संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ भग्नव्रणनिदानमाह ॥

॥ अथ भग्नव्रणनिदानमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ भग्नव्रणनिदानमाह ॥
भग्नं समासाद्विविधं हुताश काण्डे च सन्धौ च हि तत्र सन्धौ । उत्पिष्टविश्लिष्टविवर्तितं च तिर्यक्प्रतिक्षिप्तमधश्च षोढा ॥
प्रसारणाकुञ्चनवर्तनोप्रारुकस्पर्शविद्वेषणमेतदुक्तम्‍ ॥१॥
सामान्यत: सन्धिगतस्य लिड्गमुत्पिष्टसन्धे: श्वयथु: समन्तात्‍ । विशेषतो रात्रिभवा रुजश्च विश्लिष्टजे तौ च रुजा च नित्यम्‍ ॥२॥
विवर्तिते पार्श्वरुजश्च तीव्रास्तिर्यग्गते तीव्ररुजो भवन्ति । क्षिप्तेऽतिशूलं विषमं च सकथ्रो: क्षिप्ते त्वधोरुग्विघटश्च सन्धे: ॥३॥
काण्डे त्वध: कर्कटकाश्च कर्णविचूर्णितं पिच्चितमस्थिछल्लितं च । काण्डेषु भग्नं ह्यतिपातितं च मजागतं च स्फुटितं च वक्रम्‍ ॥४॥
छिन्नं द्विधा द्वादशधा च काण्डे स्त्रस्ताड्गता शोथरुजातिवृद्धि:  । संपीड्यमाने भवतीह शब्द: स्पर्शासहस्यन्दनतोदशूल: ॥५॥
सर्वास्ववस्थासु न शर्मलाभो भग्नस्य काण्डे खलु चिह्नमेतत्‍ । भग्नं तु काण्डे बहुधा प्रयाति समासतो नामभिरेव तुल्यम्‍ ॥६॥
अल्पाशिनोऽ‍नात्मवतो जन्तोर्वातात्मकस्य च । उपद्रवैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ॥७॥
भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम्‍ । जघनं प्रतिपिष्टं तु वर्जयेच्च विचक्षण: ॥८॥
असंश्लिष्टं कपालं च ललाटे चूर्णितं च यत्‍ । भग्नं स्तनान्तरे शड्खे पृष्ठे मूर्धि च वर्जयेत्‍ ॥९॥
सम्यक्‍ संहितमप्यस्थि दुर्निक्षेपनिबन्धनात्‍ । संक्षोभाद्वापि यद्‍ गच्छेद्विक्रियां तच्च वर्जयेत्‍ ॥१०॥
तरुणास्थीनि नाम्यन्ते भिद्यते नलकानि तु । कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च ॥११॥
इति भग्नव्रणनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
भग्नान्युपचरेद्धीमान्सेकलेपनबन्धनै: । शीतलैरेव विविधै: प्रयोगैश्च समीरितै: ॥१॥
तत्रातिशिथिले बन्धे सन्धिस्थैर्यं न जायते । गाढेनापि त्वगादीनां शोफो रुक्याक एव च ॥२॥
तस्मात्साधारणं बन्धं भग्ने शंसन्ति तद्विद: । आदौ भग्नं विदित्वा तु सेचयेच्छीतलाम्बुना ॥३॥
पड्केनालेपनं कुर्याब्दन्धनं च कुशान्वितम्‍ । अवनामितमुन्त्राम्येदुन्नतं चावडीपयत्‍ ॥४॥
क्षिप्तं द्विधापि च स्थाने संस्थाप्य विधिमाचरेत्‍ । आलेपनार्थं मञ्जिष्ठामधुकं चाम्लपेषितम्‍ ॥५॥
शतधौतघृतोन्मिश्रंशालिपिष्टं च लेपनम्‍ । न्यग्रोधादिकषायं तु शीतलं परिषेचने ॥६॥
पञ्चमूलीविपक्वं तु क्षीरं दद्यात्सवेदने । मूलं शृगालच्छिन्नाया: पीत्वा मांसरसेन तु ॥७॥
चूर्णीकृत्य तु सप्ताहादस्थिभड्गमपोहति । आभाचूर्णं मधुयुतमस्थिभड्गे त्र्यहं पिबेत्‍ ॥८॥
पीत्वा चास्थि भवेत्सम्यग्‍ वज्रसारनिभं दृढम्‍ । गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्‍ ॥९॥
शीतलं लाक्षया युक्तं प्रातर्भग्ने पिबेन्नर: । सघृतं चास्थिसन्धानं लाक्षागोधूममर्जुनम्‍ ॥१०॥
सन्धिमुक्तेऽस्थिभग्ने च पिबेत्क्षीरेण मानव: । रसोनमधुलाक्षाज्यसिताकल्कं सुमिश्रितम्‍ ॥
छिन्नभिन्नच्युतास्थीनां सन्धानमचिराद्भवेत्‍ ॥११॥
अथ लाक्षागुग्गुलु: ॥ लाक्षास्थिसंहृत्ककुभाश्वगन्धाश्चूर्णीकृता नागबला: पुरश्च । सम्भग्नमुक्तास्थिरुजं निहन्यादड्गानि कुर्यात्कुलिशोपमानि ॥१॥
सव्रणस्य तु भग्नस्य व्रण: सर्पिर्मधूत्तरै: । प्रतिसार्य: कषायैस्तु शेषं भग्नवदाचरेत्‍ ॥ वातव्याधिविनिर्दिष्टं स्नेहं तत्रापि योजयेत्‍ ॥२॥
अथ वल्लिजभस्मादि ॥ वल्लिजं भस्म मधुना पातव्यं हितभोजिना । सन्धिभड्गेऽस्थिभड्गे च विशेषेण प्रशस्यते ॥१॥
॥ अथाभाद्यो गुग्गुलु: ॥ आभाफलत्रिकव्योषै: सर्वैरेतै: समांशकै: । तुल्यं गुग्गुलुना योज्यं भग्नसन्धिप्रसाधकम्‍ ॥१॥
अथ गोधूमप्रयोग: ॥ ईषद्विदग्धगोधूमचूर्णं पीतं समाक्षिकम्‍ । कटिसन्धिषु भग्नेषु भुग्रेवस्थिषु पूजितम्‍ ॥१॥
अविदाहिभिरन्नैश्च पिष्टकै: समुपाचरेत्‍ । मांसं मांसरसं क्षीरं सर्पिर्यूषं च मुद्गजम्‍ ॥२॥
बृंहणं चान्नपानं च सन्धिभग्नाय दापयेत्‍ । लवणं कटुकं क्षारं साम्लं मैथुनमातपम्‍ ॥३॥
व्यायामं च न सेवेत भग्नौ रुक्षान्नमेव च । बालानां तरूणानां च भग्नान्याशु भवन्ति वै ॥
समीचीनानि वृद्धानां भग्नानां न विशेषत: ॥४॥
इति भग्ननिदानचिकित्सा ॥

N/A

References : N/A
Last Updated : March 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP