TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथाम्लपित्तनिदानम् ॥

॥ अथाम्लपित्तनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथाम्लपित्तनिदानम् ॥
॥ अथाम्लपित्तनिदानम्‍ ॥
अथ तस्य सम्प्राप्तिमाह ॥ विरुद्धदुष्टाम्लविदाहिपित्तप्रकोपिपान्नभुजो विदग्धम‍ । पित्तं स्वहेतूपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्त: ॥१॥
अथ तस्य लिड्गमाह ॥ अविपाकक्लमोत्क्लेशतिक्ताम्लोद्गारगौरवै: । हृत्कण्ठदाहारुचिभिश्चाम्लपित्तं वदेद्भिषक्‍ ॥१॥
अथ तस्य कदाचिदधोगतिमाह ॥ तृड्दाहमूर्च्छाभ्रममोहकारी प्रयात्यधो वा विविधप्रकारम्‍ । हृल्लासकोठानलसादहर्षस्वेदाड्गपीतत्वकरं कदाचित्‍ ॥१॥
अथ विशेषेणोर्ध्वगतिमाह ॥ वातं हरित्पीतकनीलकृष्णमारक्तरक्ताभमतीव चाम्लम्‍ । मांसोदकाभं त्वतिपिच्छिलाभं श्लेष्मानुयातं विविधं रसेन ॥१॥
अथ भुक्तेऽभुक्तेवस्थामाह ॥ भुक्ते विदग्धेऽप्यथ वाप्यभुक्ते करोति तिक्ताम्लवमिं कदाचित्‍ । उद्गारमेवंविधमेव कण्ठे हृत्कुक्षिदाह शिरसो रुजं वा ॥१॥
अथ कफपित्तवत्सामान्यमाह ॥ करचरणदाहमौष्ण्यं महतीमरुचिं ज्वरं च कफपित्तम्‍ । जनयति कण्डूमण्डलपिटिका चित्तगात्ररोगचयम्‍ ॥१॥
रोगोऽयमम्लपित्ताख्यो यत्नात्संसाध्यते नव: । चिरोत्थितो भवेद्याप्य: कष्टसाध्य: स कस्यचित्‍ ॥२॥
अथ तस्मिन्ननिलकफसंसर्गमाह ॥ सानिलं सानिलकफं सकफं तच्च लक्षयेत्‍ । दोषलिड्गेन मतिमान्‍ भिषड्मोहकरं हि यत्‍ ॥१॥
कम्पप्रलापमूर्च्छाचिमिचिमिगात्रावसादशूलानि । तमसो दर्शनविभ्रमप्रमोहहर्षणान्यनिलात्‍ ॥२॥
अथ तत्रानिलगतमाह ॥ कफनिष्ठीवनगौरवजडतारुचिशीतसादवमिलेपा: । दहनबलसादकण्डूनिद्राचिह्नं कफानुगते ॥१॥
अथ वातश्लेष्मानुगतमाह ॥ उभयमिदमेव चिह्नं मारुतकफसंभवे भवत्यम्ले । कट्‍वम्ललवणरसासेवितकोपं भजत्येव ॥
तिक्ताम्लकटुकोद्गारवमिहृत्कण्ठदाहकृत्‍ ॥१॥
अथासाध्यमाह । भ्रमो मूर्च्छारुचिश्च्छर्दिरालस्यं च शिरोरुजा प्रसेको मुखमाधुर्यं श्लेष्मपित्तस्य लक्षणम्‍ ॥१॥
इत्यम्लपित्तस्य निदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
अम्लपित्ते तु वमनं पटोलारिष्टवारिणा । कारयेन्मदनक्षौद्रसिन्धुयुक्तं ततो भिषक्‍ ॥ विरेचनं त्रिवृच्चूर्णं मधुना त्रिफलाद्रवै: ॥१॥
कृतवमनविरेकस्यापि दोषोपशान्तिर्भवति न यदि कार्यो रक्तमोक्षश्च युक्त्या । कृतशिशिरविलेपस्याम्लपित्तघ्नभक्ष्यौदनसमुदिततृप्तेर्वातरक्षा च कार्या ॥२॥
अथ लक्ष्मणोत्सवात्‍ ॥ ज्वलन्तमिव चात्मानं मन्यते योऽम्लपित्तवान्‍ । तस्य संशोधनं पूर्वं कार्यं पश्चाच्च भेषजम्‍ ॥१॥
पूर्वं तु वमनं कार्यं पश्चान्मृदु विरेचनम्‍ । कृतवान्तिविरेकस्य सुस्निग्धस्यानुवासनम्‍ ॥२॥
आस्थापनं चिरोत्थेऽस्मिन्‍ देयं दोषाद्यपेक्षया । दोषसंससर्गजे कार्यमौषधाहारकल्पनम्‍ ॥३॥
ऊर्ध्वदेहस्थितं वान्त्याप्यधस्थं रेचनैर्हरेत्‍ । पाचनं तिक्तबहलं पथ्यं च परिकल्पयेत्‍ ॥४॥
विकारान्यवगोधूमकृतांस्तीक्ष्णाविवर्जितान्‍ । भक्षयेल्लाजसक्तूंश्च सिताक्षौद्रयुतान्‍ पिबेत्‍ ॥५॥
अथ वृन्दात्‍ ॥ अम्लपित्ते प्रयोक्तव्य: कफपित्तहरो विधि: । गुडकूष्माण्डकं चैव तथा खण्डामलक्यपि ॥१॥
गुडक्षीरकणासिद्धं सर्पिरत्र प्रयोजयेत्‍ । सवाते सविबन्धेऽस्मिन्हिता कंसहरीतकी ॥२॥
॥ अथ क्वाथा: ॥ यवकृष्णापटोलानां क्वाथ: क्षौद्रयुतं पिबेत्‍ । नाशयेदम्लपित्तं च ह्यरुचिं च वमिं तथा ॥१॥
निस्तुषयवृषधात्रीक्वाथं त्रिसुगन्धि मधुयुतं पीत्वा । अपहरति चाम्लपित्तं यदि भुड्क्ते मुद्गयूषेण ॥२॥
गुडूचीचित्रकारिष्टपटोलै: कथितम्पिबेत्‍ । क्षौद्रयुतं निहन्त्येतच्छर्दि पित्ताम्लसम्भवाम्‍ ॥३॥
भूनिम्बनिम्बत्रिफलापटोलवासामृतापर्पटमार्कवाणाम्‍ । क्वाथो हरेत्क्षौद्रयुतो‍ऽम्लपित्तं चित्तं यथा वारवधूकटाक्ष: ॥४॥
पटोलत्रिफलानिम्बक्वाथं क्षौद्रयुतं म्पिबेत्‍ । अम्लपित्तज्वरं छर्दिदाहशूलकफान्वितम्‍ ॥५॥
कण्टकार्यमृतावासाकषायं मधुसंयुतम्‍ । अम्लपित्तं जयेत्पीत्वा श्वासं कासं वर्मि ज्वरम्‍ ॥६॥
चित्रकैरण्डमूलानि यवाश्च सयवासक: । जलेन क्वथितं पीतं कोष्ठदाहाम्लपित्तजित्‍ ॥७॥
अथैलादिचूर्णम्‍ ॥ एलागुगाचोचशिवाभयानां सग्रन्थिपाटीरदलाल्लकानाम्‍ । चूर्णं सितातुल्यमपाकरोति प्रौढाम्लपित्तं दिवसास्यभुक्तम्‍ ॥१॥
अथ त्रिकटुकाद्यं चूर्णं लेहश्च ॥ त्रिकटुकसकण्टकारीपर्पटवारिकुटजबीजानाम्‍ । सौराष्ट्रिकापटोलीत्रायन्तीदारुमूर्वाणाम्‍ ॥१॥
तिक्तामृणालमलयजकलिड्गकैलाकिराततिक्तानाम्‍ । सवचातिविषाकेसरदेप्यकमधुशियुबीजानाम्‍ ॥२॥
चूर्णं पटघृष्टमिदं पीतं शिशिरेण वारिणा प्रात: । क्षौद्रेण चाथ लीढं प्रायेणाधोगतं हन्ति ॥ अतिविषमम्लपित्तं पथ्यभुजो वासरै: कैश्चित्‍ ॥३॥
॥ अथ द्राक्षादिगुटिका ॥ द्राक्षापथ्ये समे कृत्वा तयोस्तुल्यां सितां क्षिपेत्‍ । सड्कुट्याक्षद्वयमितां तत्पिण्डीं कारयेद्भिषक्‍ ॥१॥
तां खादेदम्लपित्तार्तो हृत्कण्ठदहनापहम‍ । तृणमूर्च्छाभ्रमन्दाग्निनाशिनीमामवातहाम्‍ ॥२॥
अथाभयाद्यवलेह: ॥ अभया पिप्पली द्राक्षा सिता धन्वयवासकम्‍ । मधुना कण्ठहृद्दाहमूर्च्छाश्लेष्माम्लपित्तनुत्‍ ॥१॥
अथ खण्डपिप्पल्यवलेह: ॥ योगरत्नावल्या: ॥ पिप्पल्या: कुडवं चूर्णं घृतस्य कुडवद्बयम्‍ पलषोडशकं खण्डाच्छतावर्या: पलाष्टकम्‍ ॥१॥
शिवाया: स्वरसस्यापि पलषोडशकं मतम्‍ । क्षीरप्रस्थद्वये साध्ये लेहीभूतेऽत्र निक्षिपेत्‍ ॥२॥
त्रिजातकाभयाजाजीधान्यमुस्तशिवातुगा: । एतेषां कार्षिकं चूर्णं कर्षार्धं कृष्णजीरकम्‍ ॥३॥
नागरं नागकं जातीफलं समरिचं हिमम‍ । दत्वा पलत्रयं क्षौद्रं स्निग्धभाण्डे विनिक्षिपेत्‍ ॥४॥
प्रातर्यथाबलं लिह्यादम्लपित्तप्रशान्तये । हृल्लासारोचकच्छर्दिपिपासादाहनाशनम्‍ । शूलहृद्रोगशमनं हृद्यं चेदं रसायनम्‍ ॥५॥
अथ नारिकेलखण्डपाक: ॥ योगरत्नावल्या: ॥ कुडवमितमिह स्यान्नारिकेलं सुपिष्टं पलपरिमितसर्पिष्पाचितं तुल्यखण्डम्‍ । निजपयसि तदेतत्प्रस्थमात्रे विपक्वं गुडवदथ सुशीते शाणमात्रं क्षिपेच्च ॥१॥
धान्याकपिप्पलिपयोदतुगाद्विजीरै: साकं त्रिजातमिभकेसरवद्विचूर्ण्य । हन्त्यम्लपित्तमरुचिं क्षयमस्त्रपित्तं शूलं वमिं सकलपौरुषकारि पुंसाम्‍ ॥२॥
अथ गुडाद्यो मोदक: ॥ गुडपिप्पलिपथ्याभिस्तुल्याभिर्मोदक: कृत: । पित्तश्लेष्महर: प्रोक्तो मन्दाग्नित्वं च नाशयेत्‍ ॥१॥
अथ खण्डकूष्माण्ड: ॥ कूष्माण्डस्य रसो ग्राह्य: पलानां शतमात्रक: । रसतुल्यं गवां क्षीरं धात्रीचूर्णं पलाष्टकम्‍ ॥१॥
लघ्वग्निना पचेत्तावद्यावद्भवति पिण्डितम्‍ । धात्रीतुल्या सिता योज्या पलार्धं लेहयेदनु ॥ खण्डकूष्माण्डकं ख्यातमम्लपित्तं नियच्छति ॥२॥
अथ मधुपिप्पल्यादियोग: ॥ पिप्पली मधुसंयुक्ता अम्लपित्तविनाशिनी । जम्बीरस्वरस: पीत: सायं हन्त्यम्लपित्तकम्‍ ॥१॥
अथ पिप्पलीघृतम्‍ ॥ पिप्पलीक्वाथकल्केन घृतं सिद्धं मधुप्लुतम्‍ । पिबेत्प्रात: समुत्थाय अम्लपित्तनिवृत्तये ॥१॥
अथ द्राक्षादिघृतम्‍ ॥ द्राक्षाभयाशक्रपटोलपत्रै: सोशीरधात्रीयवचन्दनैश्च । त्रायन्तिकापद्मकिरातधान्यै: कल्कै: पचेत्सर्पिरुपेतमेभि: ॥१॥
भुञ्जीत मात्रां सह भोजनेन सर्वं तु पाने ह्यमृतोपमं च ॥२॥
अथ शतावरीघृतम्‍ ॥ शतावरीमूलकल्के घृतं प्रस्थं पय:समम्‍ । पचेन्मृद्वग्निना सम्यक्‍ क्षीरं दत्वा चतुर्गुणम्‍ ॥१॥
नाशयेदम्लपित्तं च वातपित्तोद्भवान्‍ गदान्‍ । रक्तपित्तं तृषां मूर्च्छां श्वासं संतापमेव च ॥ अथ नारायणघृतम्‍ ॥ जले दशगुणे क्वाथ्यं पिप्पलीनां पलाष्टकम्‍ । पादशेषं हरेत्काथं क्वाथतुल्यं घृतं क्षिपेत्‍ ॥१॥
अम्लपित्तहरं श्रेष्ठं घृतं नारायणं महत्‍ । गुडक्षीरकणासिद्धं सर्पिश्चात्रापि योजयेत्‍ ॥२॥
अथ रसा आरभ्यन्ते ॥ तत्रादौ लीलाविलासो रस: ॥ शुद्धसूतं समं गन्धं मृतताम्राभ्ररोचनम्‍ । तुल्यांशं मर्दयेद्यामं रुद्‍ध्वा लघुपुटे पचेत्‍ ॥१॥
अक्षधात्री हरीतक्य: क्रमवृद्ध्या विपाचयेत्‍ । जलेनाष्टगुणेनैव ग्राह्यमष्टावशेषकम्‍ ॥२॥
अनेन भावयेत्पूर्वं पक्वसूतं पुन: पुन: । पञ्चविंशतिवारं च तावता भृड्गजद्रवै: ॥३॥
शुष्कं तच्चूर्णितं खादेत्पञ्चगुञ्जमधुप्लुतम्‍ । रसो लीलाविलासोऽयमम्लपित्तं नियच्छति ॥४॥
इति लीलाविलासो रसो वृन्दात्‍ ॥ अथ रसामृतम्‍ ॥ त्रिकटु त्रिफला मुस्ता विडड्गश्चित्रकं तथा । एषां सञ्चूर्णितानां तु प्रत्येकं तु पलं भवेत्‍ ॥१॥
कर्षद्वयं गन्धकस्य तदर्धं पारदस्य च । बिडालपदमात्रं तु लिह्यात्तन्मधुसर्पिषा ॥२॥
शीतोदकं चानुपिबेत्क्रमाद्‍ गव्यं पयस्तथा । अम्लपित्तमग्निमान्द्यं परिणामरुजं तथा । कामलां पाण्डुरोगं च हन्यादेतद्गसामृतम्‍ ॥३॥
इति रसामृतम्‍ ॥ अथ सूतशेखररस: ॥ सारसड्ग्रहात्‍ ॥ शुद्धं सूतं मृतं स्वर्णं टड्कणं वत्सनागकम्‍ । व्योषमुन्मत्तबीजं च गन्धकं ताम्रभस्मकम्‍ ॥१॥
चातुर्जातं शड्खभस्म बिल्वमज्जा कचोरकम्‍ । सर्वं समं क्षिपेत्खल्वे मर्द्यं भृड्गरसैर्दिनम्‍ ॥२॥
गुञ्जामात्रां वटीं कृत्वा द्विगुञ्जे मधुसर्पिषी । भक्षयेदम्लपित्तघ्नो वान्तिशूलामयापह: ॥३॥
पञ्च गुल्मान्पञ्च कासान्‍  ग्रहण्यामयनाशन: । त्रिदोषोत्थातिसारघ्न: श्वासमन्दाग्निनाशन: ॥४॥
उग्रहिक्कामुदावर्तं देहयाप्यगदापह: । मण्डलान्नात्र सन्देह: सर्वरोगहर: पर: ॥ राजयक्ष्महर: साक्षाद्रसोऽयं सूतशेखर: ॥५॥
इति सूतशेखरो रस: ॥ अथ पथ्यापथ्यम्‍ ॥ यवगोधूममुद्गाश्च पुराणा रक्तशालय: । जलानि तप्तशीतानि शर्करा मधु सक्तव: ॥१॥
कर्कोटकं कारवेल्लं रम्भापुष्पं च वास्तुकम्‍ । वेत्राग्रं वृद्धकूष्माण्डं पटोलं दाडिमं तथा ॥२॥
पानान्नानि समस्तानि कफपित्तहराणि च । अम्लपित्तामये नित्यं सेवितव्यानि मानवै: ॥३॥
वमिवेगं तिलान्माषान्कुलत्थांस्तिलभक्षणम्‍ । अविदुग्धं च धान्याम्लं लवणाम्लकटूनि च ॥ गुर्वन्नं दधि मद्यं च वर्जयेदम्लपित्तवान्‍ ॥४॥
इत्यम्लपित्तचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T20:08:25.4900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

stratigraphic unconformity

  • स्तारिक अभिविसंगति 
RANDOM WORD

Did you know?

आषाढी एकादशीला "देवशयनी एकादशी" का म्हणतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.