TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथामवातनिदानप्रारम्भ: ॥

॥ अथामवातनिदानप्रारम्भ: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथामवातनिदानप्रारम्भ: ॥
॥ अथामवातनिदानप्रारम्भ: ॥
अथ तस्य निदानपूर्वसम्प्राप्तिमाह ॥ विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्य च । स्निग्धं भुक्तवतो ह्यन्नं व्यायामं चापि कुर्वत: ॥१॥
वायुना प्रेरितो ह्याम: श्लेष्मस्थानं प्रधावति । तेनात्यर्थं विदग्धोऽसौ धमनी: प्रतिपद्यते ॥२॥
वातपित्तकफैर्भूयो दूषित: सोऽन्नजो रस: । स्त्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिल: ॥३॥
जनयत्यग्निदौर्बल्यं हृदयस्य च गौरवम्‍ । व्याधीनामाश्रयो ह्येष आमसंज्ञोऽतिदा रुण: ॥४॥
अजीर्णान्नरसो जात: क्रमश: सञ्चितश्च य: । आमसंज्ञां स लभते शिरोगात्ररुजाकर: ॥५॥
अथ तस्य रुपमाह ॥ युगपत्‍ कुपितावेतौ त्रिकसन्धिप्रवेशकौ । स्तब्धं वा कुरुते गात्रमामवात: स उच्यते ॥१॥
अथ तस्य लक्षणमाह अड्गमर्दोऽरुचिस्तृष्णा ह्यालस्यं गौरवं ज्वर:  । अपाक: शून्यताड्गानामामवातस्य लक्षणम्‍ ॥१॥
मन्यापृष्टकटीजानुत्रिकसन्धीन्‍ विकुञ्चयन्‍ । सशब्दस्त्रस्तगात्रश्च आमवात: स उच्यते ॥२॥
जठरानलदौर्बल्यादविपक्कस्तु यो रस: । स आमसंज्ञको देहे सर्व दोषप्रकोपन: ॥३॥
अथ तस्यैवोपद्रवानाह ॥ स कष्ट: सर्वरोगाणां यदा प्रकुपितो भवेत्‍ । हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु ॥१॥
करोति सरुजं शोफं यत्र दोष: प्रपद्यते । स देशो रुजतेऽत्यर्थं व्याविद्ध इव वृश्चिकै: ॥२॥
जनयेत्सोऽग्निदौर्बल्यं प्रसेकारुचिगौरवम्‍ । उत्साहहानि वैरस्यं दाहं च बहुमूत्रताम्‍ ॥३॥
करोति ग्रहणीदोषं विशेषादामसंज्ञकम्‍ । अपक्वं सृजते चान्नं केवलं चाममेव च ॥४॥
कुक्षौ कठिनता शूलं तथा निद्राविपर्ययम्‍ । तृट्‍छर्दिभ्रममूर्च्छाश्च हृद्‍ग्राहं विड्विबन्धनम्‍ ॥ जाड्यान्त्रकूजमानाहं कष्टांश्चान्यानुपद्रवान्‍ ॥५॥
अथ पित्तादियुक्तस्य विशेषलक्षणमाह ॥ पित्तात्सदाहरागं च सशूलं पवनानुगम्‍ । स्तैमित्यं गुरुकण्डूकं कफदुष्टं तमादिशेत्‍ ॥१॥
अथ साध्यासाध्यत्वमाह ॥ एकदोषानुग: साध्योद्विदोषो याप्य उच्यते । सर्वदेहचर: शोथ: सकृच्छ्रं सान्निपातिक: ॥१॥
इत्यामवातनिदानम्‍ ।

॥ अथ तच्चिकित्सा ॥
लड्घनं स्वेदनं तिक्तदीपनानि कटूनि च । विरेचनं स्नेहपानं बस्तयश्चाममारुते ॥१॥
रुक्ष: स्वेदो विधातव्यो वालुकापोटलैस्तथा । उपनाहाश्च कर्तव्यास्तेऽपिस्नेविवर्जिता: ॥२॥

॥ अथ क्वाथा: ॥
अथ वृन्दात्‍ । रास्त्रापञ्चकम्‍ ॥ रास्त्रागुडूचिकैरण्डं देवदारु महौषधम्‍ । पिबेत्सर्वाड्गगे वाते सामे सन्ध्यस्थिमज्जगे ॥१॥
अथ रास्त्रासप्तकम्‍ ॥ रास्त्रामृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम्‍ । क्वाथं पिबेन्नागरचूर्णमिश्रं जड्घोरुपृष्ठत्रिकपार्श्वशूली ॥१॥
अथ रास्त्राद्वादशकम्‍ ॥ रास्त्रा शतावरी वासा गुडूच्यतिविषाभया । शुण्ठीदुरालभैरण्डदेवदारुवचाघनै: ॥१॥
क्वाथ: पीतो जयत्याशु आमवातं सुदारुणम्‍ । कट्यूरुत्रिकजड्घाड्घ्रिगुल्फजानुसमाश्रितम्‍ ॥२॥
अथ शुण्ठादि: ॥ शुण्ठीगोक्षुरकक्वाथ: प्रात: प्रातर्निषेवित: । आमवाते कटीशूले पाचनो रुकप्रणाशन: ॥१॥
इति वृन्दात्‍ ॥ अथ शट्यादि: ॥ शटी शुण्ठ्यभया चोग्रा देवाह्वातिविषामृता । कषायमामवातस्य पाचनं रुक्षभोजिनाम्‍ ॥१॥
अथ पिपल्यादि: ॥ पिप्पलीपिप्पलीमूलं चव्यचित्रकनागरम्‍ । क्वथितं वारयत्येतदामवातं सुदारुणम्‍ ॥१॥
अथ दशमूलादियोग: ॥ दशमूलकषायमिश्रितं वा ललने विश्वकषायमिश्रितं वा । प्रपिबेत्कटिकुक्षिबस्तिशूले ध्रुवमेरण्डजमेकमेव तैलम्‍ ॥१॥
इति वैद्यजीवनात्‍ ॥ अथ रास्त्रादिनपञ्चदशकम्‍ ॥ रास्त्रामृतानागरदेवदारु पञ्चाड्घ्रियुग्मेन्द्रयवै: कषाय: । एरण्डतैलेन समन्वितोऽयं भेत्ता भवेदामसमीरणस्य ॥१॥
इति वैद्यजीवनात्‍ ॥ अथ महौषधादिर्वैद्यविलासात्‍ । महौषधामृताभव: कषायकश्च सेवित: । हिनस्ति चाममारुतं चिराय सन्धिसंश्रितम्‍ ॥१॥ इति क्वाथा: ॥

॥ अथ चूर्णानि ॥
अथ भल्लातकादि ॥ भल्लाततिलपथ्यानां चूर्णं गुडसमन्वितम्‍ । आमवातं कटीशूलं हन्याद्वा गुडनागरम्‍ ॥१॥
अथाजमोदाद्यं चूर्णम्‍ ॥ शार्ड्गधरात्‍ ॥ अर्जमोदा विड्ड्गानि सैन्धवं देवदारु च । चित्रक: पिप्पलीमूलं शतपुष्पा च पिप्पली ॥१॥
मरिचं चेति कर्षांशं प्रत्येकं कारयेब्धुध: । कर्षास्तु पञ्च पथ्याया: दश स्युर्वृब्ददारकात्‍ ॥२॥
नागराच्च दशैव स्यु: सर्वाण्येकत्र चूर्णयेत्‍ । पिबेत्कोष्णजलेनैतच्चूर्णं श्वयथुनाशनम्‍ ॥३॥
आमवातरुजं हन्ति सन्धिपीडां च गूध्रसीम्‍ । कटिपृष्ठगुदस्थां च जड्घयोश्च रुजं जयेत्‍ ॥४॥
तूनीप्रतूनीविश्वाचिकफवातामयाञ्जयेत्‍ । समेन वा गुडेनास्य वटकान्कारयेब्दुध: ॥५॥
अथ शार्ड्गधरात्पञ्चसमचूर्णम्‍ ॥ शुण्ठी हरीतकी कृष्णा त्रिवृत्सौवर्चलं तथा । समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत्‍ । मत्स्वारनालतक्रेण पयोमांसरसेन वा ॥ आमवातं निहन्त्याशु श्वयथुं संधिसंस्थितम्‍ ॥१॥
अथ हिड्ग्वादि ॥ हिड्गुचव्यं बिडं शुण्ठी कृष्णाजाजी स पुष्करम्‍ । भागोत्तरमिदं चूर्णम्‍ पीतं वातामजिद्भवेत्‍ ॥१॥
अथ नागरादि ॥ कर्षं नागरचूर्णस्य काञ्जिकेन पिबेत्सदा । आमवातप्रशमनं कफवातविनाशनम्‍ ॥१॥
अथ पञ्चकोलादि ॥ पञ्चकोलकचूर्णं च पिबेदुष्णेन वारिणा । मन्दाग्निशूलगुल्मामकफारोचकनाशनम्‍ ॥१॥
अथ वैश्वानरचूर्णम्‍ ॥ माणिमन्थस्य भागौ द्वौ च हरीतक्या: सूक्ष्मचूर्णं कृतं शुभम्‍ । मत्स्वारनालमूत्रैश्च सुरयोष्णोदकेन वा ॥२॥
पीतं जयेच्चामवातं गुल्महृब्दस्तिजान्‍ गदान्‍ । प्लीहानमथ शूलादीनानाहं चार्शसां हितम्‍ ॥ वातानुलोमनमिदं चूर्णं वैश्वानरं स्मृतम्‍ ॥३॥
इति वृन्दात्‍ ॥ अथ चित्रकादि वृन्दात्‍ ॥ चित्रकं कटुका पाठा कलिड्गातिविषामृता: । देवदारु वचा मुस्ता नागरातिविषाभया: ॥ पिबेदुष्णाम्बुना नित्यं चूर्णमाममरुतप्रणुत्‍ ॥१॥
अथालम्बुषादि ॥ अलम्बुषागोक्षुरकौ त्रिफला नागरामृता । यथोत्तरं भागवृद्ध्या श्यामाचूर्णं च तत्सम्‍ ॥१॥
पिबेत्सुरामस्तुतक्रकाञ्जिकोष्णोदकेन वा । आमवातं जयत्याशु सशोफं वातशोणितम्‍ ॥२॥
इति वृन्दात्‍ । इति चूर्णानि ॥

॥ अथ सिंहनादगुग्गुलु: ॥
पलत्रयं वा ताप्यस्य त्रिफलाया: सुचूर्णितम्‍ । सौगन्धिकं पलं चैव कौशिकस्य पलं तथा ॥१॥
कुडवं चोरुबूकस्य तैलमादाय यत्नत: । पाचयेत्पाकविद्वैद्य: पात्रे लोहमये दृढे ॥२॥
हन्ति वातं तथा पित्तं श्लेष्माणं खञ्जपड्गुताम्‍ । श्वासं सुदुर्जयं हन्ति कासं पञ्चविधं तथा ॥३॥
कुष्ठानि वातरक्तं च गुल्मशूलोदराणि च । आमवातं जयेदेतदपि वैद्यैर्विवर्जितम्‍ ॥४॥
एतदभ्यासयोगेन जरापलितवर्जितम्‍ सर्पिस्तैलरसोपेतमश्नीयाच्छालिषष्टिकम्‍ ॥५॥
सिंहनाद इति ख्यातो रोगवारणदर्पहा । वह्नेर्वृद्धिकर: पुंसां भाषितो दण्डपाणिना ॥६॥
इति सिंहनादगुग्गुलु: ॥ अथान्यश्च वोपदेवकृतशतात्‍ ॥ प्रत्येकं प्रस्थमेकं पुरत्रिफलमपां पाचयेत्सार्धराशौ तुर्यांशे तत्रपूते पुनरमरवराव्योषमुस्ताग्निवेल्लै: । छिन्नोग्रामानकार्शोरिपुशवरित्रिवृत्सूतगन्धै: पलार्धै: साहस्त्रैर्दन्तिबीजै: कुट्जवसूपलै: सिंहनादो‍ऽनिलामे ॥१॥

॥ अथ योगरत्नावल्या महारसोनपिण्ड: ॥
तुला क्षुण्णरसोनस्य तदर्थं लुञ्चितास्तिला: । पात्रे तु गव्यतक्रस्य पिष्टद्रव्यै: समं क्षिपेत्‍ ॥१॥
त्र्यूषणं धान्यक चव्यं चित्रकं गजपिप्पली । अजमोदा त्वगेला च ग्रन्थिकं च पलांशकम्‍ ॥२॥
शर्कराया: पलान्यष्टौ पञ्चाजाज्या: पलानि च । कृष्णाजाज्याश्च चत्वारि राजिकायास्तथैव च ॥३॥
पलप्रमाणं दातव्यं हिड्गोर्लवणपञ्चकम्‍ । आर्द्रकस्य च चत्वारि सर्पिषोऽष्टौ पलानि च ॥४॥
तिलतैलस्य तावन्ति शुक्तस्यापि च विंशति: । सिद्धार्थकस्य चत्वारि द्विगुणं मधुकस्य च ॥५॥
एकीकृत्य दृढे भाण्डे धान्यराशौ निधापयेत्‍ । द्वादशाहात्समुद्धृत्य प्रात: खादेद्यथाबलम्‍ ॥६॥
सुरां सौवीरकं चाथ मधु वापि पिबेन्नर: । जीर्णे यथेप्सितं भोज्यं दधिपिष्ठकवर्जितम्‍ ॥७॥
एकमासोपयोगेन सर्वव्याधिहरो भवेत्‍ । अशीतिर्वातजा रोगाश्च्त्वारिंशच्च पित्तजा: ॥८॥
विंशति: श्लेष्मजास्तद्वन्नश्यन्ते तस्य सेवनात्‍ । योनिमूलं प्रमेहांश्च कुष्ठोदरभगन्दरान्‍ ॥ अर्शोगुल्मक्षयांश्चापि जयेद्रुचिबलप्रद: ॥९॥
इति महारसोनपिण्ड: ॥

॥ अथ घृतकल्कावलेहादि ॥
अथैरण्डजयोग: । विशोध्यैरण्डबीजानि पिष्ट्वा तत्पायसं पिबेत्‍ । आमवाते कटीशूले गृधस्यां चौषधं परम्‍ ॥१॥
एरण्डबीजमजा समविश्व: शर्करासहित: । गुटीकृत: प्रभाते भुक्त: सामानिलं जयति ॥२॥
आमवातगजेन्द्रस्य शरीरवनचारिण: । एक एवाग्रणीर्हन्ता एरण्डस्नेहकेसरी ॥३॥
कटीतटनिकुञ्जेषु सञ्चरन्वातकुञ्जर: । एरण्डतैलसिंहस्य गन्धमाघ्राय गच्छति ॥४॥
इत्येरण्डजयोग: ॥ अथ शार्ड्गधराच्छुण्ठीकल्क: ॥ शुण्ठीकल्कं विनिष्पिष्य रसैरण्डमूलजै: । विपत्तेत्पुटपाकेन तद्रस: क्षौद्रसंयुत: ॥ आमवातसमुद्रूतां पीडां जयति दुस्तराम्‍ ॥१॥ अथ शुण्ठीघृतम्‍ ॥ पुष्ठ्यर्थं पयसा साध्यं दध्ना विण्मूत्रसंग्रहे । दीपनार्थं मतिमता मस्तुना च प्रकीर्तितम्‍ ॥१॥
सर्पिर्नागरकल्केन सौवीरं च चतुर्गुणम्‍ । सिद्धमग्निकरं श्रेष्ठमामवातहरं परम्‍ ॥२॥
इति शुण्ठीघृतम्‍ ॥ अथ खण्डशुण्ठ्यवलेह: ॥ नागरस्य तुलामेकां घृतस्य पलविंशति चैव केशरं पिप्पली जटा । जोड्गकं जातिपत्रिकं जातीफलकचोरकम्‍ ॥२॥
अश्मभेदस्ताम्रभस्म वड्गभस्म तथैव च । स्वर्णमाक्षिकमभ्रं च तथा लोहत्रयं क्षिपेत्‍ ॥३॥
एतान्पृथकपलान्भागान्प्रत्येकं चूर्णितं क्षिपेत्‍ । मन्दानलविपक्वं तु लेहवत्साधु साधयेत्‍ ॥४॥
बल्यं वर्ण्यं तथायुष्यं वलीपलितनाशनम्‍ । आमवातप्रशमनं सौभाग्यकरमुत्तमम्‍ ॥१॥
अथ लेपौ ॥ शतपुष्पा वचा विश्वा श्वदंष्ट्रा वरुणत्वच: । पुनर्नवासदेवाह्वासटिमुण्डिनिका: समा: ॥१॥
प्रसारिणी च तर्कारी फलं च मदनस्य च । शुक्तकाञ्जिकपिष्टास्तु सुखोष्णालेपने हिता: ॥२॥
इति शतपुष्पादि: ॥ अथाहिंस्त्रादि: ॥ अहिंस्त्राकेम्बुकामूलं शिग्रुवल्मीकमॄच्चयै: । मूत्रपिष्ठैश्च कर्तव्य उपनाहोऽनिलामजित्‍ ॥१॥
अथ पानीयाम्‍ ॥ आमवाताभिभूताय पीडिताय पिपासया । पञ्चकोलेन संसिद्धं पानीयं हितमुच्यते ॥१॥
अथामवातविध्वंसनरस: ॥ प्रक्षिप्य गन्धं रसपादभागं कलाप्रमाणम्‍ च विषं समस्तात्‍ । कृशानुतोयेन च भावयित्वा वल्लं ददीतास्य मरुत्प्रशान्त्यै ॥१॥
अपस्मारे तथोन्मादे सर्वाड्गव्यथनेऽपि च । एकाड्गवाते सामे वा दंष्ट्राबन्धे हिमे तथा ॥ देयोऽयं वल्लमात्रं तु सर्ववातनिवृत्तये ॥२॥

॥ अथ पथ्यापथ्यम्‍ ॥
यवा: कुलत्था: श्यामाका: कोद्रवा रक्तशालय: । वास्तुकं शिग्रु वर्षाभू: कारवेल्लं पटोलकम्‍ ॥१॥
आर्द्रकं तप्तनीरं च लशुनं तक्रसंस्कृतम्‍ । जाड्गलानां तथा मांसं सामवातगदे हितम्‍ ॥२॥
दधिमत्स्यगुडक्षीरोपोदिकामाषपिष्टकम्‍ । दुष्टनीरं पूर्ववातं विरुद्धान्यशनानि च ॥३॥
असात्म्यं वेगरोधं च जागरं विषमाशनम्‍ । वर्जयेदामवातार्तो गुर्वभिष्यन्दकानि च ॥४॥
इति पथ्यापथ्यम ॥ इत्यामवातचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-03T19:10:59.8430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गतिहीन

  • a  Devoid of refuge, remediless. 
RANDOM WORD

Did you know?

नमस्कार कोणी कोणास कसा करावा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.