संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथातो ग्रहणीचिकित्सितं व्याख्यास्याम: ॥

॥ अथातो ग्रहणीचिकित्सितं व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


अथ वातग्रहणी । ग्रहणीमाश्रितं दोषमजीर्णादुपाचरेत्‍ । अतिसारोक्तविधिना तस्य त्वामं विपाचयेत्‍ ॥१॥
पेयादिपञ्चलवणं पञ्चकोलादिभिर्युतम्‍ । दीपनानि च तक्रं च ग्रहण्यां संप्रयोजयेत्‍ ॥२॥
ज्ञात्वा तु परिपक्वं च वातजं ग्रहणीगदम्‍ । दीपनैर्भेषजै: पक्वै: सर्पिर्भि: समुपाचरेत्‍ ॥३॥
धान्यबिल्वबलाशुण्ठीशालिपर्णीशृतंजलम्‍ । स्याद्वातग्रहणीदोषे सानाहे सपरिग्रहे ॥४॥
अथ पञ्चमूलाद्यं घृतम्‍ । पञ्चमूल्यभयाव्योषपिप्पलीमूलसैन्धवै: । रास्त्राक्षारद्वयाजाजीविडगसटिभिर्घृतम्‍ ॥१॥
पक्वेन मातुलुड्गस्य स्वरसेनार्द्रकस्य च । शुष्कमूलककोलाम्बुचुक्रिकादाडिमस्य च ॥२॥
तक्रमस्तुसुरामण्डसौवीरतुषोदकै: । काञ्जिकेन्च तत्पक्त्वा पीतमग्निकरं परम्‍ । शूलगुल्मोदरानाहकार्श्यानिलगदापहम्‍ ॥३॥
इति पञ्चमूलाद्यं घृतम्‍ ॥ अथ शुण्ठीघृतम्‍ । घृतं नागरकल्केन सिद्धं वातानुलोमनम्‍ । ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम्‍ ॥१॥
इति शुण्ठीघृतम्‍ । इति वातग्रहणी ॥
=================================
॥ अथ पित्तग्रहणी ॥
अथ रसाञ्जनादिचूर्णम्‍ रसाञ्जनं प्रतिविषा वत्सकस्य फलत्वचौ । नागरं धातकी चैवं सक्षौद्रं तण्डुलाम्बुना ॥ पित्तग्रहणीदोषार्शोरक्तपित्तातिसारनुत्‍ ॥१॥ इति रसाञ्जनादिचूर्णम्‍ ।
श्रीफलाशलाटुकल्को नागरचूर्णेन मिश्रित: सगुड: । ग्रहणीगदमत्युग्रं तक्रभुजा शीलितो जयति ॥१॥
नागरातिविषामुस्तं धातकी सरसाञ्जनम्‍ । वत्सकत्वक्‍ फलं बिल्वं पाठा तिक्तकरोहिणी ॥२॥
पिबेतसमांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना । पित्तजे ग्रहणीदोषे रक्तं यश्वोपवेश्यते ॥३॥
अर्शांसि हृद्गुदे शूलं जयेच्चैव प्रवाहिकाम्‍ । नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम्‍ ॥४॥
इति नागराद्यं चूर्णम्‍ । भूनिम्बकटुकाव्योषमुस्तानिन्द्रयवान्समान्‍ । द्वौ चित्रकान्वत्सकत्वग्‍भागान्‍ षोडश चूर्णयेत्‍ ॥१॥
गुडशीताम्बुना पीतं ग्रहणीपित्तदोषनुत्‍ । कामलाज्वरपाण्डुघ्नं मेहतीव्रातिसारनुत्‍ ॥२॥
इति वृन्दात्‍ । इति पित्तग्रहणीचिकित्सा ॥

N/A

References : N/A
Last Updated : December 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP