संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ वटकाः ॥

॥ अथ वटकाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


लवणमरिचहिङ्गुशृङ्गवेरैः समुपचितो वरमाषजः सुपक्कः ।
अतिसुरभिघृतेऽ‍थवा सुतैले विशति मुखे वटकः सुपुण्यभाजाम्‌ ॥१॥
पवनारुचिदैन्यजयोद्भटकः क्षपितार्दितकम्पमरुत्कटकः ।
रसनातलरङ्गधरानटकः कफपित्तविकारकरो वटकः ॥२॥
[ अथ काञ्जिकवटकः ] बाल्हीकधूपयुतनिर्मलवारिपूर्णे कुण्डे यथोचितपटुत्तमराजिकाद्यैः ।
संधूपिताः कतिचिदेव दिनानि रुच्या वाताश्च काञ्जिकवटाः कफपित्तलाः स्युः ॥३॥
मुद्गवटी गुरूरुच्या वातपित्तास्रदा मता ।
श्लेष्मला पुष्टिबलकृच्छुक्रला मृदुलाऽल्पतृट्‌ ॥४॥
वैदलैश्चाणकैः स्विन्नैः सगुडैः सूक्ष्मपेषितैः ।
किंवा सलवणाजाजीहिङ्गुभिः पूरणीकृतैः ॥५॥
एतैर्भृताश्च तलिताः कृतगोधूमपूरिकाः ।
पूरिका मधुरा बल्याः श्रमवातामयापहाः ॥६॥
शुक्रला बृंहणी श्वासपथ्या हृद्रोगनाशिनी ।
इत्थं सलवणा लघ्वी श्लेष्मवातविनाशिनी ॥७॥
सुशालिपिष्टं घनदुग्धमिश्रितं सशर्करं वस्त्रसुपूतमेतत्‌ ।
घृते सुपक्कं पृथुलीकृतं बुधैर्निगद्यते शालिजघेवरोऽयम्‌ ॥८॥
माषपिष्ट्यथवा मुद्गपिष्टी सपटुरामठा ।
जीरकार्द्रकसंयुक्ता पिण्डिता मुष्टिमात्रया ॥९॥
तृणाम्बुगर्भिते पात्रे सुस्विन्ना तलितास्ततः ।
खादयेदिण्डरीं शुष्कां किंवाम्लाद्यैः प्रलोडिताम्‌ ॥१०॥
माषेण्डर्युदिता बल्या रोचिकानिलजिद्गुरुः ।
शुक्रला बृंहिणी चाथ मुद्गजा स्वल्पजा लघुः ॥११॥
शालिपिष्टकृता भक्ष्या नातिबल्या विदाहिनः ।
अवृष्या गुरवश्चोष्णाः कफपित्तप्रकोपनाः ॥१२॥
गोधूमविहिता भक्ष्या बल्याः पित्तानिलापहाः ।
वैदला भक्ष्या गुरवस्तुवरा हिमाः ॥१३॥
माषपिष्टकृता भक्ष्या बल्याः पित्तकफप्रदाः ॥
इति वटकाः ॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP