TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथातो हिक्कानिदानं व्याख्यास्याम: ॥

॥ अथातो हिक्कानिदानं व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथातो हिक्कानिदानं व्याख्यास्याम: ॥
॥ अथातो हिक्कानिदानं व्याख्यास्याम: ॥
विदाहिगुरिविष्टम्भिरुक्षाभिष्पन्दिभोजनै: । शीतपानाशनस्त्रानरजोधूमातपानिलै: ॥१॥
व्यायामकर्मभाराध्ववेगाघातापतर्पणै: । हिक्का श्वासश्च कासश्च नृणां समुपजायते ॥२॥

॥ अथ सम्म्प्राप्तिमाह ॥
मुहुर्मुहुर्वायुरुदेति सस्वनो यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्‍ । स घोषवानाशु हिनस्ति यस्मात्ततस्तु हिक्केत्यभिधीयते बुधै: ॥१॥
अथ तासां पूर्वरुपमाह ॥ कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता । हिक्कानां पूर्वरुपाणि कुक्षेराटोप एव च ॥१॥

॥ अथ तासां नामान्याह ॥
अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा । वायु: कफेनानुगत: पञ्च हिक्का: करोति हि ॥१॥

॥ अथान्नजालक्षणमाह ॥
पानान्नैरतिसम्भुक्तै: सहसा पीडितोऽनिल: । हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक्‍ ॥१॥

॥ अथ यमलामाह ॥
चिरेण यमलैर्वेगैर्या हिक्का सम्प्रवर्तते । कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत्‍ ॥१॥

॥ अथ क्षुद्रामाह ॥
विकृष्टकालैर्या वेगैर्मन्दै: समभिवर्तते । क्षुद्रिका नाम सा ज्ञेया सर्वगात्रप्रकम्पिनी ॥१॥

॥ अथ गम्भीरामाह ॥
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी । अनेकोपद्रववती गम्भीरा नामसा स्मृता ॥१॥

॥ अथ महतीमाह ॥
मर्माण्यापीडयन्तीव सततं या प्रवर्तते । महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी ॥१॥

॥ अथासाध्यत्वलक्षणमाह ॥
आयभ्यते हिक्कतो यस्य देहो दृष्टिश्चोर्ध्वं ताम्यते यस्य नित्यम्‍ । क्षीणोऽन्नद्विट्‍ क्षौति यश्चातिमात्रं तौ द्वौ चान्त्यौ वर्जयेद्विक्कमानौ ॥१॥
अतिसञ्चितदोषस्य भक्तच्छेदकरस्य च  व्याधिभि: क्षीणदेहस्य वृद्धस्यातिव्यवायिन: ॥२॥

॥ अथ पुनरसाध्यत्वमाह ॥
एषां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम्‍ । यमिका च प्रलापार्तिमोहतृष्णासमन्विता ॥१॥
अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च य: । तस्य साधयितुं शक्या यमिका हन्त्यतोऽ‍न्यथा ॥२॥
वातेन हिक्का: प्रभवन्ति पञ्च तासामसाध्यत्वमुदाहरन्ति । अक्षीणमांसस्य भवेच्च साध्या प्रान्ते च हिक्के परिवर्जनीये ॥३॥
इति हिक्कानिदानम्‍ ॥

॥ अथ हिक्काचिकित्सा ॥
नारीपय:पिष्टसुशुक्लचन्दनं कृतं सुखोष्णं च ससैन्धवं च । पिष्टं तथा सैन्धवमम्बुना वा निहन्ति हिक्कां ननु नावनेन ॥१॥
इति नारायणीयात्‍ ॥ मधुकं मधुसंयुक्तं पिप्पली शर्करान्विता । नागरं गुडसंयुक्तं हिक्काघ्नं नावनत्रयम्‍ ॥१॥
इति वृन्दात्‍ ॥

॥ अथ यवागू: ॥
दशमूलीशटीरास्त्रापिप्पलीविश्वपौष्करै: । शृड्गीतामलकीभार्गीगुडूचीनागरादिभि: ॥१॥
यवागूं मधुना सिद्धां कषायं वा पिब्बेन्नर: । कासत्दृद्‍ग्रहपार्श्वार्तिहिक्काश्वासप्रशान्तये ॥२॥
इति वृन्दात्‍ । हिड्गुसौवर्चलाजाजीबिडपौष्करचित्रकै: । सटीकर्कटशृड्गी च यवागू: श्वासहिक्किनाम्‍ ॥१॥
इति हिड्ग्वादियवागू: । चिकित्सासारात्‍ ॥

॥ अथ यूष: ॥
कासमर्दकपत्राणां यूष: शोभाञ्जनस्य च । शुष्कमूलकयूषश्च हिक्काश्वासनिवारण: ॥
सदधिव्योषसर्पिष्को यूषो वार्ताकिजो हित: ॥ इति वृन्दात्‍ ॥

॥ अथ क्वाथ: ॥
दशमूलीजलयुतं सूतं हिक्किषु योजयेत्‍ । श्वासकासहर: सर्वो विधिरत्रापि युज्यते ॥१॥
इति रसरत्नदीपात्‍  । पाटल्या: फलतोयेन क्षौद्रेण च समन्वितम्‍ । हेमभस्म निहन्त्येव हिक्का: पञ्चातिदुस्तरा: ॥१॥
दशमूलीकषायेण मधुना च समन्वितम्‍ । कान्तायोभस्म हिक्कानां पञ्चतां पञ्चतां नयेत्‍ ॥२॥
कुलित्थयवकोलाम्बुदशमूलबलाजलम्‍ । पानार्थं कल्पयेत्कासहिक्काश्वासप्रशान्तये ॥३॥
इति वृन्दात्‍  । धात्री च मागधी शुण्ठी क्वाथश्चैषां सितायुत: । हिनस्ति हृदयोद्भूतां हिक्कां प्राणपनोदिनीम्‍ ॥ इति वैद्यविलासात्‍ ॥१॥

॥ अथ चूर्णम्‍ ॥
शिखिपिच्छभस्म कृष्णाचूर्णं मधुमिश्रितं मुहुर्लीढम्‍ । हिक्कां हरति प्रबलां श्वासं चैवातिदुस्तरं छर्दिम्‍ ॥१॥
इति चिकित्सादीपात्‍ ॥
कृष्णामलकशुण्ठीनां चूर्णं मधुसितायुतम्‍ । मुहुर्मुहु: प्रयोक्तव्यं हिक्काश्वासनिवारणम्‍ ॥१॥
हिक्काश्वासी पिबेद्‍ भार्गी सविश्वामुष्णवारिणा । नागरं वा सिताभार्गीसौवर्चलसमन्वितम्‍ ॥२॥
॥ इति वृन्दात्‍ ॥ शृड्गीकटुत्रिकफलत्रयकण्टकारी - भार्गीसपुष्परजटालवणानि चैषाम्‍ । चूर्णं पिबेदशिशिरेण जलेन हिक्काश्वासोर्ध्ववातकसनारुचिपीनसेषु ॥१॥इति शृड्ग्यादिचूर्णम्‍ ।
योगशतकात्‍ ॥ विश्वामिसीकणाचूर्ण; ससित: समधु: स्मृत: । गुडूचीनागरं नस्यं हिक्काधिक्कारकारकम्‍ ॥१॥ इति वैद्यजीवनात्‍ ॥

॥ अथ सामान्यप्रतीकार: ॥
हिक्कार्तस्य पयश्छागं हितं नागरसाधितम्‍ । रसान्‍ पचेत्फलाम्लांश्च लाजाचूर्णंससैन्धवम्‍ ॥१॥
इति नारायणीयात्‍ ॥ यष्टयाह्यं वा माक्षिकेणावलीढं कृष्णाचूर्णं शर्कराढ्यं च किं वा । सर्पि: कोष्णं क्षीरमुष्णं रसो वा हन्यादिक्षो: पानत: पञ्चहिक्का: ॥१॥ इति सुश्रुतात्‍ ॥
मधुसौवर्चलोपेतं मातुलिड्गरसं पिबेत्‍ । हिक्कार्तो मधुना लिह्याच्छुण्ठीधात्रीकणान्वितम्‍ ॥१॥
योगतरड्गिण्याम्‍ ॥ कपित्थस्वरसो वापि रस आमलकस्य च । पिप्पलीक्षौद्रसंयुक्तो हिक्काश्वासनिवारण: ॥१॥
पिप्पलीमूलमधुकगुडगोऽश्वशकृद्रसान्‍ । हिध्माभिष्यन्दकासग्ना ल्लिह्यान्मधुघृतान्वितान्‍ ॥२॥
खर्जूर: पिप्पली द्राक्षा शर्करा चेति तत्समम्‍ । मधुसर्पिर्युतो लेहो हिक्काश्वासनिवारण: ॥३॥
इति चिकित्सात्सारात्‍ ॥ कटुकागैरिकाभ्यां च मुक्ताभस्म तथैव च । बीजपूरस्य तोयेन ताम्रं तद्वत्समाक्षिकम्‍ ॥१॥
हेममुक्तार्कंकान्तानां भस्म वल्लमितं वरम्‍ । बीजपूररसक्षौद्रसौवर्चलसमन्वितम्‍ ॥२॥
हन्ति हिक्काशतं सत्यमेकमात्राप्रयत्नत: । का कथा पञ्चहिक्कानां हरणे सूत उच्यते ॥३॥
इति बौद्धसर्वस्वात्‍ ॥

॥ अथ शड्खचूलो रस: ॥
रसरत्नदीपात्‍ ॥ रसाभ्रहेमभस्मानि वैक्रान्तं सर्वतुल्यकम्‍ । सर्वै पञ्चगुणं शड्खचूर्णं शुष्कं विमर्दयेत्‍ ॥१॥
लेहयेन्मधुना माषचतुष्कं सानुपानकम्‍ । हिक्कां पञ्चविधां हन्ति मुमूर्षोरपि ततक्षणात्‍ ॥२॥
इति शड्खचूलो रस: ॥
कासप्रकरणोक्तं च भिषगत्र नियोजयेत्‍ । क्षयोक्तं वात्र कासे च हिक्काश्वासे नियोजयेत्‍ ॥१॥

॥ अथ पथ्यापथ्यम्‍ ॥
स्वेदनं वमनं नस्यं धूमपानं विरेचनम्‍ । निद्रा स्निग्धानि चान्नानि मृदूनि लवणानि च ॥१॥
जीर्णा: कुलित्था गोधूमा: शालय: षष्टिका यवा: । एणतित्तिरलावाद्या जाड्गला मृगपक्षिण: ॥२॥
उष्णोदकं मातुलिड्गं पटोलं बालमूलकम्‍ । पक्वं कपित्थं लशुनं क्षौद्रं चेष्टानि हिक्किनाम्‍ ॥३॥
निष्पावमाषपिण्याकवारिजानूपमामिषम्‍ । अविदुग्धं दन्तकाष्ठं वस्तिं मत्स्यांश्च सर्षपान्‍ ॥४॥
आम्लं तुम्बीफलं कन्दं तैलभृष्टमुपोदिकाम्‍ । गुरुशीतं चान्नपानं हिक्कारोगी विवर्जयेत्‍ ॥५॥
इति हिक्काचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-20T18:29:55.1970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

indemnitee

  • सा. क्षतिपूर्तिग्राही 
  • (a person to whom the indemnity is given) 
  • सा. हानिरक्षणग्राही 
  • क्षतिपूर्तिहर्जाना पानेवाला 
More meanings
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.