संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ दुग्धगुणाः ॥

॥ अथ दुग्धगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


दीप्तानले कृशे पुंसि बाले वृद्धे रतिप्रिये ।
मतं हिततमं यस्मात्सद्यः शुक्रकरं पयः ॥१॥
जीर्णज्वरे मूत्रकृच्छ्रे रक्तपित्ते मदात्यये ।
कासे श्वासे प्रशंसन्ति गव्यं क्षीरं भिषग्वराः ॥२॥
गोक्षीरं मधुरं शीत्तं गुरु स्निग्धं रसायनम्‌ ।
बृंहणं स्तन्यकृद्बल्यं जीवनं वातपित्तनुत्‌ ॥३॥
गव्यं माहिषमाजं च कारभं स्त्रैणमाविकम्‌ ।
ऐभमैकशफं चेति क्षीरमष्टविधं मतम्‌ ॥४॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP