TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ नासारोगाधिकार: ॥

॥ अथ नासारोगाधिकार: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ नासारोगाधिकार: ॥
॥ अथ नासारोगाधिकार: ॥
अवश्यायानिलरजोभाषातिस्वप्नजागरै: । निर्वात्युच्चोपधानेन पीतेनान्येन वारिणा ॥१॥
अत्यम्बुपानाद्रमणैश्छर्दिबाष्पग्रहादिभि: । क्रुद्धा वातोल्बणा दोषा नासायां स्त्यानतां गता: ॥२॥
तत्र नासारोगाणां नामानि संख्यां चाह ॥ आदावपीनस: प्रोक्त: पूतिनासस्तत: परम्‍ । नासापाको‍ऽत्र गणित: पूयशोणितमेव च ॥१॥
क्षवथुर्भंशथुरीप्त: प्रतिनाह: परिस्त्रव: । नासाशोष: प्रतिश्याया: पञ्च सप्तार्बुदानि च ॥२॥
चत्वार्यर्शांसि चत्वार: शोथाश्चत्वारि तानि च । रक्तपित्तानि नासायां चतुस्रिंशद्गदा: स्मृता: ॥३॥
तेषु पीनसस्य लक्षणमाह ॥ आनह्यते शुष्यति यस्त नासा प्रक्लेदमायाति च धूप्यते च । न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्थेत्तमपीनसेन ॥१॥
अथानुक्तसंग्रहार्थमाह ॥ तं चानिलश्लेष्मभवं विकारं ब्रूयात्प्रतिश्यायसमानलिड्गम्‍ ॥१॥
अथ पूतिनासमाह ॥ दोषैर्विदग्धैर्गलतालुमूलात्संदूषितो यस्य समीरणस्तु । निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रोगम्‍ ॥१॥
अथ नासापाकमाह ॥ घ्राणाश्रितं पित्तमरुंषि कुर्याद्यस्मिन्विकारे बलवांश्च पाक: । तं नासिकापाक इति व्यवस्येद्विक्लेद्कोथावथ वापि यत्र ॥१॥
अथ पूयरक्तमाह ॥ दोषैर्विदग्धैरथ वापि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तै: । नासा स्त्रवेत्पूयमसृग्‍विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम्‍ ॥१॥
अथ क्षवथुमाह ॥ तत्रादौ दोषजमाह ॥ घ्राणाऽश्रिते मर्मणि संप्रदुष्टो यस्यानिलो नासिकया निरेति । कफानुयातो बहुशोऽथ शब्दस्तं रोगमाहु: क्षवथुं विधिज्ञा: ॥१॥
अथागन्तुजमाह ॥ तीक्ष्णोपयोगादतिजिघ्रतो वा भावान्‍ कटूनर्कनिरीक्षणाद्वा । मूलादिभिर्वा तरूणास्थिमर्मण्युद्‍घाटितेऽन्य: क्षवथुर्निरेति ॥१॥
अथ भ्रंशथुमाह ॥ प्रभ्रश्यते नासिकयोर्हि यस्य सान्द्रो विदग्धो लवण: कफस्तु । प्राक्‍संचितो मूर्धनि पित्ततप्तस्तं भ्रंशथु रोगमुदाहरन्ति ॥१॥
अथ दीप्तमाह ॥ घ्राणे भृशं दाहसमन्विते तु विनि:सरेद्‍ धूम इवेह वायु: । नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिं तु तं दीप्तमुदाहरन्ति ॥१॥
अथ प्रतिनाहमाह ॥ उच्व्छासमार्गं तु कफ: सवातो रुन्ध्यात्प्रतीनाहमुदाहरेत्तम्‍ ॥१॥
अथ स्त्रावमाह ॥ घ्राणाद्‍घन: पीतसितस्तनुर्वा दोष: स्त्रवेत्स्त्रावमुदाहरेत्तम्‍ ॥१॥
अथ नासाशोषमाह ॥ घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च । कृच्छ्राच्छ्वसेद्‍ र्ध्वमधश्च जन्तुर्यस्मिन्स नासापरिशोष उक्त: ॥१॥
अथ परिश्यायमाह ॥ तस्य निदानं द्विविधम्‍ एकं सद्योजनकं तब्दलवत्वेन चयं नापेक्षते यत उक्तम्‍ । न केवलं चयं प्राप्य दोषा: कुप्यन्ति देहिनाम्‍ । अन्यदापि हि कुप्यन्ति हेतुबाहुल्यतोरणात्‍ ॥१॥
चयादिक्रमशोजनकमपरं । तथा च संचय: संचयात्प्रकोप: प्रकोपात्प्रसर: प्रसरात्स्थानसंश्रय: ततो व्यक्तिस्ततो भेद इति । तत्र प्रतिश्यायस्य सद्योजनकनिदानपूर्विकां सम्प्राप्तिमाह ॥ संधारणाजीर्णरजोऽतिभाष्यक्रोधर्तुवैषम्यशिरोऽभितापै: । प्रजागरात्सप्ननवाम्बुशीतावश्यायकैर्मैथुनबाष्पशोकै: ॥१॥
संस्त्यानदोषे शिरसि प्रवृद्धो वायु: प्रतिश्यायमुदीरयेत्तु ॥२॥
चयादिक्रमशोजनकनिदानपूर्विकां संप्राप्तिमाह ॥ चयं गता मूर्धनि मारुतादय: पृथक्‍ समस्ताश्च तथैव शोणितम्‍ । प्रकुप्यमाणा विविधै: प्रकोपनैस्तत: प्रतिश्यायकरा भवन्ति हि ॥१॥
अथ पूर्वरुपमाह ॥ क्षवप्रवृत्ति: शिरसोऽभिपूर्णता स्तम्भोऽड्गमर्द: परिहृष्टरोमता । उपद्रवाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुर:सरा स्मृता: ॥१॥
अथ वातिकस्य प्रतिश्यायस्य लक्षणमाह ॥ आनद्धा पिहिता नासा तनुस्त्रावप्रसेकिनी । गलताल्वोष्ठशोषश्च निस्तोद: शड्खयोस्तस्था ॥१॥
भवेत्स्वरोपघातश्च प्रतिश्यायेऽनिलात्मके ॥२॥
अथ पैत्तिकमाह ॥ उष्ण: सपीतक: स्त्रावो घ्राणास्त्रवति पैत्तिके । कृशोऽपि पाण्डुसंतप्तो भवेदुष्णाभिपीडित: ॥ नासया तु सधूमाग्निं वमतीव स मानव: ॥१॥
अथ श्लैष्मिकमाह ॥ घ्राणात्कफकृत:श्वेत: कफ: शीत: स्त्रवेब्दहु: । शुक्लावभास: शूनाक्षो भवेद्गुरुशिरा नर: ॥ गलताल्वोष्ठशिरसां कण्डूभिरतिपीडित: ॥१॥
अथ सान्निपातिकमाह ॥ भूत्वा भूत्वा प्रतिश्यायो योऽकस्मात्संनिवर्तते । संपक्वो वाप्यपक्वो वा स सर्वप्रभव: स्मृत: ॥१॥
अथ दुष्टप्रतिश्यायलिड्गमाह ॥ प्रक्लिद्यते मुहुर्नासा पुनश्च परिशुष्यति । पुनरानह्यते वापि पुनर्विव्रियते तथा ॥१॥
नि:श्वासो दुर्गन्धो नरो गन्धान्न वेत्ति च । एवं दुष्टप्रतिश्यायं जानीयात्कृच्छ्रसाधनम्‍ ॥२॥
अथ रक्तजमाह ॥ रक्तजे तु प्रतिश्याये रक्तस्त्राव: प्रवर्तते । पित्तप्रतिश्यायकृतैर्लिड्गैश्चापि समन्वित: ॥१॥
ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडित: । दुर्गन्धोच्छ्वासवक्रश्च गन्धानपि न वेत्ति स: ॥२॥
अथासाध्या भवन्तीत्याह ॥ सर्व एव प्रतिश्याया नरस्याप्रतिकारिण: । दुष्टतां यान्ति कालेन तदासाध्या भवन्ति च ॥ अथ प्रतिश्यायेषु कृमयोऽपि भवन्तीत्याह ॥ मुर्च्छन्ति कृमयश्चात्र श्वेता: स्निग्धास्तथाणव: । कृमिजो य: शिरोरोगस्तुल्यं तेनात्र लक्षणम्‍ ॥१॥
अथ प्रतिश्याया अपरानपि विकारान्‍ कुर्वन्ति तानाह ॥ बाधिर्यमान्ध्यमघ्नत्वं घोरांश्च नयनामयान्‍ । शोफाग्निसादकासांश्च वृद्धा: । अपरांश्चतुस्त्रिंशत्संख्यापूरणायाह ॥ अर्बुदं सप्तधा शोथाश्चत्वारोऽर्शश्चतुर्विधम्‍ । चतुर्विधं रक्तपित्तमुक्तं घ्राणेऽपि तद्विदु: ॥१॥
अथ चिकित्साभेदात्‍ पीनसस्यामस्य लक्षणमाह ॥ शिरोगुरुत्वमरुचिर्नासास्त्रावस्तनुस्वर: । क्षाम: ष्ठीवति चाभीक्ष्णमामपीनसलक्षणम्‍ ॥१॥
अथ पक्वपीनसस्य लक्षणमाह ॥ आमलिड्गान्वित: श्लेष्मा घन: खेषु निमज्जति । स्वरवर्ण विशुद्धिश्च पक्वपीनसलक्षणम्‍ ॥१॥
इति नासारोगनिदानम्‍ ॥
====
॥ अथ नासारोगाणां चिकित्सा ॥
तत्रादौ पीनसस्य चिकित्सामाह ॥ सर्वेषु पीनसेष्वादौ निवातागारगो भवेत्‍ । शिरसोऽभ्यञ्जनै: स्वेदैर्नस्यैर्मन्दोभोजनै: ॥ वमनैर्घृतपानैश्च तान्यथास्वमुपाचरेत्‍ ॥१॥
सर्जार्जुनोदुम्बरवत्सकानां त्वचां कषायै: परिधावनेन । कषायकल्कैरपि चैभिरेव सिद्धं घृतं घ्राणविपाकनाशि ॥२॥
इति सर्जकादिकषायो घृतं च ॥ अथ मरीचादियोग: ॥ सर्वेषु सर्वकालं पीनसरोगेषु जातमात्रेषु । मरिचं गुडेन दग्धा नर: सुखं लभते ॥१॥
अथ पञ्चमूल्यादियूष: ॥ पञ्चमूलीयुतं क्षीरं किं वा स्याच्चित्रकाभया । सर्पिर्गुडो विड्गश्च यूष: पीनसशान्तये ॥१॥
अथ गुडाद्यो योग: ॥ गुडमरिचविमिश्रं पीतमाशु प्रकामं हरति दधि नराणां पीनसं दुर्निवारम्‍ । यदि तु सघृतमन्नं श्लक्ष्णगोधूमचूर्णै: कृतमुपहरतेऽसौ तत्कुतोऽस्यावकाश: ॥१॥
अथ वेल्लगोधूमयोगौ ॥ वेल्लगोधूमभोजी च निद्राकाले च शीतलम्‍ । जलं पिबति यो रोगी पीनसान्मुच्यते नर: ॥१॥
अथ व्योषादिवटी ॥ व्योषचित्रकतालीसतित्तिडीकाम्लवेतसम्‍ । सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम्‍ ॥१॥
व्योषादिकमिदं चूर्णं पुराणगुडमिश्रितम्‍ । पीनसश्वासकासघ्नं रुचिस्वरकरं परम्‍ ॥२॥
अथ कट्‍फलादिचूर्णं क्वाथश्च ॥ कट्‍फलादिचूर्णं क्वाथश्च ॥ कट्‍फलं पौष्करं शृड्गी व्योषं यासश्च कारवी । एषां चूर्णं कषायं वा दद्यादार्द्रकजै रसै: ॥१॥
पीनसे स्वरभेदे च तमके सहलीमके । सन्निपाते कफे वाते श्वासे च शस्यते ॥२॥
अथ पाठादितैलम्‍ ॥ पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवै: । एभिश्च तैलं संसिद्धं नस्यत: पीनसापहम्‍ ॥१॥
अथ षडबिन्दु नासास्थिगतं च पीनसं शिरोगतं रोगशतं च हन्ति ॥१॥
अथ कलिड्गाद्यवपीड: ॥ कलिड्गहिड्गुमरिचलाक्षास्वरसकट्‍फलै: । कुष्ठोग्राशिग्रुजन्तुघ्नैरवपीड: प्रशस्यते ॥१॥
कफघ्नमन्नं वार्ताकं कुलत्थाढकिमुद्गजा: । य़ूषा: ससैन्धवव्योषा: शस्ताश्चोष्णास्तु पीनसे ॥२॥
इति पीनसचि० ॥ अथापररोगाणां चिकित्सा अथ व्याघ्रीतैलम्‍ ॥ व्याघ्रीदन्तीवचाशिग्रुसुरसाव्योषसिन्धुजै: । सिद्धं तैलं नसि क्षिप्तं पूतिनासागदापहम्‍ ॥१॥
अथशिग्रुतैलम्‍ ॥ शिग्रुसिंहीनिकुम्भानां बीजै: सव्योषसैन्धवै: । बिल्वपत्ररसे सिद्धं तैलं स्यात्पूतिनस्यनुत्‍ ॥१॥
नासापाके पित्तनाशं विधानं कार्यं सर्वं बाह्यमभ्यन्तरं च । हरेद्रक्तं क्षीरवृद्धत्वचश्च योज्या: सेके सघृताश्च प्रलेपा: ॥२॥
पूयास्त्रे रक्तपितघ्ना: कषाया नावनानि च । पाकदाहादिरोगेषु शीता लेपादिका: क्रिया: ॥३॥
घृतगुग्गुलुमिश्रस्य सिक्थकस्य प्रयत्नत: । धूमं क्षवथुरोगघ्नं भ्रंशथुघ्नं च निर्दिशेत्‍ ॥४॥
शुण्ठीकुष्ठकणाबिल्वद्राक्षाकल्ककषायवत्‍ । तैलं पक्वमथाज्यं वा नस्यात्क्षवथुनाशनम्‍ ॥५॥
नस्यं हितं निम्बरसाञ्जनाभ्यां दीप्ते शिर:स्वेदनमल्पशस्तु । नस्ये कृते क्षीरजलावसेकाञ् शंसन्ति भुञ्जीत च मुद्गयूषै: ॥६॥
नासावनाहे कर्तव्यं पानं गव्यस्य सर्पिष: । नासाशोषे क्षीरपानं ससितं च प्रशस्यते ॥७॥
नासास्त्रावे घ्राणयोश्चूर्णमुक्तं नाड्या देयं येऽवपीडाश्च पथ्या: । तीक्ष्णान्धूमान्देवदार्वग्निकाभ्यां चाजं पथ्यमत्रादिशन्ति ॥८॥
॥ अथ प्रतिश्यायप्रतीकार: ॥ प्रतिश्यायेषु सर्वेषु गृहं वातविवर्जितम्‍ । वस्त्रेण गुरुणोष्णेन शिरसो वेष्टनं हितम्‍ ॥१॥
बालमूलकयोर्यूष: कुलत्थोत्थश्च पूजित: । स्वेदोष्णं च हिमं पाचनाय प्रशस्यते ॥२॥
तत: पक्वं कफं ज्ञात्वा हरेच्छीर्षविरेचनै: । पिप्पल्य: शिग्रुबीजानि विडड्गं मरिचानि च ॥३॥
अवपीड: प्रशस्तोऽयं प्रतिश्यायनिवारण: । वातिके च प्रतिश्याये पिबेत्सर्पिर्यथाक्रमम्‍ ॥४॥
पञ्चभिर्लवणै: सिद्धं प्रथमेन गणेन च । रक्तपित्तोत्थयो: पेयं सर्पिर्मधुरकै: शृतम्‍ ॥५॥
परिषेकान्‍ प्रदेहांश्च कुर्यादपि च शीतलान्‍ । हितं पित्तप्रतिश्याये पाचनार्थं घृतं पय: ॥६॥
शृड्गबेरेण पयसा शृड्गबेरमथापि वा । सर्पिषा भृष्टया धात्र्या शिरसो लेपत: क्षणात्‍ ॥७॥
नासायां संप्रवृत्तं अ रुधिरं च विनश्यति । कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया ॥८॥
यवाग्वा वामयित्वा तु श्लेष्मघ्नं क्रममाचरेत्‍ । दार्वीड्गुदनिकुम्भैश्च किणिह्या सरलेन च ॥ वर्तयोऽत्र कृता योज्या धूमपाने यथाविधि ॥९॥
इति वृन्दात्‍ ॥ विड्ड्गं सैन्धवं हिड्गु गुग्गुलु: समन:शिल: । प्रतिश्याये वचायुक्तं शक्त्या धूमं पिबेन्नर: ॥१॥
एतच्चूर्णं समाघ्रातं प्रतिश्यायं विनाशयेत्‍ । घृततैलसमायुक्तं सक्तुधूमं पिबेन्नर: ॥२॥
स धूम: स्यात्प्रतिश्यायकासहिक्काहर: पर: । प्रतिश्याये पिबेद्‍ धूमं सर्वं गव्यसमायुतम्‍ ॥३॥
चातुर्जातकचूर्णं वा घ्नेयं वा कृष्णजीरकम्‍ । प्रतिश्यायेषु सशिर:पीडेषु नवसाग्ररम्‍ ॥४॥
समानं कलिकाचूर्णं सूक्ष्मं संचूर्णितं द्वयम्‍ । गुञ्जामात्रं तु तच्चूर्णं नस्यं प्रधमनं चरेत्‍ ॥५॥
नश्यन्त्यनेन नस्येन प्रतिश्यायशिरोरुज: । सवचाचूर्णमाघ्नाय वाससा पोटलीकृतम्‍ ॥६॥
कारवी वस्त्रबद्धा वा प्रतिश्यायमपोहति । शटीतामलकीव्योषचूर्णं सर्पिर्गुडान्वितम्‍ ॥७॥
हरेद्‍ घोरं प्रतिश्यायं पार्श्वह्रुब्दस्तिशूलनुत्‍ । पुटपक्वं जयापत्रं तैलसैन्धवसंयुतम्‍ ॥ प्रतिश्यायेषु सर्वेषु शीलितं परमौषधम्‍ ॥८॥
अथ चित्रहरीतकी ॥ चत्वार्यत्र शतानि चित्रकजटायुकपञ्जमूलामृताधात्रीणामुदकार्मणे त्रिभिरपां द्रोणेन च क्वाथयेत्‍ । पादस्थे क्वथने गुडस्य च शतं पथ्याढकेनान्वितं पक्तव्यं शृतशीतले च मधुन: प्रस्थधिमात्रं क्षिपेत्‍ ॥१॥
व्योषस्य त्रिसुगन्धकस्य च पलान्यत्रैव षट्‍ प्रक्षिपेत्‍ क्षारस्यार्धपलं रसायनमिदं संसेव्यते सर्वदा । शोषश्वासामलावकाशवमथुश्लेष्मप्रतिश्यायिभि: क्षीणोर:क्षतहिक्किभि: कफशिरोरुग्भि: प्रनष्ठाग्निभि: ॥२॥
इति चित्रकहरीतकी योगरत्नावलित: ॥ अथ हिड्ग्वादि तैलम्‍ । चिकित्साकलिकात: ॥ हिड्गुव्योषविडड्कट्‍फलवचारुकतीक्ष्णगन्धैर्युतैर्लाक्षाश्वेतपुनर्नवाब्दकुटजै: पुष्पोद्भवै:सौरसै: । इत्येभि: कटुतैलमेतदनले मन्दे समूत्रं शृतं पीतं नासिकया यथाविधि भवेन्नासामयिभ्यो हितम्‍ ॥१॥
इति हिड्ग्वादि तैलम्‍ ॥ कृमिघ्ना ये क्रमा: प्रोक्तास्तान्वै कृमिषु योजयेत्‍ । धावनानि कृमिघ्नानि भेषजानि च बुद्धिमान्‍ ॥१॥
रक्ताम्रस्वरस: शुद्धस्तक्रेण सह नस्यत: । तस्य पर्णानि पिष्ट्वा च बध्नीयान्नासिकामुखे ॥२॥
पतन्ति कीटका: सद्यो योगो‍ऽयं त्रिदिनैर्हित: । पीनसान्मुच्यते रोगी शतशोऽनुमितं त्विदम्‍ ॥३॥
इति वैद्यविलासात्‍ ॥ इति प्रतिश्यायादिचिकित्सा ॥ रक्तपित्तानि शोथाश्च तथार्शांश्यर्बुदानि च । नासिकायां स्युरेतेषां स्वं स्वं कुर्याच्चिकित्सितम्‍ ॥१॥
गृहधूमकणादारुक्षारनक्ताहृसैन्धवै: । सिद्धं शिखरिबीजैश्च तैलं नासार्शसे हितम्‍ ॥२॥
रक्तकरवीरपुष्पं जात्यं वा तथा मल्लिकाया: । एतै समं तिलतैलं नासार्शोनाशनं परम्‍ ॥३॥
नासाशोफे क्षीरसर्पि: प्रधानं तैलं सिद्धं चाणु कल्केन नस्यम्‍ । सर्पिष्पानं भोजनं लाड्गलैश्च स्नेहस्वेदै: स्नैहिकश्चात्र धूम: ॥४॥
अथ वृन्दात्‍ ॥ क्षारोऽर्बुदावमांसं च क्रियाशेषेऽप्यवेक्ष्य च । स्थितिर्निर्वातनिलये प्रगाढोष्णीषधारणम्‍ । गण्डूषो लड्घनं नस्यं धूमश्छर्दि: शिराव्यध: ॥१॥
अथ पथ्यापथ्यम्‍ ॥ स्नेह: स्वेद: शिरो‍भ्यड्ग: पुराणा यवशालय: । कुलित्थमुद्गयोर्यूषो ग्राम्या जाड्गलजा रसा: ॥१॥
वार्ताकं कुलकं शिग्रु कर्कोटं बालमूलकम्‍ । लशुनं दधि तप्ताम्बु वारुणी च कटुत्रयम्‍ ॥२॥
कट्‍वम्ललवणं स्निग्धमुष्णं च लघुभोजनम्‍ । नासारोगे पीनसादौ सेव्यमेतद्यथामलम्‍ ॥३॥
स्नानं क्रोधं शक्रन्मूत्रवातवेगाञ् शृचं द्रवम्‍ । भूमिशय्यां च यत्नेन नासारोगी परित्यजेत्‍ ॥४॥
इति नासारोगाधिकार:

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T20:17:50.7700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

post office savings bank

  • डाकघर बचत बँक 
  • स्त्री. डाकघर बचत बँक 
RANDOM WORD

Did you know?

कुंभमेळ्याबद्दल माहिती द्या? नजिकचा कुंभमेळा कोठे आहे ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site