TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथोरग्रहनिदानम् ॥

॥ अथोरग्रहनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथोरग्रहनिदानम् ॥
॥ अथोरग्रहनिदानम्‍ ॥
अत्यभिष्यन्दिगुर्वन्नशुष्कपूत्यामिषाशनात्‍ । सास्त्रं मांसं यकृत्प्लीन्हो: सद्यो वृद्धिं यदा गतम्‍ ॥१॥
उरोग्रहं तदा कुक्षौ कुरुत: कफमारुतौ । सस्तम्भं सज्वरं घोरं रुक्षं स्पर्शांसहं गुरुम्‍ ॥२॥
आध्मानं कुक्षिहृत्कण्ठे वातविण्मूत्ररोधता: तन्द्रारोचकशूलानि तस्य लिड्गानि निर्किशेत्‍ ॥३॥
इत्युरोग्रहनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
अत्राशु स्वेदनं युक्त्या वमनं रक्तमोक्षणम्‍ । तीक्ष्णैर्निरुहणं चैकं क्र्माल्लड्घतमाचरेत्‍ ॥१॥
पुत्रजीवकशिग्रुत्वकसूर्यावर्तबलोद्भवा: । रसा पकैकश: कोष्णाद्विशो वा रामठाश्रिता: ॥२॥
सपञ्चलवणा: पयास्त्रिवृद्‍गुडसुकल्किता: । तन्निवृत्तौ यथालाभं मूत्रतैलसुरासवै: ॥३॥
चव्याम्लवेतसक्षारसरामठसचित्रकान्‍ । पिबेत्तैलारना लाभ्यामुरोग्रहनिवृत्तये ॥४॥
यो वा नरस्यात्र कृतस्य कर्मणो विधिर्विरुद्धो न भवेन्मनागपि । यथाबलं वीक्ष्य च शुद्धविग्रहं तथाविधं पथ्यमपि प्रयोजयेत्‍ ॥५॥
इत्युरोग्रहचिकित्सा श्रीहरिश्चन्द्रस्य ॥

॥ अथातो मूत्रकृच्छ्रनिदानम्‍ ॥
व्यायामतीक्ष्णौषधरुक्षमद्यप्रसड्गनृत्यद्रुतपृष्ठयानात्‍ । आनूपमत्स्याध्यशनादजीर्णात्स्युर्मूत्रकृच्छ्राणि नृणामिहाष्टौ ॥१॥
अथ तस्य सम्प्राप्तिमाह ॥ पृथड्गमला: स्वै: कुपिता निदानै: सर्वेऽथवा कोपमुपेत्य वस्तौ । मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात्‍ ॥१॥
अथ वातजमाह ॥ तीव्रा हि रुग्वड्क्षणवस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात्‍ ॥१॥
अथ पित्तजमाह ॥ पीतं सरक्तं सरुजं सदाहं कृच्छ्रं मुहुर्मूत्रयतीह पित्तात्‍ ॥१॥
अथ श्लैष्मिकमाह ॥ बस्ते: सलिड्गस्य गुरुत्वशोफौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे ॥१॥
अथ त्रिदोषजमाह ॥ सर्वाणि रुपाणि च सन्निपाताद्भवन्ति तक्कृच्छ्र्तमं हि कृच्छम्‍ ॥१॥
अथ शल्यजमाह ॥ मूत्रवाहिषु शल्येन क्षतेष्वाभिहतेषु च । मूत्रकृच्छ्रं तदाघाताज्जायते भृशवेदनम्‍ ॥ वातकृच्छ्रेण तुल्यानि तस्य लिड्गानि निर्दिशेत्‍ ॥१॥
अथ शुक्रजमाह ॥ शुक्रदोषैरुपहते मूत्रमार्गे विधारिते । सशुक्रं मूत्रयेत्कृच्छ्राद्वस्तिमेहनशूलवान्‍ ॥१॥
अथावान्तरभेदमाह ॥ अश्मरी शर्करा चैव तुल्यसंभवलक्षणे । शर्कराया विशेषं तु शृणु कीर्तयतो मम ॥१॥
पच्यमानाश्मरी पित्ताच्छोष्यमाणा च वायुना । विमुक्तकफसंधाना क्षरन्ती शर्करा मता ॥२॥
त्दृपीडा वेपथु: शूलं कुक्षौ वह्निश्च दुर्बल: । तथा भवति मूर्च्छा च मूत्रकृच्छ्रं च दारुणम्‍ ॥३॥
इति मूत्रकृच्छ्र्निदानम्‍ ॥

॥ अथ मूत्रकृच्छूचिकित्सा ॥
अथादौ वातमूत्रकृच्छ्रम्‍ ॥ अभ्यञ्जनस्नेहनिरुहवस्तिस्वेदोपनाहोत्तरवस्तिसेकान्‍ । स्थिरादिभिर्वातहरैश्च सिद्धान्दद्याद्रसांश्चानिलमूत्रकृच्छ्रे ॥१॥
अमृता नागरं धात्री वाजिगन्धा त्रिकण्टकम्‍ । निष्क्वाथ्य प्रपिबेत्क्वाथं मूत्रकृच्छ्रे समीरजं ॥२॥
इति वातकृच्छ्रम्‍ ॥

॥ अथ पित्तकृच्छ्रम्‍ ॥
सेकावगाहा: शिशिरप्रदेहा: श्रेष्ठो विधिर्वस्तिपयोविरेका: । द्राक्षाविदारीक्षुरसैर्वृतं च कृच्छ्रेषु पित्तप्रभवेषु कार्या: ॥१॥
अथ तृणपञ्चमूलक्वाथपयसी ॥ कुश: काश: शरो दर्भ इक्षुश्चेति तृणोद्भवम्‍ । पित्तकृच्छ्र्हरं पञ्चमूलं वस्तिविशोधनम्‍ ॥ एतत्सिद्धं पय: पीतं मेढ्रगं हन्ति शोणितम्‍ ॥१॥
अथ शतावर्यादिक्वाथ: ॥ शतावरीकाशकुशश्वदंष्ट्राविदारिशालीक्षुकसेरुकाणाम्‍ ॥ क्वाथं सुशीतं मधुशर्कराभ्यां युक्तं पिबेत्पैत्तिकमूत्रकृच्छ्रे ॥१॥
अथ हरीतक्यादिक्वाथ: ॥ हरीतकीगोक्षुरराजवृक्षपाषाणभिद्भन्वयवासकानाम्‍ । क्वाथं पिबेन्माक्षिकसंप्रयुक्तं कृच्छ्रे सदाहे सरुजे विबन्धे  ॥१॥
अथोर्वारुकबीजयोग: ॥ उर्वारुबीजं मधुकं सदार्वि पित्ते पिबेत्तण्डुलधावनेन । दार्वी तथैवामलकीरसेन समाक्षिकां पित्तकृतेऽथ कृच्छ्रे ॥१॥
अथ वृन्दात्मन्थादियोग: ॥ मन्थं पिबेद्वा ससितं ससर्पि: शृतं पयो वार्धसिताप्रयुक्तम्‍ । धात्रीरसं चेक्षुरसं पिबेद्वा कृच्छ्रे सरक्ते मधुना विमिश्रम्‍ ॥१॥
अथ द्राक्षादि ॥ द्राक्षासितोपलाकल्कं कृच्छ्र्घ्नं मस्तुना युतम्‍ । पिबेद्वा कामत: क्षीरमुष्णं गुडसमन्वितम्‍ ॥१॥
अथ वृन्दान्नारिकेलादि ॥ नारिकेलजलं योज्यं गुडधान्यसमन्वितम्‍ । सदाहं मूत्रकृच्छ्रं च रक्तपित्तं निहन्ति च ॥१॥
अन्यच्च ॥ रक्तस्य नारिकेलस्य जलं कतकसंयुतम्‍ । शर्करैलासमायुक्तं मूत्रकृच्छ्रहरं विदु: ॥१॥
अथ शतावर्यादिसर्पि: ॥ शतावरीकाशकुशश्वदंष्ट्राविदारिकेक्ष्वामलकल्कसिद्धम्‍ । सर्पि: पयो वा सितया विमिश्रं कॄच्छ्रेषु पित्तप्रभवेषु योज्यम्‍ ॥१॥
इति पित्तकृच्छ्रम्‍ ॥

॥ अथ श्लेष्मकृच्छ्रम्‍ ॥
क्षारोष्णतीक्ष्णौषधमन्नपानं स्वेदो यवान्नं वमनं निरुह: । तक्रं च तिक्तोषणसिद्धतैलं बस्तिश्च शस्त: कफमूत्रकृच्छ्रे ॥१॥
अथ मूत्रादियोग: ॥ मूत्रेण सुरया वापि कदलीस्वरसेन वा । कफकृच्छ्रविनाशाय सूक्ष्मां पिष्ट्वा तृटिं पिबेत्‍ ॥१॥
अथ तक्रादियोगो वृन्दात्‍ ॥ तक्रेण युक्तं सितवारुणस्य बीजं पिबेत्कृच्छ्रविघातहेतो: । पिबेत्तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे ॥१॥
इति श्लेष्मकृच्छ्रम्‍ ॥

॥ अथ त्रिदोषकृच्छ्रम्‍ ॥
सर्वं त्रिदोषप्रभवे तु कृच्छ्रे यथाबलं कर्म समीक्ष्य कार्यम्‍ । तत्राधिके प्राग्वमनं कफे स्यात्पित्ते विरेक: पवने तु वस्ति: ॥१॥
अथ बृहत्यादिक्वाथ: ॥ बृहतीधावनीपाठायष्टीमधुकलिड्गकान्‍ । पक्त्वा क्वाथं पिबेन्मर्त्य: कृच्छ्रे दोषत्रयोद्भवे ॥१॥
अथ शतावर्यादिक्वाथ: ॥ शतावर्यास्तु मूलानां निष्क्वाथ: ससितामधु: । मूत्रदोषं निहन्त्याश्च वातपित्तकफोद्भवम्‍ ॥१॥
अथ गुडगुग्धयोग: ॥ गुडेन मिश्रितं दुग्धं कदुष्णं कामत: पिबेत्‍ । मूत्रकृच्छ्रेषु सर्वेषु शर्करावातरोगनुत्‍ ॥१॥
इति त्रिदोषजमूत्रकृच्छ्र्म्‍ ॥

॥ अथाभिघातमूत्रकृच्छ्रम्‍ ॥
मूत्रकृच्छ्रेऽभिघातोत्थे वातकृच्छ्रक्रिया हिता । पञ्चवल्कलमृल्लेष: कवोष्णोऽत्र प्रशस्यते ॥१॥
अथ मन्थादियोग: ॥ मन्थं पिबेद्वा ससितं ससर्पि: शृतं पयो वार्धसिताप्रयुक्तम्‍ । धात्रीरसं चेक्षुरसं पिबेद्वाभिघातकृच्छ्रे मधुना विमिश्रम्‍ ॥१॥

॥ अथ शुक्रविबन्धजकृच्छ्रम्‍ ॥
कृच्छ्रे शुक्रविबन्धोत्थे शिलाजतुसमाक्षिकम्‍ । सक्षीरं ससितं सर्पिर्मन्तव्यं प्रपिबेन्नर: ॥१॥
शुक्रदोषविशुद्ध्यर्थं समदां प्रमदां श्रयेत्‍ । तृणपञ्चकमूलेन सिद्धं सर्पि: पिबेदपि ॥२॥
लेह: शुक्रविबन्धोत्थे शिलाजतुसमाक्षिक: । बलाहिड्गुयुतं क्षीरं सर्पिर्मिश्रं पिबेन्नर: ॥ मूत्रादोषविशुद्ध्यर्थं शुक्रदोषहरं परम्‍ ॥ इति वृन्दात्‍ ॥

॥ अथ शकृद्दिघातजं कृच्छ्र्म्‍ ॥
स्वेदचूर्णक्रियाभ्यड्गबस्तय: स्यु: पुरीषजे । कृच्छ्रे तत्र विधि: कार्य: सर्व: शुक्रविबन्धजित्‍ ॥१॥
अथ गोक्षुरादिक्वाथ: ॥ क्वाथो गोक्षुरबीजानां यवक्षारयुत: सदा । मूत्रकृच्छ्रं शकृज्जातं पीत: शीघ्रं निवारयेत्‍ ॥१॥
इति शकृद्विघातजं कृच्छ्रम्‍ ॥

॥ अथाश्मरीजं कृच्छ्रम्‍ ॥
अश्मरीजे मूत्रकृच्छ्रे स्वेदाद्या वातजित्‍ क्रिया । पाषाणभेदक्काथस्तु कृच्छ्रमश्मरीजं जयेत्‍ ॥१॥
अथैलादि ॥ एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुबुकै: । शृतं पिबेदश्मजतुप्रगाढं सशर्करं साश्मरिमूत्रकृच्छ्रे ॥१॥
इत्यश्मरीजं कृच्छ्रम्‍ ॥

॥ अथ सामान्यविधि: ॥
अथ त्रिकण्टकादिक्वाथ: ॥ गदनिग्रहात्‍ ॥ त्रिकण्टकारग्वधदर्भकाशदुरालभापर्पटभेदपथ्या: । निघ्नन्ति पीता मधुनाश्मरीकां सम्प्राप्तमृत्योरपि मूत्रकृच्छ्रम्‍ ॥१॥
अथ पाषाणभेदादि: ॥ पाषाणभेदस्त्रिवृता च पथ्या दुरालभा पुष्करगोक्षुरं च । पलाशशृड्गाटककर्कटीजबीजं कषाय: सुनिरुद्धमूत्रे ॥१॥
अथ समूलगोक्षुरादि: ॥ समूलगोक्षुरक्वाथ: सितामाक्षिकसंयुत: । नाशयेन्मूत्रकृच्छ्राणि तथा चोष्णसमीरणम्‍ ॥१॥
अथ यवादिर्वृन्दात्‍ ॥ यवोरुबूकस्तृणपञ्चमूलीपाषाणभेदै: सशतावरीभि: । कृच्छ्रेषु गुल्मेष्वभयाविमिश्रै: कृत: कषायो गुडसम्प्रयुक्त: ॥१॥
अथैलादियोग: ॥ एलाश्मभेदकशिलाजतुपिप्पलीनां चूर्णानि तण्डुलजलैर्लुलितानि पीत्वा । यद्वा गुडेन सहितान्यवलेह्य धीमानासन्नमृत्यूरपि जीवति मूत्रकृच्छ्री ॥१॥

अथ क्षाराणां प्रयोग: ॥ अड्लोलतिलकाष्ठानां क्षार: क्षौद्रेण संयुत: । दधिवार्यनुपानेन मूत्ररोधं नियच्छति ॥१॥
सितातुल्यो यवक्षार: सर्वकृच्छनिवारण: । निदिग्धिकारसो वापि सक्षौद्र: कृच्छ्रनाशन: ॥२॥
यवक्षारसमायुक्तं पिबेत्तक्रं च कामत: । मूत्रकृच्छ्रविनाशाय तथैवाश्मरिनाशनम्‍ ॥३॥
माषमेकं यवक्षारं कूष्माण्डस्वरसं पलम्‍ । शर्कराकर्षसंयुक्तं मूत्रकृच्छ्रनिवारणम्‍ ॥४॥
अथ वृन्दाद्दाडिमादियोग: ॥ दाडिमाम्लयुतां हृद्यां शुण्ठीजीरकसंयुताम्‍ । पीत्वा सुरां सलवणां मूत्रकृच्छ्रात्प्रमुच्यते ॥१॥
अथोर्वारुबीजकल्कं वृन्दात्‍ ॥ उर्वारुबीजकल्कं च श्लक्ष्णं पिष्ट्वाक्षसम्मितम्‍ । धान्याम्ललवणै: पेयं मूत्रकृच्छ्रविनाशनम्‍ ॥१॥
अथ त्रिफलादिकल्क: ॥ त्रिफलाया: सुपिष्टाया: कल्कं कोलसमन्वितम्‍ । वारिणा लवणीकृत्य पिबेन्मूत्ररुजापहम्‍ ॥१॥
अथैलादि: ॥ पिबेन्मद्येन सूक्ष्मैलां धात्रीफलरसेन वा । शितिवारकबीजं वा तक्रे श्लक्ष्णं च चूर्णितम्‍ ॥१॥
॥ अथ हरिद्रादि: ॥ हरिद्रागुडकर्षैकं चारनालेन वा पिबेत्‍ । वन्ध्याकर्कोटिकाकन्दं भक्षेत्क्षौद्रसितायुतम्‍ ॥ अश्मरीं हन्ति नो चित्रं रहस्यं हि शिवोदितम्‍ ॥१॥
॥ अथ योगस्त्रारादेलादि । एलागोक्षुरयोश्चूर्णं शिशोर्देयं मधुप्लुप्तम्‍ । मूत्रकृच्छ्रापह: क्वाथ: पेयस्तन्मूलवारिणा ॥१॥
गोक्षूरजस्तथा क्वाथो यवक्षारयुत: शुभ: । सर्वकृच्छ्रविनाशाय शिलाजतुयुतोऽथ वा ॥२॥
अथ खर्जूरादिचूर्णम्‍ ॥ खर्जूरामलबीजाति पिप्प्पली च शिलाजतु । एलामधुकपाषाणं चन्दनोर्वारुबीजकम्‍ ॥१॥
धान्यकं शर्करायुक्तं पातव्यं ज्येष्ठवारिणा । अड्गदाहं लिड्गदाहं गुदवड्क्षणशुक्रजम्‍ ॥ शर्कराश्मरिशूलघ्नं बल्यं वृष्यकरं परम्‍ ॥२॥
अथेक्षुरसादियोग: ॥ भ्रष्टेक्षुस्वरसं ग्राह्यमाखुविड्‍विहितं पिबेत्‍ । नाशयेन्मूत्रकृच्छ्राणि सद्य एव न संशय: ॥१॥
॥ अथ कुटजयोग: ॥ पिष्ट्वा गोपयसा श्ल्क्ष्णं कुटजस्य त्वचं पिबेत्‍ । तेनोपशाम्यते क्षिप्रं मूत्रकृच्छ्रं सुदारुणम्‍ ॥१॥
अथ त्रिकण्टकाद्यं घृतम्‍ ॥ त्रिकण्टकैरण्डकुशाद्यभीरुकर्कारुकेक्षुस्वरसेन सिद्धम्‍ । सर्पिर्गुडार्धांशयुतं प्रपेयं कृच्छ्राश्मरीमूत्रविघातहारि ॥१॥
अथ शतावरीघृतम्‍ । घृतप्रस्थ शरावर्या रसस्यार्धाढकम्‍ पचेत्‍ । अजाक्षीरेण संयुक्तं चतुष्प्रस्थान्वितेन तु ॥१॥
द्विगोक्षुरामृतानन्ता कासकण्टकिनीरसान्‍ । कुडवार्धं पृथग्‍ दत्वा पिष्टैर्यष्टिकटुत्रयम्‍ ॥२॥
श्वदंष्ट्राफलिनीदुग्धाशिलाजत्वश्मभेदकै: । त्रिसुगन्धान्वितैरधर्पलांशै: सघृतं पुन: ॥३॥
शर्कराद्विपलोपेतं क्षौद्रपादसमन्वितम्‍ । हन्ति कृच्छ्राणि सर्वाणि मूत्रदोषाश्मशर्करा: ॥ सर्वकृच्छ्राणि हन्त्याशु एतच्छतावरीघृतम्‍ ॥४॥
अथ त्रिकण्टकादिगुग्गुलु: ॥ त्रिकण्टकानां क्वथितेऽष्टनिघ्ने पुरम्‍ पचेत्पाकविधानयुक्त्या । फलत्रिकव्योषपयोधराणां चूर्णं पुरेण प्रमितं प्रदद्यात्‍ ॥१॥
वटी प्रमेहं प्रदरं च मूत्राघातं च कृच्छ्रं च तथाश्मरीं च । शुक्रस्य दोषान्‍ सकलांश्च वातान्‍ निहन्ति मेघानिव वायुवेग: ॥२॥
अथ सेकलेपौ ॥ पिष्ट्वा श्वदंष्ट्राफलमूलिकाबिडैरुर्वांरुबीजानि सकाञ्जिकानि । आलिप्यमानानि समानि बस्तौ मूत्रस्य निष्यन्दकराणि सद्य: ॥१॥
वस्तावेरण्डतैलेन स्निग्धत्वे किंशुकस्तरा: । स्विन्नपुष्पै: प्रदं सेकं मूत्रकृच्छ्रोपशान्तये ॥२॥
कोष्णाखुविट्‍कल्कलेपो वस्तेरुपरि कृच्छ्रिण: । त्रपुसीबीजलेपो वा धारा वा किंशुकाम्भस: ॥३॥
ध्वजच्छ्रिद्रे चेन्दुदानं दानं वा चटाकाविश: । मेघनादशिफालेफ: स्वेदो वा कर्कटाम्भसा ॥४॥
पातो वा कोष्णतैलस्य धारा वा कोष्णवारिण: । नवैतेपादिका योगा मूत्रकृच्छ्रहरा मता: ॥५॥
अथ चन्द्रकलारस: संग्रहात्‍ ॥ प्रत्येकं कर्षमात्रं स्यात्सूतं ताम्रं तथाभ्रकम्‍ । द्विगुणं गन्धकं चैव कृत्वा कज्जलिकां शुभाम्‍ ॥१॥
मुस्तादाडिमदूर्वोत्थै: केतकीस्तनजद्र्वै: । सहदेव्या: कुमार्याश्च पर्पटस्य वारिणा ॥२॥
रामशीतालिकातोयै: शतावर्या रसेन च । भावयित्वा प्रयत्नेन दिवसे दिवसे पृथक्‍ ॥३॥
तिक्तागुडूचिकासत्वं पर्पटोशीरमाधवी । श्रीगन्धं सारिवा चैषां समानं सूक्ष्मचूर्णितम्‍ ॥४॥
द्राक्षाफलकषायेण सप्तधा परिभावयेत्‍ तत: पोताश्रयं कृत्वा वट्य: कार्याश्चणोपमा: ॥५॥
अयं चन्द्रकलानाम्ना रसेन्द्र: परिकीर्तित: । सेव्य: पित्तगदध्वंसी वातपित्तगदापह: ॥६॥
अन्तर्बाह्यमहादाहविध्वंसनमहाघन: । ग्रीष्मकाले शरत्काले विशेषेण प्रशस्यते ॥७॥
कुरुते नाग्निमान्द्यं च महातापं ज्वरं हरेत्‍ । भ्रममूर्च्छाहरश्चाशु स्त्रीणां रक्तं महास्त्रवम्‍ ॥८॥
ऊर्ध्वाधो रक्तपित्तं च रक्तावान्तिं विशेषत: । मूत्रकृच्छ्राणि सर्वाणि नाशयेन्नात्र संशय: ॥९॥
इति चन्द्रकलारस: ॥ अथ रसरत्नप्रदीपाल्लघुलोकेश्वरो रस: ॥ रसभस्म च भागैकं चत्वार: शुद्धगन्धकम्‍ । पिष्ट्वा वराटकान्पूर्याद्रसपादं च टड्कणम्‍ ॥१॥
क्षीरेण पिष्ट्वा रुद्‍ध्वास्यं भाण्डे रुद्‍ध्वा पुटे पचेत्‍ । स्वाड्गंशीतं विचूर्ण्याथ लघुलोकेश्वरो रस: ॥२॥
चतुर्गुञ्जो घृतर्देयो मरीचैकोनविंशति: । जातीमूलपलं चैकमजाक्षीरेण पाचयेत्‍ ॥ शर्कराभावितं चानु पीतं कृच्छ्रहरं परम्‍ ॥३॥
इति लघुलोकेश्वर: ॥ अथ वैक्रान्तगर्भनामा रस: ॥ सूतं स्वर्णं च वैक्रान्तं मृतं तुल्यं च मर्दयेत्‍ । चाण्डालीराक्षसीद्रावैर्द्वियामान्ते च गोलकम्‍ ॥१॥
शुष्कं रुद्‍ध्वा पुटे पाच्यं करीषाग्नौ महापुटे । माषैकं मधुना लेह्यं मूत्रकृच्छ्रप्रशान्तये ॥२॥
वैक्रान्तगर्भनामायं सर्वकृच्छ्रामयाञ्जयेत्‍ । अपामार्गस्य मूलं तु तक्रे पिष्ट्वानुपाययेत्‍ ॥३॥
इति वेक्रान्तगर्भरस: ॥ अथ लोहभस्मयोग: ॥ अयोभस्म श्लक्ष्णपिष्टं मधुना सह योजितम्‍ । मूत्रकृच्छ्रं निहन्त्याशु त्रिभिर्लेहैर्न संशय: ॥१॥
अथ रसादियोग: ॥ रसवल्लं यवक्षारं सितातक्रयुतं पिबेत्‍ । मूत्रकृच्छ्राण्यशेषाणि हन्यन्ते पानतो जवात्‍ ॥१॥

॥ अथ पथ्यापथ्यम्‍ ॥
पुरातना लोहितशालयश्च धन्वामिषं मुद्गरस: सिता च । तक्रं पयो गोश्च दधि प्रभूतं पुराणकूष्माण्डफलं पटोलम्‍ ॥१॥
उर्वारुखर्जूरकनारिकेलं तण्डूलियं चामलकं च सर्पि: । प्रतीरनीरं हिमवालुका च मित्रं नृणा स्यात्सति मूत्रकृच्छ्रे ॥२॥
मद्यं श्रमं निधुवनं गजवाजियानं सर्वं विरुद्धमशनं विशमाशनं च । ताम्बूलमत्स्यलवणार्द्रकतैलभृष्टं पिण्याकहिड्गुतिलसर्षपमूत्रवेगान्‍ ॥ माषान्‍ करीरमतितीक्ष्णाविदाहि रुक्षमम्लं प्रमुञ्चतु जन: सति मूत्रकृच्छ्रे ॥३॥
इति मूत्रकृच्छ्रचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-03T20:00:03.2400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

typewriting

  • न. टंकलेखन 
  • न. टंकलेखन 
RANDOM WORD

Did you know?

मृत माणसाच्या दहाव्याच्या पिंडाला कावळा न शिवल्यास धर्मशास्त्राप्रमाणे अन्य उपाय कोणता?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site