ वर्त्मपक्ष्माशयगतं पित्तं रोमाणि शातयेत्‍ । कण्डूं दाहं च कुरुते पक्ष्मशातं तमादिशेत्‍ ॥१॥
इति पक्ष्मरोगौ । इति वर्त्मपक्ष्मजा: ॥ अथ सन्धिरोगा: ॥ तत्र सन्धय़: षट्‍ तानाह ॥ पक्ष्मवर्त्मगत: सन्धिर्वर्त्मशुक्लगतोऽपर: । शुक्लकृष्णगतस्त्वन्य: कृष्णदृष्टिगतोऽपि च । तत: कनीनिकगत: षष्ठश्चाप्पाड्गसंश्रित: ॥१॥
तत्रत्यानां रोगाणां नामानि संख्यां चाह ॥ पूयालस: सोपनाह: स्त्रावाश्चत्वार एव च । पर्वणी कालजी जन्तुग्रन्थि: सन्धौ नवामया: ॥१॥
अथ तेषु पूयालसमाह ॥ पक्व: शोथ: सन्धिजो य: सतोदो स्त्रवेत्पूयं पूतिपूयालसाख्य ॥१॥
अथोपनाहमाह ॥ ग्रन्थिर्नाल्यो दृष्टिसन्धावपाकी कण्डूमायो नीरुजश्चोपनाह: ॥१॥
अथ स्त्रावाणां सम्प्राप्तिमाह ॥ गत्वा सन्धीनश्रुमार्गेण दोषा: कुर्यु: स्त्रावांल्लक्षणै: स्वैरुपेतान्‍ । तं हि स्त्रावं नेत्रनाडीति चैके तस्या लिड्गं कीर्तयिष्ये चतुर्धा ॥१॥
अथ पैत्तिकं स्त्रावमाह ॥ हरिद्राभं पीतमुष्णं जलं वा पित्तस्त्राव: संस्त्रवेत्‍ सन्धिमध्यात्‍ ॥१॥
अथ श्लेष्मस्त्रावमाह ॥ श्वेतं सान्द्रं पिच्छिलं य: स्त्रवेत्तु श्लेष्मस्त्रावोऽसौ विकार: प्रदिष्ट: ॥१॥
अथ सन्निपातस्त्रावमाह ॥ शोथ: सन्धौ संस्त्रवेद्यस्तु पक्व: पूयं स्त्राव: सर्वज: संमत: स: ॥१॥
अथ रक्तस्त्रावमाह ॥ रक्तस्त्रावमाह ॥ रक्तस्त्राव: शोणिताद्यो विकारो गच्छेद्दुष्टं तत्र रक्तं प्रभूतम्‍ ॥१॥
अथ पर्वणीकालज्यावाह ॥ ताम्रा तन्वी दाहपाकोपपन्ना रक्ता ज्ञेया पर्वणी वृत्तशोफा । जाता सन्धौ कृष्णशुक्ले‍ऽलजी स्यात्तस्मिन्नेव व्याहृता पूर्वलिड्गै: ॥१॥
अथ जन्तुग्रन्थिमाह ॥ जन्तुग्रन्थिर्वर्त्मन: पक्ष्मणश्च कण्डूं कुर्युर्जन्तव: सन्निजाता: । नानारुपा वर्त्मशुक्लान्तसन्धौ चरन्त्यर्लोचनं दूषयान्त: ॥१॥
इति सन्धिजा रोगा: ॥ अथ समस्तनेत्रजा रोगा: । तेषां नामानि संख्यां चाह ॥ स्यन्दाश्चतुष्का इह सम्प्रदिष्टाश्चत्वार एवेह तथाधिमन्था: । पाक: सशोथ: स च शोथहीनो हताधिमन्थोऽनिलपर्ययश्च ॥१॥
शुष्काक्षिपाकस्त्विह कीर्तितश्च तथान्यतो वात उदीरितश्च । दृष्टिस्तथाम्लाध्युषिता शिराणामुत्पातहर्षौ च समस्तनेत्रे ॥२॥
एवं समस्तनेत्रे स्युरामया दश सप्त च । तेषामिह पृथग्‍ वक्ष्ये यथावल्लक्षणान्यपि ॥३॥
तथाभिष्यन्दाश्चत्वार इत्याह ॥ वातात्पित्तात्कफाद्रक्तादभिष्यन्दश्चतुर्विध: । प्रायेण जायते घोर: सर्वनेत्रामयाकर: ॥१॥
तेषु वातिकमभिष्यन्दमाह ॥ निस्तोदनस्तम्भनरोमहर्षसड्घर्षपारुष्यशिरोऽभितापा: । विशुष्कभाव: शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ॥१॥
अथ पैत्तिकमभिष्यन्दमाह ॥ दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुद्भवश्च । उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ॥१॥
अथ श्लैष्मिकमभिष्यन्दमाह ॥ उष्णाभिनन्दा गुरुताक्षिशोथ: कण्डूपदेहावतिशीतता च । स्त्रावो मुहु: पिच्छिल एव चापि कफाभिपन्ने ननये भवन्ति ॥१॥
अथ रक्तजमभिष्यन्दमाह ॥ ताम्राश्रुता लोहितनेत्रता च राज्य: समन्तादतिलोहिताश्च । पित्तस्य लिड्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ॥१॥
========================================
========================================
अथ रक्तजमभिष्यन्दमाह ॥
ताम्राश्रुता लोहितनेत्रता च राज्य: समन्तादतिलोहिताश्च । पित्तस्य लिड्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ॥१॥
अथाधिमन्थानामभिष्यन्दजन्यत्वमाह ॥ वृद्धेरेतैरभिष्यन्दैर्नराणामक्रियावताम्‍ । तावन्तस्त्वधिमन्थास्युर्नयने तीव्रवेदना: ॥१॥
अथाधिमन्थानां सामान्यं लक्षणम्‍ ॥ उत्पाट्यत इवात्यर्थं तथा निर्मथ्यतेऽपि च । शिरसोऽर्धं तु तं विद्यादधिमन्थं स्वलक्षणै: ॥१॥
स चाधिमन्थो यदात्मको यावता कालेन मिथ्याचारात्‍ दृष्टिं हन्ति तदाह ॥ हन्याद्‍दृष्टिं श्लैष्मिक: सप्तरात्राव्द्याधिर्घोरो रक्तज: पञ्चरात्रात्‍ । षट्‍रात्राद्वा वातिको वै निहन्यान्मिथ्याचारात्पैत्तिक: सद्य एव ॥१॥
अथ सशोथं पाकमाह ॥ कण्डूपदेहाश्रुयुत: पक्कोदुम्बरसन्निभ: । संरम्भी पच्यते यस्तु नेत्रपाक: सशोथक: ॥१॥
अथाशोथपाकमाह ॥ शोथहीनानि लिड्गानि नेत्रपाके त्वशोथके ॥१॥
अथ हताधिमन्थमाह ॥ उपेक्षनादक्षि यदाधिमन्थो वाताधिक: शोषयति प्रसह्य । रुजाभिरुग्राभिरसाध्य एष हतोऽधिमन्थ: खलु नाम रोग: ॥१॥
अथ वातपर्ययमाह ॥ वारं वारं च पर्येति श्रुवौ नेत्रे च मारुत: । रुजाभि: सह तीव्राभि: स ज्ञेयो वातपर्यय: ॥१॥
अथ शुष्काक्षिपाकमाह ॥ यत्कूणितं दारुणरुक्षवर्त्म सन्दह्यते चाविलदर्शनं यत्‍ सुदारुणं यत्प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि ॥१॥
अथान्यतोवातमाह ॥ यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाप्यनिलोऽन्यतो वा । कुर्याद्रुजं वै भ्रुवि लोचने च तमन्यतोवातमुदाहरन्ति ॥१॥
विदेहेनाप्युक्तम्‍ । मन्यानामन्तरे वायुरुत्थित: पृष्ठतोऽपि वा । करोति भेदं निस्तोदं शड्खे चाक्ष्णोर्भ्रुवोस्तथा ॥ तमाहुरन्यतोवातं रोगं दृष्टिविदो जना: ॥२॥
अथाम्लाध्युषितमाह ॥ श्यावलोहितपर्यन्तं सर्वमक्षि प्रपच्यते । सदाहशोथं सस्त्रावमम्लाध्युषितमम्लत: ॥१॥
अथ शिरोत्पातमाह ॥ अवेदना वापि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्रा: । मुहुर्विरज्यन्ति च यस्य तादृग्व्याधि: शिरोत्पात इति प्रदिष्ट: ॥१॥
अथ शिराप्रहर्षमाह ॥ मोहाच्छिरोत्पात उपेक्षितस्तु जायेत रोग: स शिराप्रहर्ष: । ताम्रास्त्रमच्छं स्त्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुं च ॥१॥
अथ नेत्रस्य सामतालक्षणमाह ॥ उदीर्णवेदनं नेत्रं रागशोफसमन्वितम्‍ । घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदु: ॥१॥
अथ नेत्रस्य निरामतालक्षणमाह ॥ मन्दवेदनता कण्डु: संरभाश्रुप्रशान्तता । प्रसन्नवर्णता चाक्ष्णोर्निरामस्य च लक्षणम्‍ ॥१॥
इति नेत्रजा रोगा: ॥
====
॥ अथ नेत्ररोगाणां चिकित्सा ॥
तथा च तन्त्रान्तरे ॥ सेको दिनानि चत्वारि लड्घनं भोजने रस: । स्वादुस्तिक्तश्च लेपश्च बाष्प: स्वेदनमेव च ॥१॥
एतानि नेत्ररोगाणां सामानां पाचनानि हि । अञ्जनं सर्पिष: पानं कषायं गुरुभोजनम्‍ ॥ नेत्ररोगेषु सामेषु स्नानं च स्नानं च परिवर्जयेत्‍ ॥२॥
अक्षिकुक्षिभवा रोगा: प्रतिश्यायव्रनज्वरा: । पञ्चैते पञ्चरात्रेण रोगा नश्यन्ति लड्घनात्‍ ॥३॥
षट्‍सप्ततिर्लोचनजा विकारास्तेषामभिष्यन्दसमुद्भवानाम्‍ । श्लेष्माश्रयत्वादिह लड्घनं प्राक्‍ प्रशस्यते मुद्गसौदनं च ॥४॥
अञ्जनं पूरणं क्वाथपानमामे न शस्यते । आचतुर्थाद्दिनादाममभिष्यन्देऽपि लोचनम्‍ ॥५॥
गण्डूषाञ्जननस्यादिहीनानां कफकोपत: । षट्‍सप्ततिर्नेत्ररोगा दु:सहा: स्युरुपेक्षिता: ॥६॥
सेक आश्चोतनं पिण्डी बिडालस्तर्पणं तथा । पुटपाकोऽञ्जनं चैभि: कल्पैर्नेत्रमुपाचरेत्‍ ॥७॥
अथ दृष्टिगतरोगचिकित्सामाह ॥ वर्जयेदुपसर्गोत्थां गम्भीरां ह्यस्वसंज्ञिताम्‍ । काचांस्तु यापयेत्सर्वान्नकुलान्ध्यं तथैव च ॥१॥
तिमिरं नेत्ररोगेषु कष्टं तद्यत्नतो हरेत्‍ । मूलं दृष्टिविनाशस्य तिमिरं समुदाहृतम्‍ ॥ ऋषिभिस्तूदितं तस्मात्तस्य कुर्याच्चिकित्सितम्‍ ॥२॥
अथ वातिकतिमिरचिकित्सामाह ॥ स्निग्धानि नस्याञ्जनशोधनानि पाका: पुटानामथ तर्पणं च । घृतस्य पानान्यथ बस्तिकर्म कुर्यादभीक्ष्णं तिमिरे‍ऽनिलोत्थे ॥१॥
दशमूलादिनां पक्वं घृतं दुग्धं चतुर्गुणम्‍ । त्रिफलाकल्कसंयुक्तं तिमिरे वातजे पिबेत्‍ ॥२॥
रास्त्राफलत्रयक्वाथे दशमूलरसे शृतम्‍ । कल्केन जीवनीयानां घृतं तिमिरनाशनम्‍ ॥३॥
वातिके तिमिरे पक्वं दशमूलीरसे घृतम्‍ । त्रिवृच्चूर्णसमायुक्तं विरेकार्थं प्रयोजयेत्‍ ॥४॥
त्रिफलादशमूलानां निर्यूहं दुग्धमिश्रितम्‍ । गन्धर्वतैलसंयुक्तं प्रयुञ्जीत विरेचनम्‍ ॥५॥
अथ पैत्तिकतिमिरचि० ॥ शीताञ्जनाश्चोतनतर्पणैश्च नस्यैर्विरेकेर्मृदुभिर्घृतैश्च । तिक्तप्रधानैस्तिमिरं निहन्यात्पित्तात्मकं शोणितमोक्षणैश्च ॥१॥
तिमिरे पित्तजे सर्पिर्जीवनीयवराशृतम्‍ । पाययित्वा शिरां विध्येत्सितैलाकुम्भसैन्धवै: ॥२॥
चूर्णैर्माक्षिकसंयुक्तै रेचनं कारयेन्नर: । बलाशतावरीवीरासिताशैलेयकै: पचेत्‍ ॥३॥
त्रिफलासहितं सर्पिस्तिमिरघ्नम्नुत्तमम्‍ । सारिवात्रिफलोशीरमुक्ताचन्दनपद्मकै: ॥ पिष्टं वर्तीकृतं हन्ति पित्तोत्थं तिमिरं नृणाम्‍ ॥४॥
अथ श्लैष्मिकतिमिरचिकित्सामाह ॥ तीक्ष्णानि नस्याञ्जनशोधनानि पाक: पुटानामपतर्पणं च । घृतानि वासात्रिफलापटोलसंज्ञानि क्रुयात्तिमिरे कफोत्थे ॥१॥
कफोद्भवे वराचव्यशृते क्वाथे शृतं हवि: । पाययित्वा शिरां विध्येद्रेचनं तिमिरे भिषक्‍ ॥२॥
यूथी पथ्या कषा शुण्ठी कुसुम्भस्याम्बुनिर्झर: । गोमूत्रक्वथिता शुण्ठी त्रिवृत्सिद्धा विरेचनम्‍ ॥३॥
नस्यां मरीचयष्ट्याह्वविडड्गामरदारुभि: । नेपालत्रिफलाशड्खकान्ताव्योषं च पेषितम्‍ ॥ वर्तीकृतं बलासोत्थमञ्जनं तिमिरापहम्‍ ॥४॥
अथ सान्निपातिकतिमिरचि० ॥ संसर्गे सन्निपाते च यथादोषोदयक्रियाम्‍ । धात्रीरसाञ्जने क्षौद्रं सर्पिर्भिस्तु रसक्रियाम्‍ ॥१॥
पित्तानिलाक्षिरोगघ्नी तैमिर्यपटलापहा । दद्यादुशीरनिर्यूहे चूर्णितं कणसैधवम्‍ ॥२॥
तच्छृतं सघृतं भूय: पिबेत्क्षौद्रे घने तत: । शीते चास्मिन्हितमिदं सर्वजे तिमिरे हितम्‍ ॥३॥
वातपित्तकफसन्निपातजां नेत्रयोर्बहुविधामपि व्यथाम्‍ । शीघ्रमेव जयति प्रयोजित: शिग्रुपल्लवरस: समाक्षिक: ॥४॥
अथ तिमिरे सामान्यचिकित्सा ॥ अथाञ्जनविधि: ॥ अथ संपक्वदोषस्य प्राप्तमञ्जनमाचरेत्‍ । अञ्जनं क्रियते येन तद्दृव्यं चाञ्जनं  मतम्‍ ॥१॥
तद्यथा ॥ गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि तु । क्रुर्याच्छलाकयाड्गुल्या हीनानि च यथोत्तरम्‍ ॥२॥
स्नेहनं रोपणं चापि लेखनं तत्रिधा पृथक्‍ । मधुरं स्नेहसंपन्नमञ्जनं स्नेहनं मतम्‍ ॥३॥
कषायतिक्तरसयुक्‍ स्नेहनं रोपणं स्मृतम्‍ । अञ्जनं क्षारतीक्ष्णाम्लरसैर्लेखनमुच्यते ॥४॥
हरिणुमात्रां कुर्वीत वर्तिं तीक्ष्णाञ्जने भिषक्‍ । प्रमाणं मध्यमे सार्धं द्विगुणं तु मृदौ भवेत्‍ ॥५॥
रसक्रिया तूत्तमा स्यात्रिविडड्गमिता हिता । मध्यमा द्विविड्ड्गा सा हीना त्वेकविडड्का ॥६॥
शलाका: स्नेहने चूर्णे चतस्त्र: प्राहुरञ्जने । रोपणे तास्तु तिस्त्र: स्युस्ते उभे लेखने स्मृते ॥७॥
मुखयो: कुञ्चिता श्लक्ष्णा शलाकाष्टाड्गुलोन्मिता । अश्मजा धातुजा वा स्यात्कलायपरिमण्डला ॥८॥
सुवर्णरजतोद्भूता शलाका स्नेहने स्मृता । ताम्रलोहाश्मसञ्जाता शलाका लेखने मता ॥ अड्गुलिस्तु मृदुत्वेन रोपणे कथिता बुधै: ॥
अञ्जने केवलमपि शलाकाविशेषमाह ॥ त्रिफलाभृड्गशुण्ठीनां रसैस्तद्वच्च सर्पिषा । गोमूत्रमध्वजाक्षीरै: सिक्तो नाग: प्रतापित: ॥१॥
तच्छलाका हरत्येव सकलान्नयनामयान्‍ । कृष्णाभागादध: कुर्यादपाड्गं यावदञ्जनम्‍ ॥२॥
प्रथमं सव्यमञ्जीयात्पश्चाद्दक्षिणमञ्जयेत्‍ । शलाकया साञ्जनया न च तन्नयनं स्पृशेत्‍ ॥३॥
हेमन्ते शिशिरे वापि मध्याह्नेऽञ्जनमिष्यते । पूर्वाह्णे वापराह्णे वा ग्रीष्मे शरदि चेष्यते ॥४॥
वर्षास्वनभ्रेणात्युष्णे वसन्ते च सदैव हि । प्रात:सायं च तत्कुर्यान्न च कुर्यात्सदैव हि ॥५॥
श्रान्ते प्ररुदिते भीते पीतमद्ये नवज्वरे । अजीर्णे वेगघाते च नाञ्जनं संप्रशस्यते ॥६॥
सौवीरमञ्जनं नित्यं हितमक्ष्णो: प्रयोजयेत्‍ । पञ्जरात्रेऽष्टरात्रे वा स्त्रावणार्थं रसाञ्जनम्‍ ॥७॥
अथ मुक्तादिमहाञ्जनं भावप्रकाशात्‍ ॥ मुक्ताकर्पूरकाचागुरुमरिचकणासैन्धवं सैलवालंशुण्ठीकक्कोलकांस्यत्रपुरजनिशिलाशड्खनाभ्यभ्रमतुत्थम्‍ । दक्षाण्डत्वक्‍ च साक्षक्षतजयतुशिवाक्लीतकं राजवर्तं जातीपुष्पं तुलस्या: कुसुममभिनवं बीजमस्यास्तथैव ॥१॥
पूतीकनिम्बाञ्जनभद्रमुस्तं सुताम्रसारं रसगर्भयुक्तम्‍ । प्रत्येकमेषां खलु माषकैकं पलेन पिष्यान्मधुनातिसूक्ष्मम्‍ ॥२॥
भवन्ति रोगा नयनाश्रिता ये नितान्तमत्रोपचिताश्च तेषाम्‍ । विधीयते शान्तिरवश्यमेव मुक्तादिनानेव महाञ्जनेन ॥३॥
अथ नयनशाणनामाञ्जनम्‍ ॥ कणा सलवणोषणा सह रसाञ्जना साञ्जना सरित्पतिकफ: शिफासितपुनर्नवासम्भवा । रजन्यरूणचन्दनं मधुकतुत्थपथ्या शिला अरिष्टदलशाबरस्फटिकशड्खनाभीन्दव: ॥१॥
इमानि तु विचूर्णयेन्निबिडवाससा शोधयेत्ततोऽयसि विमर्दयेत्समधुताम्रखण्डेन तत्‍ । इदम्मुनिभिरीरितं नयनशाणनामाञ्जनं करोति तिमिरक्षयं पटलपुष्पनाशं बलात्‍ ॥२॥
अथ चन्द्रोदयवटी ॥ शड्खनाभिर्बिभीतस्य मज्जा पथ्या मन:शिला । पिप्पली मरिचं कुष्ठं वचा चेति समांशकम्‍ ॥१॥
छागक्षीरेण सम्पिष्य वटीं कुर्याद्यवोन्मिताम्‍ । हरेणुमात्रां सड्घृष्य जलेनाञ्जनमाचरेत्‍ ॥२॥
तिमिरं मांसवृद्धिं च काचं पटलमर्बुदम्‍ । रात्र्यन्धं वार्षिकं पुष्पं वटी चन्द्रोदया हरेत्‍ ॥३॥
अथ चन्द्रप्रभावर्ति: ॥ रजनी निम्बपत्राणि पिप्पली मरिचानि च । विडड्गं भद्रमुस्तं च सप्तमी त्वभया स्मृता ॥१॥
अजामूत्रेण संपिष्य च्छायायां शोषयेद्वटी । वारिणा तिमिरं हन्ति गोमूत्रेण तु पिष्टिकाम्‍ ॥२॥
मधुना पटलं हन्ति नारीक्षीरेण पुष्पकम्‍ । एषा चन्द्रप्रभावर्ति: स्वयं रुद्रेण निर्मिता ॥३॥
अथ शशिकलावर्ति: ॥ रसकजलजनाभि: पौरतुत्थं समांशं वसनगलितमेतन्निम्बुनीरेण पिष्टम्‍ । हरति शशिकलैतद्वर्तिरभ्यञ्जिताक्ष्णोस्तिमिरकुसुमकण्डूस्त्रावरागार्मपिल्लान्‍ ॥१॥
अथ लोचनशूलघ्नी पोटली ॥ कृतलाजसुराष्ट्रजाहिफेनं रुचिरं नागजगालवोत्थचूर्णम्‍ । सुकुमार्युदकेन शुल्बपात्रे मृदितं दृष्टिरुजं जयेत्पटस्थम्‍ ॥१॥
अथ चन्द्रोदयवर्ति: ॥ हरीतकी वचा कुष्ठं पिप्पली मरिचानि च । बिभीतकस्य मज्जा च शड्खनाभिर्मन:शिला ॥१॥
सर्वमेतत्‍ समं कृत्वा गव्यक्षीरेण पेषयेत्‍ । नाशयेत्तिमिरं कण्डूपटलान्यर्बुदानि च ॥२॥
वर्तिश्चन्द्रोदया नाम नृणां दृष्टिविशोधनी ॥३॥
अथ नयनामृतम्‍ ॥ रसेन्द्रभुजगौ तुल्यौ तयोर्द्विगुणमञ्जनम्‍ । सूततुर्यांशकर्पूरमञ्जनं नयनामृतम्‍ ॥१॥
तिमिरं पटलं काचं शुक्रमर्मार्जुनानि च । क्रमात्पथ्याशिनो हन्ति तथान्यानपि दृग्गदान्‍ ॥२॥
अथ कुसुमिकावर्ति: रोपणी ॥ तिलपुष्पाण्यशीति: स्यु: षष्टि: पिप्पलितण्डुला: । जात्या: कुसुमपञ्चाशन्मरिचानि च षोडश ॥१॥
सूक्ष्मपिष्टा जलैर्वर्ति: कृता कुसुमिकाभिधा । तिमिरार्जुनशुक्राणां नाशनी मांसवृद्धिनुत्‍ ॥ एतस्याश्चाञ्जने मात्रा प्रोक्ता सार्धहरेणुका ॥२॥
अथ दार्व्याद्यञ्जनम्‍ ॥ दार्वीवरामधुकम्भसि नारिकेले पक्त्वाष्टभागपरिशिष्टरसं पुनस्तम्‍ । सान्द्रं विपाच्य शशिसैन्धवमाक्षिकाढ्यं युञ्ज्याद्‍ व्रणार्तितिमिरार्तिषु पित्तजेषु ॥१॥
अथ शड्खादिवटी ॥ शड्खस्य भागाश्चत्वारस्तदर्धेन मन:शिला । मन:शिलार्धं मरिचं मरिचार्धेन पिप्पली ॥१॥
सर्वमेकत्र संमर्द्य गुटिकां कारयेत्तत: । वारिणा तिमिरं हन्ति चार्बुदं हन्ति मस्तुना ॥ पिच्चटं मधुना हन्ति स्त्रीक्षीरेण तथार्जुनम्‍ ॥२॥
अथ पुनर्नवाद्यञ्जनम्‍ ॥ दुग्धेन कण्डुं क्षौद्रेण नेत्रस्त्रावं च सर्पिषा । पुष्पं तैलेन तिमिरं काञ्जिकेन निशान्धताम्‍ ॥ पुनर्नवा हरत्याशु भास्करस्तिमिरं यथा ॥१॥
अथ गुडूच्याद्यञ्जनम्‍ ॥ गुडूचीस्वरस: कर्ष: क्षौद्रं स्यान्माषकोन्मितम्‍ । सैन्धवं क्षौद्रतुल्यं स्यात्सर्वमेकत्र मर्दयेत्‍ ॥१॥
अञ्जनेन्नयनं तेन पिल्लार्भतिमिरं जयेत्‍ । काचं कण्डुं लिड्गनाशं शुक्लकृष्णगतान्‍ गदान्‍ ॥२॥
अथ कतकफलादि ॥ कतकस्य फलं घृष्ट्वा मधुना नेत्रमञ्जयेत्‍ । ईषत्कर्पूरसहितं तत्स्यान्नेत्रप्रसादनम्‍ ॥१॥
अन्यच्च ॥ कतकस्य फलं शड्खं सैन्धवं त्र्यूषूणं सिता । फेनो रसाञ्जनं क्षौद्रं विडड्गानि मन:शिला ॥ सर्वमेतत्समं कृत्वा नारीक्षीरेण पेषयेत्‍ ॥१॥
तिमिरं पटलं काचमर्मशुक्रं व्यपोहति । कण्डूक्लेदार्बुदान्‍ हन्ति मूलं वा सुसुखावती ॥२॥
इति शार्ड्गधर: ॥ अथ पिप्पल्याद्यञ्जनम्‍ ॥ पिप्पलीत्रिफलालाक्षालोध्रकं च ससैन्धवम्‍ । भृड्गराजरसेघृष्टं गुटिकाञ्जनमिष्यते ॥१॥
अर्मं सतिमिरं काचं कण्डूं शुक्रं तथार्जुनम्‍ । अञ्जनं नेत्रजान्‍ रोगान्निहन्त्येव न संशय: ॥२॥
अथ गुञ्जामूलाद्यञ्जनम्‍ ॥ गुञ्जामूलं बस्तमूत्रेण पिष्टं निघृष्ठा वा वारिणा भद्रमुस्ता ॥ आन्ध्यं सद्यस्तैमिरं हन्ति पुंसामत्युद्राढं नेत्रयोरञ्जनेन ॥१॥
अथ तुलस्यादि ॥ तुलस्या बिल्वपत्रस्य रसो ग्राह्य: समांशक: । ताभ्यां तुल्यं पयो नार्यास्त्रितयं कांस्यपात्रके ॥१॥
गजवल्यां दृढं मर्द्यं ताम्रेण प्रहरं पुन: । कञ्जलत्वं समुत्पाद्य तेनाञ्जितविलोचन: ॥ सद्यो नेत्ररुजं हन्ति सशूलां पाकसम्भवाम्‍ ॥२॥
अथ क्वाथा: ॥ वासा घनं निम्बपटोलपत्रतिक्तामृताचन्दनवत्सकत्वक्‍ । कलिड्गदार्वीदहनं सनागरं भूनिम्बधात्री हृभया बिभितकम्‍ ॥१॥
यवांश्च निष्क्वाथमथाष्टमांशं पिबेदिमं पूर्वदिने कषायम्‍ । तैमिर्यकण्डूपटलार्बुदं च शुक्रं तथा सव्रणमव्रणं च ॥ दाहं सरागं सरुजं सपिल्लं हन्यात्समस्तानपि नेत्ररोगान्‍ ॥२॥
इति महावासादिक्वाथ: ॥ अथ त्रिफलाक्वाथ: ॥ अय:स्थं त्रिफलाक्वाथं सर्पिषा सह योजितम्‍ । भुक्तोपरि पिबेत्‍ सायं मासेनान्धोऽपि पश्यति ॥१॥
अथचित्रकादिक्वाथ: ॥ चित्रकमूलत्रिफलापटोलयवसाधितं पिबेदम्भ: । सघृतं निशि चक्षुष्यं तिमिरं च विशेषतो हन्ति ॥१॥
अथ चूर्णानि ॥ तत्रादौ त्रिफलाचूर्णम्‍ ॥ त्रिफलात्वचमायसं च चूर्णं समयष्टीमधुकं त्रिसप्तरात्रम्‍ । मधुना सह सर्पिषा दिनान्ते पुरुषो निष्परिहारमाददीत ॥१॥
तिमिरार्बुदरक्तराजिकण्डूक्षणदान्ध्यामयदाहशूलतोदान्‍ । पटलं च सशुक्लकाचपिल्लं शमयत्येव निषेवित: प्रयोग: ॥२॥
न च केवलमेव लोचनानां विहितो रोगनिबर्हणाय योग: । दशनश्रवणोर्ध्वजत्रुजानांप्रशमे हेतुरयं महामयानाम्‍ ॥३॥
गुदजानि भगन्दरप्रमेहान्‍ सहकुष्ठानि हलीमकं किलासम‍ । पलितानि विनाशयेत्तथाग्निं चिरनष्टं कुरुते रविप्रचण्डम्‍ ॥४॥
प्रमदाभिरयं जराधिरुढ: स्फुटचन्द्राभरणासु यामिनीषु । सुरतानि पदे पदे निषेवेत्पुरुषो योगमिमं निषेवमाण: ॥ स्मृतिविक्रमबुद्धिशक्तियुक्त: शरदां जीवति वैशतं समग्रम्‍ ॥५॥
मुखेन नीलोत्पलचारुगन्धिना शिरोरुहैरञ्जनमेचकप्रभै: । भवेत्तु गृध्रस्य समानलोचनश्चिरं नरो वर्षशतं तु जीवति ॥६॥
इति सप्तामृतो लोह: ॥ मधुकत्रिफलाचूर्णं लोहचूर्णं समं लिहेत्‍ । मधुसर्पियुतं सम्यग्गव्यक्षीरं पिबेदनु ॥१॥
छर्दिं सतिमिरां शूलमम्लपित्तं ज्वरं क्लमम्‍ । आनाहंमूत्रसंगं च शोथं चैव निहन्ति हि ॥२॥
अथ शतावर्यादिचूर्णम्‍ ॥ शतावरी सूर्यसमा प्रदेया एला तथा रावणमूर्धतुल्या । देयं विड्ड्गं वसुभि: समानमृतो: समं चामलकास्थिबीजम्‍ ॥१॥
विष्णोर्भुजैस्तुल्यगुणं मरीचं तद्विक्रमैर्मागधिका प्रदेया । चूर्णं समध्वाञ्जनमर्धकर्षमक्ष्यामयानां विनिवारणार्थम्‍ ॥२॥
कण्डूं सधूमं तिमिरं स घोरमर्माणि काचं पटलं त्रिदोषजम्‍ । ये चापरे रक्तभवा विकारास्तेषामयं चूर्णवरो निहन्ता ॥३॥
अथ द्वितीयं त्रिफलादिचूर्णं वड्गसेनात्‍ ॥ लिह्यात्सदा वा त्रिफलां सुचूर्णितां घृतप्रगाढां तिमिरेऽथ पित्तजे । समीरणे तैलयुक्तां कफात्मके मधुप्रगाढां विदधीत युक्तित: ॥१॥
अथ घृतानि ॥ बिभीतकशिवाधात्रीपटोलरिष्टवासकै: । पक्वमेभिर्घृतं सर्वानक्षिरोगन्व्यपोहति ॥१॥
त्रिफलाया रसप्रस्थं भृड्गरसस्य च । वृषस्य च रसप्रस्थं शतावर्याश्च तत्समम्‍ ॥२॥
अजाक्षीरं गुडूच्याश्च आमलक्या रसं तथा । प्रस्थं प्रस्थं समाहृत्य सर्वैरेभिर्घृतं पचेत्‍ ॥३॥
कल्क: कणासिताद्राक्षात्रिफला नीलमुत्पलम्‍ । मधुकं क्षीरककोली मधुपर्णी निदिग्धिका ॥४॥
तत्साधु विज्ञाय शुभे भाण्डे निधापयेत्‍ । ऊर्ध्वपानमध:पानं मध्ये पानं च शस्यते ॥५॥
यावतो नेत्रजान्‍ रोगान्पानादेवापर्षति । सरक्ते रक्तदुष्टे च रक्ते वा विस्त्रुते तथा ॥६॥
नक्तान्ध्ये तिमिरे काचे निलिकापटलार्बुदे । अभिष्यन्देऽधिमन्थे च पक्ष्मकोपे सुदारुणे ॥७॥
नेत्ररोगेषु सर्वेषु दोषत्रयकृतेष्वपि । परं हितमिदं प्रोक्तं त्रिफलाद्यं महाघृतम्‍ ॥८॥
अथ द्वितीयं त्रिफलाद्यं घृतम्‍ ॥ शतमेकं हरीतक्या द्विगुणं च बिभीतकम्‍ । चतुर्गुणं त्वामलकं वृषमार्कवयो: समम्‍ ॥१॥
चतुर्गुणोदकं दत्वा शनैर्मृद्वग्निना पचेत्‍ । भागं चतुर्थं स्त्रंरक्ष्य क्वाथं तमवतारयेत्‍ ॥२॥
शर्करा मधुकं द्राक्षा मधुयष्टी निदिग्धिका । काकोली क्षीरकाकोली त्रिफला नागकेशरम्‍ ॥३॥
पिप्पली चन्दनं मुस्तं त्रायमाणा तथोत्पलम्‍ । घृतप्रस्थं समं क्षीरं कल्कैरेतै: शनै: पचेत्‍ ॥४॥
हन्यात्सतिमिरं काचं नक्तान्ध्यं शुक्रमेव च । तथा स्त्रावं च कण्डूं च श्वयथुं च कषायताम्‍ ॥५॥
कलुषत्वं च नेत्रस्य विड्‍वर्त्मपटलान्वितम्‍ । बहुनात्र किमुक्तेन सर्वान्नेमात्रमयान्हरेत्‍ ॥६॥
यस्य चोपहता दृष्टि: सूर्याग्निभ्यां प्रपश्यत: । तस्मै तद्भेषजं प्रोक्तं मुनिभि: परमं हितम्‍ ॥७॥
मार्जितं दर्पणं यद्वत्परां निर्मलतां व्रजेत्‍ । तद्वदेतेन पीतेन नेत्रं निर्मलतामियात्‍ ॥ वारिद्रोणद्वयं चात्र वृषमार्कवयोस्तले ॥८॥
अथ लघुत्रिफलाघृतम्‍ ॥ त्रिफलाक्वाथकल्काभ्यां सपयस्कं घृतं शृतम्‍ । तिमिराण्यविराद्धन्यात्पीतमेतन्निशामुखे ॥१॥
इति घृतानि ॥ अथ भृड्गराजतैलम्‍ ॥ भृड्गप्रस्थं तैलात्कुडवं तथा पलं च मधुकस्य । क्षीरप्रस्थविपक्वं गतमपि चक्षुर्निवर्तयेत्‍ ॥१॥
अथ धावनम्‍ ॥ स्नानं कृष्णतिलैश्चापि चक्षुष्यमनिलापहम्‍ । मधुकामलकस्नानं पित्तघ्नं तिमिरापहम्‍ ॥१॥
वचाद्यै: स्नानमिच्छन्ति श्लेष्मघ्नं तिमिरापहम्‍ । आमलै: सततं स्त्र्नानं परं दृष्टिबलावहम्‍ ॥२॥
त्रिफलाया: कषायस्तु धावनान्नेत्ररोगजित्‍ । कवलान्मुखरोगघ्न: पानत: कामलापह: ॥३॥
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते । अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥४॥
इति तिमिराचि० ॥ अथ काचोपक्रम: ॥ काचे रक्तं जलौकाभिर्ह्रत्वा पूर्वोक्तमाचरेत्‍ । शाणार्धं मरिचं द्वौ च पिप्पल्यार्णवफेनयो: ॥१॥
शाणार्धं सैन्धवाच्छाणं नवसौवीरकाञ्जनात्‍ । पिष्टं सूक्ष्मशिलायां च चूर्णाञ्जनमिदं शुभम्‍ ॥२॥
कण्डूकाचकफार्तानां मलानां च विशोधनम्‍ ॥३॥
इति शार्ड्गधरात्‍ ॥ समेषशृड्गाञ्जनभागसम्मित: शड्खाञ्जनात्काचमलं व्यपोहति ॥१॥
शिलासैन्धवकासीसशड्खव्योषरसाञ्जनै: । सक्षौद्रै: काचशुक्रार्मतिमिरघ्नी रसक्रिया ॥२॥
इति काचोपक्रम: ॥
=================================
====================================
अथ पित्तविदग्धदृष्टेश्चिकित्सा ॥
रसाञ्जनं घृतक्षौद्रतालीस्वर्णगैरिकै: । गोशकृद्रससंयुक्त पित्तोपहतदृष्टये ॥१॥
काश्मरीपुष्पमधुकदार्वीलोध्ररसाञ्जनै: । सक्षौद्रमञ्जनं कुर्यात्पित्तव्याधिप्रशान्तये ॥२॥
अथ श्लेष्मविदग्धदृष्टेश्चिकित्सा ॥ हरेणुमगधाबीजमज्जानं यकृदन्वितम्‍ । शकृद्रसेनाञ्जनं वा श्लेष्मोपहतदृष्टये ॥१॥
अथ दिवान्धरात्र्यन्धयोश्चिकित्सामाह ॥ नलिनोत्पलकिञ्जल्कगैरिकं सयकृद्रसम्‍ । गुटिकाञ्जनमेतस्य दिनरात्र्यन्धर्योहितम्‍ ॥१॥
नदीजशड्खत्रिकटून्‍ रसाञ्जनं मन:शिला द्वे च निशे गवां शकृत्‍ । सचन्दनेयं गुटिकाशु कृत्वा प्रशस्यते रात्रिदिने न पश्यताम्‍ ॥२॥
सूर्यादिदर्शनैर्दग्धे तत्र शीतं प्रयोजयेत्‍ । हेमघृष्टं घृतोपेतमञ्जनं चोपशस्यते ॥३॥
अथ केवलरात्र्यन्धचिकित्सा ॥ रसाञ्जनं हरिद्रे द्वे मालती निम्बपल्लवा: । गोशकृद्रससंयुक्ता वटी नक्तान्ध्यनाशनी ॥१॥
एतस्याश्चाञ्जने मात्रा प्रोक्ता सार्धहरेणुका । कणा छागयकृन्मध्ये पक्वा तद्रसपेषिता ॥२॥
अचिराद्धन्ति नक्तान्ध्यं तद्वत्सक्षौद्रमूषणम्‍ । करञ्जपद्मकिञ्जल्कचन्दनोत्पलगैरिकै: ॥३॥
गोशकृद्रससंपिष्टैर्नक्तान्ध्ये हितमञ्जनम्‍ । रसाञ्जनं शिला दारु जातीपत्ररसो मधु ॥४॥
नक्तान्धतां जयेदेतदञ्जनं साधु योजितम्‍ । मालतीपत्रक्षौद्रं च निशाद्वयरसाञ्जनै: ॥५॥
नक्तान्ध्यमञ्जनं  हन्यात्कृष्णा वा गोमयान्विता । दग्धा घृष्टं मरीचं वा रात्र्यन्धाञ्जनमुत्तमम्‍ ॥६॥
इति दिवान्धरात्र्यन्धयोश्चिकित्सा ॥ अथ नकुलान्ध्यरोगस्य रागरहितस्य चिकित्सा ॥ वचा त्रिवृच्चन्दनकुण्डली च भूनिम्बौनिम्बरजनी सवासा । प्रस्थं जलस्य क्वथिताष्टभागं पिबेत्सुजीर्णे नकुलान्ध्यरोगे ॥१॥
इति वड्गसेनात्‍ ॥ इति दृष्टिगतरोगचिकित्सा । अथ कृष्णगतरोगचिकित्सा ॥ तत्रादौ सघ्रणशुक्रप्रतिकारमाह । व्रणशुक्रप्रशान्त्यर्थं षडड्गं गुग्गुलं पचेत्‍ । शिरसश्चाहरेद्रक्तं जलौकाभिश्च लोचनात्‍ ॥१॥
ससैन्धवं त्रिवृत्क्वाथे त्रीन्वारान्पाचयेद्‍ घृतम्‍ । पीत्वा सर्वेषु शीघ्रं कुर्याच्छिराव्यधम्‍ ॥२॥
अथ यष्ट्याह्वाश्चोतनम्‍ ॥ यष्ट्याह्वदार्व्युत्पलपद्मलाक्षाप्रपौण्डरीकं नलदाम्बुना च । आश्चोतनं स्त्रीपयसा विपक्वं निहन्ति तत्सव्रणदाह शुक्रम्‍ ॥१॥
अथ लामज्जकाद्यञ्जनम्‍ ॥ लामज्जकोपत्पलसितासारिवाचन्दनद्वयै: । कार्षिकै: सारिवाप्रस्थं क्वाथयेत्सलिलाढके ॥१॥
पादशेषं परिस्त्राव्य पचेदादर्विलेपनात्‍ । भाजने लोहशैले वा प्रातस्तत्सायमञ्जनम्‍ ॥२॥
प्रधानमेतच्छुक्रघ्नं व्रणशुक्रं शमं नयेत्‍ । श्यामामूलकषायं वा मधुना व्रणशुक्रिणाम्‍ ॥३॥
अथ चन्दनादिवर्ति: ॥ चन्दनं गैरिकं लाक्षा मालती कलिकान्विता । व्रणशुक्रहरी वर्ति: शोणितस्य प्रसादनी ॥१॥
अथाव्रणशुक्रचिकित्सा ॥ अथाश्चोतनम्‍ ॥ जात्या: प्रवालं मधुकं च सर्पिसृष्टं सुखोष्णाम्बुसुशीतलं च । आश्चोतनं शुक्रहरं प्रदिष्टं शुक्रापहं स्त्रीपयसा महार्मम्‍ ॥१॥
अथ धात्रीफलादिसेचनम्‍ ॥ धात्रीफलं निम्बकपित्थपत्रं यष्ट्याह्वलोध्रं खदिरं तिलाश्च । क्वाथ: सुशीतो नयनेऽभिषिक्त: सर्वप्रकारं विनिहन्ति शुक्रम्‍ ॥१॥
अथ वर्तय: ॥ पलाशपुष्पस्वरसैर्बहुश: परिभाविता । करञ्जबीजवर्तिस्तु दृष्टे: पुष्पं व्यपोहति ॥१॥
समुद्रफेनसिन्धूत्थशड्खदक्षाड्गवल्कलै: । शिग्रुबीजयुतैर्वर्ति: शुक्रादीञ् शस्त्रवल्लिखेत्‍ ॥२॥
अथ चन्द्रोदयवर्ति: ॥ रसाञ्जनं सशैलयं कुड्कुमं समन:शिलम्‍ । शड्खं सश्वेतमरिचं शर्करा चेति सप्तमम्‍ ॥१॥
एषां चन्द्रोदया नाम वर्तिर्वैदेहनिर्मिता । हन्यात्पिल्लं च कण्डुं च शुक्रावसतिमिरार्बुद्रम्‍ ॥२॥
अथाञ्जनम्‍ ॥ वटक्षीरेण संयुक्तं मुख्यं कर्पूरजं रज: । क्षिप्रमञ्जनतो हन्ति कुसुमं तु द्विमासिकम्‍ ॥१॥
सड्घृष्य पिप्पलीचूर्णं सफेनं कांस्यभाजने । सक्षौद्रं सैन्धवोपेतमञ्जनं शुक्रनाशनम्‍ ॥२॥
ताप्यं मधुकसारो वा बीजं चाक्षस्य सैन्धवम्‍ । मधुनाञ्जनयोगा: स्युश्चत्वार: शुक्रनाशना: ॥३॥
कुक्कुटाण्डकपालानि शड्ख: काचो‍थ चन्दनम्‍ । सैन्धवार्धांशसंयुक्तमञ्जनं शुक्रलेखनम्‍ ॥४॥
अथ लोहादिगुग्गुलु: ॥ अयश्च यष्टीत्रिफलाकणानां चूर्णानि तुल्यानि पुरेण नित्यम्‍ । सर्पिर्मधुभ्यां सह भक्षितानि सर्वाणि निहन्ति शीघ्रम्‍ ॥१॥
अथ पटोलाद्यं घृतम्‍ ॥ पटोलं कटुकादार्वीनिम्बवासाफलत्रिकम्‍ । दुरालभां पर्पटकं त्रायन्तीं च पलोन्मिताम्‍ ॥१॥
प्रस्थमामलकानां च क्वाथयेन्नल्वणेऽम्भसि । तेन पादावशेषेन घृतप्रस्थं विपाचयेत्‍ ॥२॥
कल्कैर्भूनिम्बुकुठजमुस्तयष्ट्याह्वचन्दनै: । सपिप्पलीकैस्तत्सिद्धं चक्षुष्यं शुक्रयोजितम्‍ ॥३॥
घ्राणकर्णाक्षिवर्त्मत्वड्गमुखरोगव्रणापहम्‍ । कामलाज्वरवीसर्पगण्डमालापहं परम्‍ ॥४॥
अथ कृष्णाद्यं तैलम्‍ ॥ कृष्णाविडड्गमधुयष्टिकसिन्धुजन्मविश्वौषधै: पयसि सिद्धमिदं छ्गल्या: । तैलं व्रणं तिमिरशुक्रशिरोक्षिवर्त्मपाकात्ययाञ्जयति नस्यविधौ प्रयुक्तम्‍ ॥१॥
अथाक्षिपाकात्ययचिकित्सामाह ॥ एर्वारु पुण्डरीकं च गवां क्षीरावशेषितम्‍ । रागाश्रुवेदनां हन्यादक्षिपाकात्ययं तथा ॥१॥
अथाजकाचिकित्सामाह ॥ मूर्धाक्षिकर्णभ्रूगशड्खचर्माश्रिजातका । जायते व्यथते नेत्रं मथ्यमानमिवान्तरा ॥१॥
उष्णमश्रु स्त्रवत्यक्षि दूषितं क्लिद्यते भृशम्‍ । असाध्यरोगसम्भूतां दृष्टिजां च विवर्जयेत्‍ ॥२॥
स्वयं प्रवृद्धां कठिनां चिरकालोत्थितामपि । साध्यरोगसमुत्पन्नां कृष्णजां त्वजकां जयेत्‍ ॥३॥
अजकायां शिरां मुक्त्वा त्रिवृच्चूर्णैर्विरेचयेत्‍ । घृतं वातहरै: सिद्धमजकायां प्रयोजयेत्‍ ॥ सेके पाने तथाभ्यड्गे भोज्ये दृष्टिविदां वर: ॥४॥
पक्ववटपत्रपुटके विधाय मासं धवलकर्कटकान्‍ । पुटवद्विदह्य बद्‍ध्वा तद्रससेको जयेदजकाम्‍ ॥५॥
गवामस्थित्वचं कांस्ये विनिर्घृष्य सुखाम्बुना । पूरयेदक्षि तेनाशु प्रशाम्यत्यजकामय: ॥६॥
अड्गारपक्वशम्बूकरसेनाश्चोतनाञ्जनम्‍ । कर्पूरचूर्णयुक्तेन शाम्यते त्वजकामय: ॥७॥
सैन्धवं वाजिपादं च गोरोचनसमायुतम्‍ । शेलुत्वग्रससंयुक्तं पूरणं चाजकापहम्‍ ॥८॥
अथ शशकादिघृतम्‍ ॥ शशकस्य कषाये तु घृतप्रस्थं विपाचयेत्‍ । कल्कं दद्यात्तु सक्षीरं यथोक्तान्कर्षसम्मितान्‍ ॥१॥
सारिवा मधुकं लाक्षा चन्दनं नीलमुत्पलम्‍ । बला चातिबला चैव मृणालं पत्रकं तथा ॥२॥
कार्षिकं सविषं लोध्रं जीवनीयगणान्वितम्‍ । घृतमेतत्प्रयोक्तव्यं पाने नस्ये च पूरणे ॥३॥
अजकामर्जुनं काचं पटलं शुक्रमेव च । तथाक्षिरोगान्सकलात्वातपित्तोत्तराञ्जयेत्‍ ॥४॥
इति कृष्णगतरोगचिकित्सा ॥ अथ शुक्लजा: ॥ प्रस्तार्यमानस्त्राय्वर्म तथैवार्माधिमांसकम्‍ । लोहितार्म सशृक्लार्म कृष्णप्राप्तानि वेदयेत्‍ ॥१॥
अर्मवाच्य दधिनिभं नीलं रक्तमथापि वा । धूसरं तनु यच्चाशु शुक्रवत्समुपाचरेत्‍ ॥२॥
अथ कृष्णादिपुटपाक: ॥ कृष्णादिपुटापाक: ॥ कृष्णालोहरजस्ताम्रशड्खैद्रुमसिन्धुजै: । समुद्रफेनकासीसस्त्रोतोऽञ्जदधिमस्तुभि: ॥ लेखने वा कृते तस्य परं धारणमिष्यते ॥१॥
अथ पिप्पल्यादिगुटिकाञ्जनम्‍ ॥ पिप्पलीत्रिफलालाक्षालोहचूर्णं ससैन्धवम्‍ । भृड्गराजरसे पिष्टं गुटिकाञ्जनमिष्यते ॥१॥
अर्भं सतिमिरं काचं कण्डुं शुक्रमथार्जुनम्‍ । अजकां नेत्ररोगांश्च हन्यान्निरवशेषित: ॥२॥
अथ मरिचादिलेप: ॥ संचूर्ण्य मरिचाक्षे च रजन्या रसमर्दिते । लेपनादर्मणां नाश करोत्येष प्रयोगराट्‍ ॥१॥
अथ पुष्पाक्षादिरसक्रिया ॥ पुष्पाक्षतार्क्ष्यजसितोदधिफेनशड्खसिन्धूत्थगैरिकशिलामरिचै: समांशै: । पिष्टैस्तु माक्षिकरसेन रसक्रियेयं हन्त्यर्मकाचतिमिरार्जुनवर्त्मरोगान्‍ ॥१॥
क्रिया शुक्लामये कार्या पित्ताभिष्यन्दजिच्छुभा । बलासाह्वयपिष्टे तु कार्यं शोणितमोक्षणम्‍ ॥२॥
कफादिष्यन्दजित्सर्वं क्रमं कुर्याद्विचक्षण: । अञ्जनं कट्‍फलव्योषबीजपूरसाञ्जनै: ॥३॥
अर्जुने शर्करामस्तुक्षौद्रैराश्चोतनं हितम्‍ । शड्ख: क्षौद्रेण संयुक्त: कतक: सैन्धवेन वा ॥ सितयार्णवफेनो वा पृथगञ्जनमर्जुने ॥४॥
इति शुक्लगतरोगचिकित्सा ॥ अथ वर्त्मपक्ष्मजा: ॥ उत्सड्गिनी बहलकर्दमवर्त्मनी च श्यावं च यानि पठितानि ह यच्च वर्त्म । क्लिष्टं च पोथकियुतं खलु वर्त्म यच्च कुम्भिकिनी च सह शर्करया च लेख्य: ॥ श्लेष्मापनाहलगणं च विशं च मेद्या ग्रन्थिश्च य: कृमिकतोऽञ्जननामिका च ॥१॥
स्विन्नां भित्वा विनिष्पीड्य भिन्नामञ्जननामिकाम्‍ । शिलैलानतसिन्धूत्थै: सक्षौद्रे; प्रतिसारयेत्‍ ॥२॥
रसाञ्जनमधुभ्यां वा भित्वा शस्त्रेण वर्त्मवित्‍ । प्रतिसार्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवै: ॥३॥
स्वेदयेद्‍ घृष्ठयाड्गुल्या हरेद्रक्तं जलौकसाम्‍ । करे सड्घृष्य दुर्वर्ण्यमञ्जयेल्लोचने मुहु: ॥४॥
द्वित्रिवाराञ् शमयति कण्डूदोषान्विताञ्जनम्‍ । रसाञ्जनं व्योषयुतं सपिष्टं वटकीकृतम्‍ ॥५॥
कण्डूपाकान्वितं हन्ति नूनमञ्जननामिकाम्‍ । रोचनाक्षारतुत्थानि पिप्पल्य: क्षौद्रमेव च ॥६॥
प्रतिसारणमेकैकं भिन्ने लगण इष्यते । निमेषं नाशमायाति सर्पिस्तेन च पूरणम्‍ ॥७॥
स्वेदयित्वा बिसग्रन्थिच्छिद्राण्यस्य निराश्रयेत्‍ । पक्वं भित्वा तु शस्त्रेण सैन्धवेन प्रपूरयेत्‍ ॥८॥
इति निमेषबिसग्रन्थी ॥ अथ क्लिन्नवर्त्म ॥ आलदारुवचा: पिष्ट्वा सुरसापत्रवारिणा । छायाशुष्का कृता वर्ति: क्लिन्नवर्त्मनिवारणी ॥१॥
रसाञ्जनं सर्जरसो जातिपुष्पं मन:शिला । समुद्रफेनो लवणं गैरिकं मरिचानि च ॥२॥
एतत्समांशं मधुना पिष्ट्वा प्रक्लिन्नवर्त्मनि । अञ्जनं क्लेदकण्डुघ्नं पक्ष्मणां च प्ररोहणम्‍ ॥३॥
अथ पिल्लम्‍ ॥ पित्तश्लेष्मप्रकोपेण वर्त्मात: संप्रकुप्यते । नाम्नातिलोमशं वापि विक्लिष्टं पिल्लमेव च ॥१॥
वर्त्मावलेख्यं बहुशस्तद्वच्छोणितमोक्षणम्‍ । पुन: पुनर्विरेकं च पिल्लरोगातुरो भजेत्‍ ॥२॥
पिल्ली स्निग्धो वमेत्पूर्वं क्रियाव्यवसृतेऽसृजि । शिलारसाञ्जनव्योषगोपित्तैर्वर्तिरञ्जनम्‍ ॥३॥
पिल्लघ्नं छागमूत्रेण भावितं देवदारु च । हरितालचादारुसुरसारसपेषितम्‍ ॥४॥
अभयारससंपिष्टं तगरं पिल्लनाशनम्‍ । ताम्रपात्रे गुहामूलं सिन्धूत्थं मरिचान्वितम्‍ ॥५॥
आरनालेन संघृष्टमञ्जनं पिल्लनाशनम्‍ । तुत्थकस्य पलं श्वेतमरिचानि च विंशति: ॥६॥
त्रिंशता काञ्जिकपलै: पिष्ट्वा ताम्रे निधापयेत्‍ । पिल्लानपिल्लान्कुरुते बहुवर्षोत्थितानपि ॥ उत्सेकेनोपदेहेन कण्डूशोथांश्च नाशयेत्‍ ॥७॥
अथ पक्ष्मरोगयोश्चिकित्सा ॥ रक्षन्नक्षि दहेत्पक्ष्म तप्तलोशशलाकया । पक्ष्मकोपे पुनर्नैवं कदाचिद्रोमसंभव: ॥१॥
पुष्पकासीसचूर्णं वा सुरसारसभावितम्‍ । ताम्रे दशाहं तद्योज्यं पक्ष्मशातनलेपनम ॥२॥
इति वर्त्मपक्ष्मजा: ॥ अथ सन्धिजानां चिकित्सामाह ॥ तत्र पूयालसचि० ॥ पूयालसे शिरां भित्वा लेपोपनाहकर्मभि: । नेत्रपाकविधि: कुर्यात्परमुक्ताञ्जनं हितम्‍ ॥१॥
आर्द्रकस्वरसैर्घृष्टं सिन्धुकासीससंमितम्‍ । छायाशुष्कां वटीं कुर्यात्‍ पूयाख्ये हितमञ्जनम्‍ ॥२॥
अथोपनाहालज्योश्चिकित्सा ॥ हितोपनाहे त्वलजे पिप्पली मधुसैन्धवै: । विलिखेन्मण्डलाग्रेण छेदयेद्वा समन्तत: ॥१॥
अथ स्त्रावा: ॥ स्त्रावेषु त्रिफलाक्वाथं यथादोषं प्रयोजयेत्‍ । क्षौद्रेणाज्येन पिप्पल्या मिश्रं विध्येच्छिरां तथा ॥१॥
पथ्याक्षधात्रीफलमध्यबीजैस्त्रिव्द्येकभागैर्विदधीत वर्तिम्‍ । तयाञ्जयेदस्त्रमतिप्रवृद्धमक्ष्णोर्हरेत्कष्टमपि प्रकोपम्‍ ॥२॥
कार्पासीफलजम्ब्वाम्रजलैर्घृष्टं रसाञ्जनम्‍ । मधुयुक्तं चिरोत्थं च चक्षु:स्त्रावमपोहति ॥३॥
अथ पर्वणीका ॥ पर्वणीपिटकां सन्धिभागे छिन्द्यादसंशयम्‍ । हितमाश्चोतनं तत्र योजयेन्मधुसैन्धवै: ॥१॥
अथ जन्तुग्रन्थि: ॥ त्रिफलामृतकासीससैन्धवै: सरसाञ्जनै: । रसक्रियां कृमिग्रन्थौ भिन्ने स्यात्प्रतिसारणम्‍ ॥१॥
इति सन्धिजा: ॥ अथ समस्तनेत्रजरोगचिकित्सामाह ॥ तत्र सेकविधि: ॥ सेकस्तु सूक्ष्मधारभि: सर्वस्मिन्नयने हित: । मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरड्गुल: ॥१॥
सर्वोऽपि स्नेहनो वाते रक्ते पित्ते च रोपण: । लेखनश्च कफे कार्यस्तत्र मात्राधुनोच्यते ॥२॥
षड्‍वाकशतै: स्नेहनेषु चतुर्भिश्चैव रोपणे । वाक्‍शतैश्च द्विभि: कार्य: सेको लेखनकर्मणि ॥ कार्यस्तु दिवसे सेको रात्रौ वात्ययिके गदे ॥३॥
अथाश्चोतनविधि: ॥ अथ त्वाश्चोतनं कार्यं निशायां न कथंचन । उन्मीलितेऽक्ष्णि दृढ्यध्ये बिन्दुभिर्व्द्यड्गुलाधिकम्‍ ॥१॥
बिन्दवोऽष्टौ लेखनेषु स्नेहने दश बिन्दव: । रोपणे द्वादश प्रोक्तास्ते शीते कोष्णरुपिण: ॥२॥
उष्णे च शीतरुपा: स्यु: सर्वत्रैवैष निश्चय: । वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलम्‍ ॥३॥
तिक्तोष्णरूक्षं च कफे क्रमादाश्चोतनं हितम्‍ । आश्चोतनानां सर्वेषां मात्रा स्याद्वाक्‍शतोन्मिता ॥४॥
निमेषोन्मेषणं पुंसामड्गुल्योस्त्रोटिकाथ वा । गुर्वक्षरोच्चारणं वा वाड्यात्रेयं स्मृता बुधै: ॥५॥
अथ पिण्डिकाविधि: ॥ पिण्डिकावलिका प्रोक्ता बध्यते वस्त्रपट्टकै: । नेत्राभिष्यन्दयोग्या सा व्रणेष्वपि निगद्यते ॥१॥
अथ बिडलाविधि: ॥ बिडालको बहिर्लेपो नेत्रे पक्ष्मविवर्जिते । तस्य मात्रा परिज्ञेया मुखलेपविधानवत्‍ ॥१॥
अथ तर्पणविधि: ॥ अथ तर्पणकं वच्मि नेत्रतृप्तिकरं परम्‍ ॥१॥
यच्चक्षु: परिशुष्कं च नेत्रं कुटिलमाविलम्‍ । शीर्णपक्ष्मशिरोत्पातकृच्छ्रोन्मीलनसंयुतम्‍ ॥२॥
तिमिरार्जुनशुक्राद्यैरभिष्यन्दाधिमन्थकै: । शुष्काक्षिपाकशोथाभ्यां युतं वातविषर्ययै: ॥३॥
तन्नेत्रं तर्पणे योज्यं नेत्ररोगविशारदै: । दुर्दिनात्युष्णशीतेषु च ॥४॥
अशान्तोपद्रवे चाक्ष्णि तर्पणं न प्रशस्यते । वातातपरजोहीने देशे चोत्तानशायिन: ॥५॥
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ । समौ दृढावसम्बाधौ कर्तव्यौ नेत्रकोशयो: ॥६॥
पूरयेद्‍ घृतमण्डेन विलीनेन मुखोदकै: । अथवा शतधौतेन सर्पिषा क्षेरजेन वा ॥७॥
निमज्जन्त्यक्षिपक्ष्माणि यावता तावदेव हि । पूरयेन्मीलिते नेत्रे तत उन्मीलयेच्छन्नै: ॥८॥
धारयेद्वर्त्मरोगेषु वाड्यात्राणां शतं बुध: । स्वच्छे कफे सन्धिरोगे मात्रा पञ्चशतं हितम्‍ ॥९॥
कफे च षट्‍शतं कृष्णरोगे सप्तशतं मतम्‍ । दृष्टिरोगेष्वष्टशतमधिमन्थे सहस्त्रकम्‍ ॥१०॥
सहस्त्रं वातरोगेषु धार्यमेवं हि तर्पणम्‍ । एकाहं वा त्र्यहं वापि पञ्चाहं चेष्यते परम्‍ ॥११॥
तर्पणात्तृप्तिलिड्गानि नेत्रस्यैतानि लक्षयेत्‍ । सुखं स्वप्नावबोधत्वं वैशद्यं वर्णवर्जितम्‍ ॥१२॥
निर्वृतिर्व्याधिशान्तिश्च क्रियालाघवमेव च । अथ सासृग्गुरुस्निग्धं नेत्रं स्यादतितर्पितम्‍ ॥१३॥
रुक्षमस्त्राविलं रुक्षं नेत्रं स्याद्धीनतर्पणम्‍ । रुक्षस्निग्धोपचाराभ्यामेतयो: स्यात्प्रतिक्रिया ॥१४॥
अथामिष्यन्दचिकित्सामाह ॥ तेषु वातिकाभिष्यन्दचिकित्सा ॥ अथ सेक: ॥ एरण्डत्वक्‍पत्रमूलै: शृतमाजं पयो हितम्‍  ।
सुखोष्णं सेचनं नेत्रे वाताभिष्यन्दनाशनम्‍ ॥१॥
परिषेके हितं नेत्रे पय: कोष्णं ससैन्धवम्‍ । रजनीदारुसिद्धं वा सैन्धवेन समन्वितम्‍ ॥ वाताभिष्यन्दशमनं हितं मारुतपर्यये ॥२॥
अथाश्चोतनम्‍ ॥ बिल्वादिपञ्जमूलेन बृहत्येरण्डशिग्रुभि: । क्वाथश्चाश्चोतनं कोष्णं वाताभिष्यन्दनाशन: ॥१॥
अम्बुपिष्टैर्निम्बिपत्रैस्त्वचं लोध्रस्य पेषयेत्‍ । प्रताप्य वह्निना पिष्ट्वा तद्रसो नेत्रपूरणात्‍ ॥ वातोत्थरक्तपित्तोत्थमभिष्यन्दं विनाशयेत्‍ ॥२॥
अथ पिण्डिका ॥ वाताभिष्यन्दशान्त्यर्थं स्निग्धोष्णा पिण्डिका भवेत्‍ । एरण्डपत्रमूलत्वड्गनिर्मिता वातनाशिनी ॥१॥
अथाञ्जनम्‍ ॥ हरिद्रामधुकं पथ्यादेवदारु च पेषयेत्‍ । आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम्‍ ॥१॥
अथ पित्ताभिष्यन्दचिकित्सा ॥ अथ सेक: ॥ चन्दनारिष्ठपत्राणि यष्टीदार्व्याससैन्धवै: । पिष्ट्वाम्भसा भवेत्सेक: पित्ते क्षौद्रसमन्वित: ॥१॥
अथाश्चोतनम्‍ ॥ निम्बस्य पत्रै: परिलिप्य लोध्रं स्वेदो‍ग्निना चूर्णमथापि कल्कम्‍ । आश्चोतनम्‍ ॥ मानुषदुग्धमिश्रं पित्तास्त्रवातापहमग्र्यमुक्तम्‍ ॥१॥
द्राक्षामधुकमञ्जिष्ठजीवनीयै: शृतं पय: । प्रातराश्चोतनं पथ्यं दाहशूलाक्षिरागजित्‍ ॥२॥
अथ पिण्डिका ॥ पित्ताभिष्यन्दनाशाय धात्रीपिण्डी सुखावहा । महानिम्बदलोद्भूता पिण्डिका पित्तनाशनी ॥१॥
अथ बिडालक: ॥ पैत्तिके चन्दनानन्ब्रामञ्जिष्ठाभिर्बिडालक: । कार्य: सपद्मयष्ट्याह्वमांसीकालीयकैस्तथा ॥१॥
चन्दनं मधुकं लोध्रं जातीपुष्पाणि गैरिकम्‍ । प्रलेपो दाहरोगघ्नस्तोदाभिष्यन्दनाशन: ॥२॥
अथ श्लैष्मिकाभिष्यन्दचिकित्सामाह ॥ कफजे लड्घनं स्वेदो नस्यं तिक्तादिभोजनम्‍ । तीक्ष्णै: प्रधमनं कुर्यात्तीक्ष्णैरेवोपनाहनम्‍ । रुक्षतीक्ष्णविरेकैश्च मलं सम्यग्‍ विनिर्हरेत्‍ ॥१॥
अथ सेक: ॥ निम्बार्कपत्रसंपक्वं लोध्रं भागचतुष्टयम्‍ । धूप: सर्पि: पयोभागै: कफे सेक: सुखाम्बुना ॥१॥
अथाश्चोतनम्‍ ॥ ससैन्धवं लोध्रमथाज्यभृष्टं सौवीरपिष्टं सितवस्त्रबद्धम्‍ । आश्चोतनं तत्रयनस्य कुर्यात्कण्डूं च दाहं च रुजं च हन्यात्‍ ॥१॥
अथ पिण्डिका ॥ शिग्रुपत्रकृता पिण्डी श्लेष्माभिष्यन्दहारिणी । शुण्ठीनिम्बदलै: पिण्डी सुखोष्णा स्वल्पसैन्धवा ॥ धार्या चक्षुषि संयोगाच्छोथकण्डुव्यथाहरा ॥१॥
अथ बिडालक: ॥ रसाञ्जनेन वा लेप: पथ्याविश्वदलैरपि । वचाहरिद्राविश्वैर्वा तथा नागरगैरिकै: ॥१॥
अथ स्वेदनम्‍ ॥ फणिज्जकास्फोतकपित्थबिल्वधत्तूरभड्गार्जुनपत्रयोगै: । स्वेदं विदध्यादथ वा प्रलेपं सलोध्रशुण्ठीसुरदारुकुष्ठै: ॥१॥
अथ सामान्योपचार: ॥ वल्कलं पारिजातस्य तैलसैन्धवकाञ्जिकम्‍ । कफजाक्षिजशूलघ्नं तरुघ्नं कुलिशं यथा ॥१॥
सौवीरं सैन्धवं तैलं मूर्वामूलं तथैव च । कांस्यपात्रे विघृष्टं स्यादक्षौ: शूलनिवारणम्‍ ॥२॥
सलवणकटुतैलं काञ्जिकं कांस्यपात्रे घनितमुलघृष्टं धूपितं गोमयाग्नौ । सपवनकफकोपं छागदुग्धावसिक्तं जयति नयनशूलं स्त्रावशोथं सरागम्‍ ॥३॥
स्यन्दाधिमन्थे क्रममाचरेच्च सर्वेषु चैतेषु सदा प्रशस्तम्‍ ॥४॥
अथ रक्तजाभिष्यन्दचिकित्सामाह ॥ अथ सेक: ॥ त्रिफलालोध्रयष्टिभि: शर्कराभद्रमुस्तकै: । पिष्टै: शीताम्बुना सेको रक्ताभिष्यन्दनाशन: ॥१॥
अथाश्चोतनम्‍ ॥ स्त्रीस्तन्याश्चोतनं नेत्रे रक्तपित्तानिलार्तिजित्‍ । क्षीरसर्पिघृतं वापि रक्तपित्तरुजं जयेत्‍ ॥१॥
लोध्रचूर्णं घृते घृष्टं रुजमाश्चोतनरिर्हरेत्‍ । शर्करात्रिफलाचूर्णमिदमाश्चोतनं परम्‍ ॥२॥
अथाञ्जनम्‍ ॥ श्रीपर्णीपाटलाधात्रीधातकीतिल्कावर्जुनात्‍ । पुष्पाण्यथ बृहत्याश्च बिम्बीलोध्रं च तुल्यश: ॥१॥
मञ्जिष्ठं चापि मधुना पिष्ट्वापीक्षुरसेन वा । रुधिरस्यन्दशान्त्यर्थमेतदञ्जनमिष्यते ॥२॥
अथ वासादिक्वाथ: ॥ आटरुषाभयानिम्बधात्रीमुस्तकमूलकै: । रक्तास्त्रावं कफं हन्ति चक्षुष्यं वासकादिकम्‍ ॥१॥
अथाधिमन्थान्यतोवातयोश्चिकित्सा ॥ अधिमन्येषु सर्वेषु ललाटे व्यधयेच्छिराम्‍ । अशान्ते सर्वथा मन्थे भ्रुवोरुपरि दाहयेत्‍ ॥१॥
अभिष्यन्देषु या: प्रोक्ताश्चतुर्ष्वपि प्रतिक्रिया: । ता: सर्वा अधिमन्थेषु प्रयोज्याश्च भिषग्वरै: ॥२॥
सर्व एव विधि: सर्वमन्थादिष्वपि चेष्यते । तथा चाप्यन्यतोवाते सामान्यो वक्ष्यते विधि: ॥३॥
यष्टीं गुडूचीं त्रिफलां सदार्वीमक्ष्यामये सर्वभवे पिबेद्वा । आश्चोतनं सान्द्ररसेन दार्व्या: शस्तं सदा क्षौद्रयुतं नराणाम्‍ ॥४॥
गुडूचीत्रिफलाक्वाथो मधुका सह योजित: । पीत: सर्वाक्षिरोगघ्न: कृष्णाचूर्णावचूर्णित: ॥५॥
प्रपौण्डरीकयष्ट्याह्वदार्वीलोध्रै: सचन्दनै: । एरण्डाम्बुयुतै: सेकै: सर्वनेत्ररुजापह: ॥६॥
श्वेतलोध्रं घृते चूर्णितं ताप्यतुत्थकम्‍ । कृष्णाम्बुना विमृदितं सेक: शूलहर: पर: ॥७॥
यष्टीगैरिकसिन्धूत्थदार्वीतार्क्ष्यै: समांशकै: । जलपिष्टैर्बहिर्लेप: सर्वनेत्रामयापह: ॥८॥
दग्ध्वा स सैन्धवं लोध्रं मधूच्छिष्टयुते घृते । पिष्टमञ्जनलेपाभ्यां सद्यो नेत्ररुजापहम्‍ ॥९॥
लोहस्य पात्रे संघृष्टो रसो निम्बुफलोद्भव: । किंचिद्‍घनो बहिर्लेपान्नेत्रव्याधिं व्यपोहति ॥१०॥
निम्बस्य चोदुम्बरवल्कलस्य एरण्डयष्टीमधुचन्दनस्य । पिण्डो विधेयो नयनप्रकोपे कफेन पित्तेन समीरणेन ॥११॥
अथ शोथपाकयोश्चिकित्सा ॥ जलौकापातनं श्रेष्ठं नेत्रपाके विरेचनम्‍ । शिराव्यधं वा कुर्वीत सेकलेपौ च शुक्रवत्‍ ॥१॥
बिभीतकशिवाधात्रीपटोलारिष्टवासकै: । क्वाथो गुग्गुलसंयुक्त: शोथशूलाक्षिरोगनुत्‍ ॥२॥
अथ वातपर्ययशुष्काक्षिपाकयोश्चिकित्सा ॥ वाताभिष्यन्दवच्चात्र वातमारुतपर्यये । अनेनैव विधानेन भिषक्‍ चैवाभिसाधयेत्‍ ॥१॥
पूर्वं तत्र हितं सर्पि: क्षीरं वाप्यथ भोजनम्‍ । परिषेको हितं नेत्रे पय: कोष्णं ससैन्धवम्‍ ॥२॥
रजनीदारुसिद्धं वा सैन्धवेन समन्वितम्‍ । वाताभिष्यन्दशमनं हितं मारुतपर्यये ॥३॥
शुष्काक्षिपाके च सदा इदं सेचनकं हितम्‍ । सैन्धवं दारु शुण्ठी च मातुलिड्गरसे घृतम्‍ ॥४॥
स्तन्योदकार्धं कुर्वीत शुष्कपाके तदञ्जनम्‍ । शुष्काक्षिपाके हविष: पानमक्ष्णोश्च तर्पणम्‍ ॥ घृतेन जीवनीयेन नस्यं तैलेन योजयेत्‍ ॥५॥
अथाम्लाध्युषितमाह ॥ तिक्तस्य सर्पिष: पानं बहुशश्च विरेचनम्‍ । अम्लाध्युषितशान्त्यर्थे कुर्याल्लेपान्सुशीतलान्‍ ॥१॥
बिल्वकं त्रिफलां सर्पिजीर्णं वा केवलम्पिबेत्‍ । शिराव्यधं विना कार्य: पित्तस्यन्दहरो विधि: ॥२॥
अथ शिरोत्पातशिराहर्षयोश्चिकित्सा ॥ शिरोत्पातं शिराहर्षमन्यश्चिस्त्रभवान्गदान्‍ । स्निग्धस्य कोष्णेनाज्येन शिरावेधै: शमं नयेत्‍ ॥१॥
सर्पि: क्षौद्रं चाञ्जनं स्याच्छिरोत्पातस्य भेषजम्‍ । तद्वत्सैन्धवकासीसं स्तन्यपिष्टं च पूजितम्‍ ॥२॥
शिराहर्षेऽञ्जनं कार्यं फाणितं मधुसंयुतम्‍ । मधुना  तार्क्ष्यशैलं च कासीसं वा समाक्षिकम्‍ ॥३॥
वेतसाम्लं स्तन्यप्युतं फाणितं तु ससैन्धवम्‍ । पित्ताभिष्यन्दशमनं विधिं चात्रापि योजयेत्‍ ॥४॥
इति सर्वजा: ॥ अथ ग्रन्थान्तरे नयनाभिघातस्य निदानचिकित्से ॥ स्त्रवत्यश्रु च यन्नेत्रं वृतं लोहितराजिभि: । निमेषोन्मेषणाशक्तं सशल्यं तं विनिर्दिशेत्‍ ॥१॥
नेत्रे त्वभिहते कुर्याच्छीतमाश्चातनं हितम्‍ । पुनर्नवामूलकल्कात्‍ पिण्डीलेपे कुचन्दनम्‍ ॥ अन्त:स्त्रीस्तन्यसेकश्च रक्तमोक्षश्च शस्यते ॥२॥
दृष्टीप्रसादजननं विधिमाशु कुर्यात्स्त्रिग्धैर्हिमैश्च मधरैश्च तथा प्रयोगै: । स्वेदाग्निधूमभयशोकरुजादितापैरभ्याहतामपि तथैव भिषक्‍ चिकित्सेत्‍ ॥३॥
सूर्यार्चिराशाम्बरविद्युतादिविलोकनेनोपहतेक्षणस्य । सन्तर्पणं स्निग्धहिमादि कार्यं सायं निषेव्यस्त्रिफलाप्रयोग: ॥४॥
निशाब्दत्रिफलादार्वी सितामधुसमन्विता । अभिघाताक्षिशूलघ्नं नारीक्षीरेण पूरणम्‍ ॥५॥
साबरं मधुकं तुल्यं घृतभृष्टं सुचूर्णितम्‍ । छागक्षीररोत्थितं सेक: पित्तरक्तभिघातजित्‍ इति नयनाभिघात: ॥ क्षौद्राश्वलालाघृष्टैर्मरिचैर्नेत्रमञ्जयेत्‍ । अतिनिद्रा शमं याति तम: सूर्योदयादिव ॥१॥
जातीपुष्पं प्रवालं च मरिचं कटुका वचा । सैन्धवं बस्तमूत्रेण पिष्टं तन्द्राघ्नमञ्जनम्‍ ॥२॥
अथ नेत्ररोगे भीमसेनीकर्पूर: ॥ सुधांशोर्वसुभागा: स्युरेलाभागद्वयं तथा । चन्दनं चाब्धिफेनं च बीजं कतकसंभवम्‍ ॥१॥
रसाञ्जनं भद्रमुस्तं प्रत्येकं कर्षसंमितम्‍ । सर्वं दुग्धे विमर्द्याथ पिण्डे गोधूमपिष्टवत्‍ ॥२॥
कृत्वा पात्रे निधायाथ क्षिपेत्पात्रं तथोपरि । अध: प्रज्वालयेद्दीपं वर्त्याड्गुष्ठसमानया ॥३॥
एवं प्रहरपर्यन्तं वह्निं कुर्याच्च युक्तित: । पात्रस्योपरिभागं तु शीतलं रक्षयेब्दुध: ॥४॥
सदार्द्रचैलखण्डेन शीतलेन च वारिणा । स्वाड्गशीतं ततो ज्ञात्वा पश्चात्कर्पूरमाहरेत्‍ ॥५॥
स्फटिकाकारमत्यच्छं श्वेतहीरमणिप्रभम्‍ । भीमसेन्याख्यकर्पूरमौषधेषु प्रयोजयेत्‍ ॥६॥
इति भीमसेनीकर्पूर: ॥ अथ पथ्यापथ्यम्‍ ॥ आश्चोतनं लड्घनमञ्जनं च स्वेदो विरेको प्रतिसारणं च । प्रपूरणं नस्यमसृग्विमोक्ष: शस्त्रक्रिया लेपनमाज्यपानम्‍ ॥१॥
सेको मुनीष्टा तिमिरघ्नपूजा मुद्गा यवा लोहितशालयश्च । कौम्भं हविर्वन्यकुलत्थयूष: पेया विलेपी सुरणं पटोलम्‍ ॥२॥
वार्ताककर्कोटककारवेल्लं नवीनमोचं नतमूलकं च । पुनर्नवामार्कवकाकमाची पत्तूरशाकानि कुमारिका च ॥३॥
कुस्तुम्बुरु: शीरकमाणिमन्थो रोध्रं वरा क्षौद्रमुपानहश्च । नारीपयश्चन्दनमिन्दुखण्डं तिक्तानि सर्वाणि लघूनि चापि ॥४॥
विजानता पथ्यमिदं प्रयुक्तं यथामलं नेत्रगदं निहन्ति । क्रोधं शुचं मैथुनमश्रुवायुविण्मूत्रनिद्रावमिवेगरोधम्‍ ॥५॥
सूक्ष्मेक्षणं दन्तविघर्षणं च स्नानं निशाभोजनामतपं च । प्रजल्यनं छर्दनमम्बुपानं मधुकपुष्पं दधिपत्रशाकम्‍ ॥६॥
कालिड्गपिण्याकविरुढकानि मत्स्यं सुरामांसमजाड्गलं च । ताम्बूलमम्लं लवणं विदाहि तीक्ष्णं कदुष्णं गुरु चान्नपानम्‍ ॥ नरो न सेवेत हिताभिलाषी सर्वेषु रोगेषु दृगाश्रयेषु ॥७॥
शालितण्डुलगोधूममुद्गसैन्धवगोघृतम्‍ । गोपयश्च सिता क्षौद्रं पथ्यं नेत्रगदे स्मृतम्‍ ॥८॥
सर्वं शाकमचक्षुष्यं चक्षुष्यं शाकपञ्जकम्‍ । जीवन्ती वास्तु मत्स्याक्षी मेघनाद: पुनर्नवा ॥९॥
माषारनालकटुतैलजलावगाहक्षुद्राक्षुरैश्च सुरतैर्निशि जागरैश्च । शाकाम्लमत्स्यदधिफाणितवेसवारैश्चक्षु: क्षयं व्रजति सूर्यविलोकनाच्च ॥१०॥
इति नेत्ररोगाधिकार: ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T20:20:30.6930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Ipomoea reniformis Chois.

  • उंदीरकानी 
RANDOM WORD

Did you know?

I want Ganesh Puran marathi book which is on your site by Balbheem Bhat.
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.