संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ केशरनामगुणाश्च ॥

॥ अथ केशरनामगुणाश्च ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


ज्ञेयं कुङ्कुममग्निशेखरमसृक्काश्मीरजं पीतकं काश्मीरं रुचिरं वरं च पिशुनं रक्तं शठं शोणितम्‌ ।
बाल्हीकं घुसृणं वरेण्यमसूणं कालेयकं जागुडं कान्तं वह्निशिखं च केशरवरं गौरीवाराक्षीरितम्‌ ॥१॥
कुङ्कुमं सुरभितिक्तमटूष्णं कासवातकफकण्ठरुजाघ्रम्‌ ।
मूर्धशूलविषदोषविमोचं रोचनं च तनुकान्तिकरं च ॥२॥
बसन्तकाले घुसृणेन युक्तः कस्तूरिकाचन्दनचारुलेपः ।
आवासितश्चेन्नवमल्लिकाभिस्त्रिदोषजिन्मन्मथजन्मभूमिः ॥३॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP