TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ व्योषाद्यं चूर्णम् ॥

॥ अथ व्योषाद्यं चूर्णम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ व्योषाद्यं चूर्णम् ॥
॥ अथ व्योषाद्यं चूर्णम्‍ ॥
व्योषाग्न्यष्करविड्गतिलाभयानां चूर्णं गुडेन सहितं सततं प्रयोज्यम्‍ । दुर्नामशोफगरकुष्ठशकृद्विबन्धमग्नेर्जयत्वबलतां कृमिपाण्डुतां च ॥१॥
चूर्णे चूर्णसमो देयो मोदके द्विगुणो गुड: । गुडव्योषवरावेल्लतिलारुष्करचित्रकै: । अर्शांसि हन्ति गुटिका त्वग्निकरी च शीलिता ॥२॥
गुडेन शुण्ठीमथवोपकुल्यां पथ्यां तृतीयामथ दाडिमं च ॥ आमेष्वजीर्णेषु गुदामयेषु वर्चोविबन्धेषु च नित्यमद्यात्‍ ॥३॥
शर्करया युतसूरणकन्द: कुञ्जरकेसरमेव तथान्यत्‍ । क्षौद्रयुतं नवनीतमथो वा सूदनकारणमर्शस एव ॥४॥
समूलपत्रकोकम्बं पलद्वयमितं शुभम्‍ । भल्लातफलमज्जाया मरीचस्य पलं पलम्‍ ॥५॥
एतच्चूर्णीकृतं सूक्ष्मं भक्षयेत्कर्षसंमितम्‍ । अर्शोऽडकुरान्निहत्याशु सबाह्याभ्यन्तरानपि ॥६॥
दु:स्परशेन बिल्वेन यवान्या नागरेण वा । एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम्‍ ॥७॥
अपामार्गस्य बीजानां कल्कं तण्डुलवारिणा । पीतं रक्तार्शसां नाशं कुरुते नात्र संशय: ॥८॥
चन्दनकिराततिक्तकधन्वयवासा: सनागरा: क्वथिता: । रक्तार्शसां प्रशमना दार्वीत्वगुशीरनिम्बाश्च ॥९॥
विड्‍विबन्धे हितं तक्रं यवानीविश्वसंयुतम्‍ । न प्ररोहन्ति गुदजा: प्रायस्तक्रसमन्विता: ॥१०॥
यो जातो गोरस: क्षीराद्वह्निमूलावचूर्णितात्‍ । पिबंस्तमेव तेनैव भुञ्जानो गुदजाड्कुरान्‍ ॥११॥
पिबेदहरहस्तक्रं निरन्नो वा सकामत: । सप्ताहं वा दशाहं वा मांसार्धं मासमेव च ॥१२॥
बलकालविकारज्ञो भिषक्‍ तं च प्रयोजयेत्‍ । हरीतकीं तक्रयुतां त्रिफलां वा प्रयोजयेत्‍ ॥१३॥
चित्रकं हपुषां हिड्गु दद्याद्वा तक्रसंयुतम्‍ । पञ्चकोलकयुक्तं वा तक्रेणैव प्रदापयेत्‍ ॥१४॥
त्वचं चित्रकमूलस्य पिष्ट्वा कुम्भं प्रलेपयेत्‍ । तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत्‍ । तक्रेणार्शांसि हन्यन्ते मुसलीकटुकाग्निना ॥१५॥
अरलुत्वगग्रिससुरेन्द्रयवाञ्चिरिबिल्वससैन्धवशुण्ठियुतान्‍ । मथितेन पिबेद्यादि सप्तदिनं गुदजानि पतन्ति समूलबलात्‍ ॥१६॥

॥ अथ हपुशादितक्रारिष्ट: ॥
हपुषा कुञ्चिका धान्यमजाजी कारवी सटी । पिप्पली पिप्पलीमूलं चित्रको गजपिप्पली ॥१॥
यवानी चाजमोदा च तच्चूर्णं तक्रसंयुतम्‍ । मन्दाम्लकटुकं विद्वांस्थापयेद्‍घृतभाजने ॥२॥
व्यक्ताम्लं कटुकं जातं तक्रारिष्टं कटुप्रियम्‍ । प्रपिबेन्मात्रया काले त्वन्नस्य तृषिस्तृषा ॥३॥
दीपनं रोचनं वर्ण्यं कफवातानुलोमनम्‍ । गुदश्वयथुकण्ड्वार्तिनाशनं बलवर्धनम्‍ ॥४॥
इति हपुषादितक्रारिष्ट: ॥

॥ अथ घृतानि ॥
चव्यं त्रिकटुकं पाठा क्षारं कुस्तम्बरूणि च । यवानि पिप्पलीमूलमुभे च बिडसैन्धवे ॥१॥
चित्रकं बिल्वमभयां पिष्ट्वा सर्पिर्विपाचयेत्‍ । सकृद्वानुलोमार्थं जाते दधिचतुर्गुणे ॥२॥
प्रवाहिका गुदभ्रंशं मूत्रकृच्छ्रं परिस्त्रवम्‍ । गुदवड्क्षणशूलं च घृतमेव्द्यपोहति ॥३॥
इतिचव्यादिघृतम्‍ । अथ शुण्ठीघृतम्‍ ॥
त्रिंशत्पलनि शुण्ठीनां जलद्रोणे विपाचयेत्‍ । तेन पादावशेषेण कल्के तासां पचेद्‍घृतम्‍ ॥१॥
दुर्नामश्वासकासघ्नं प्लीहपाण्ड्वामयापहम्‍ । विषमज्वरशान्त्यर्थं तृष्णारोचकनाशनम्‍ ॥२॥
शुण्ठीघृतमिदं ख्यातं कृष्णात्रेयेण पूजितम्‍ । नागरेण जले पक्वं वस्तिकुक्षिगदापहम्‍ ॥३॥
इत्यर्शसि शुण्ठिघृतम्‍ ॥ अथ लघुचव्यादि घृतम्‍ ॥ चव्यतिक्ताकलिड्गानि शताह्वा लवणानि च । सर्पिरर्शोविकारघ्नं ग्रहणीदीपनं परम्‍ ॥१॥
इति लघुचव्यादिघृतम्‍ ॥ अथ हीबेरादिघृतम्‍ ॥
हीबेरमुत्पलं लोध्रं समड्गाचव्यचन्दनम्‍ । पाठा सातिविषा बिल्वं धातकी देवदारु च ॥१॥
दार्वीत्वड्नागरं मांसी मुस्तं क्षारो यवाग्रज: । चित्रकश्चेति पेष्याणि चाड्गेरीस्वरसे घृतम्‍ ॥२॥
एकत्र साधयेत्सर्वं तत्‍ सर्पि: परमौषधम्‍ । अर्शोतिसारग्रहणीपाण्डुरोगे ज्वरेऽरुचौ ॥३॥
मूत्रकृच्छ्रे गुदभ्रंशे वस्त्यानाहप्रवाहिके । पिच्छास्त्रावेऽर्शसां शूले योज्यमेतत्रिदोषहृत्‍ ॥४॥
इति हीबेरघृतम्‍ ॥ इति घृतानि ॥

॥ अथ लेप: ॥
आर्कं पय: सुधाकाण्डं कटुकालाबुपल्लवा: । करञ्जो बस्तमूत्रेण लेपनं श्रेष्ठमर्शसाम्‍ ॥१॥
सिन्धूत्थं देवदाल्याश्च बीजं काञ्जीकपेषितम्‍ ॥ गुदाड्कुरान्प्रलेपेन पातयत्यचलानपि ॥२॥
कृष्णाशिरीषबीजार्कक्षीरै: सामरसैन्धवै: । हरिद्रा ऋक्षविड्‍ गुञ्जा गोमूत्रे पिप्पलीयुतै: ॥३॥
एतल्लेपत्रयं योज्यं शीघ्रमर्शोविनाशनम्‍ । ज्योतिष्काबीजकल्केन लेपो रक्तार्शसां हित: ॥४॥
कोशातकीरजोघर्षान्निपतन्ति गुदोद्भवा: । निशाकोशातकीचूर्णं स्नुकपय:सैन्धवान्वितम्‍ । गोमूत्रेण समायुक्तं लेपो दुर्नामनाशन: ॥५॥
इति लेप: ॥

॥ अथ धूप: ॥
नृकेशा: सर्पनिर्मोको वृषदंशस्य चर्म च । अर्कमूलं शमीपत्रमर्शोभ्यो धूपनं हितम्‍ ॥१॥
रालचूर्णस्य तैलेन सार्षपेण युतस्य च । धूमदानेन युक्त्यार्शोरक्तस्त्रावो निवर्तते ॥२॥
गोधूमपिष्टं पलमेव हिड्गु शाणार्धमारुष्करमब्धिसड्ख्यम्‍ ॥ स्याद्धूपदानाद्गुदशूलनाश: स्यात्सन्निपातो गुदसंभवानाम्‍ ॥३॥
इत धूप: ॥

॥ अथ रसा: ॥
विषरविगगनाय:सूतगन्धं समांशं समहुतभुगथार्द्रं कन्दकै: सप्तवारम्‍ । प्रबलगुदजकीलं हन्ति नित्योदितोऽसौ नलहतिमलबन्धे मुद्गमात्र: ससर्पि: ॥१॥
इति निरत्योदितो रस: ॥ अथार्श:कुठारो रस: ॥ भाग: शुद्धरसस्य भागयुगुलं गन्धस्य लोहाभ्रयो: षडबिल्वाग्निद्भागा: पञ्च गवां जलं सुविमलं द्वात्रिंशदेतत्पचेत्‍ ॥ स्त्रुग्दुग्धं च गवां जलावधि शनै: पिण्डिकृतं तद्भवेद्यौ माषौ गुदकीलकाननुजटाछेदे कुठारो रस: ॥१॥
इत्यर्श: कुठारो रस: ॥ इति रसा: ॥

॥ अथ पथ्यापथ्यम्‍ ॥
कुलित्था यवगोधुमा: शालयो रक्तभा हिता: । पुनर्नवा सूरणं च तक्रं धात्री कपित्थकम्‍ ॥१॥
नवनीतं तु वास्तूकं पटोलं मरिचं तथा । मृगमांसमजादुग्धं वृन्ताकं काञ्जिकं तथा ॥२॥
अर्शोरोगे तु पथ्यानि मुनिभि: कथितानि तु । वेगावरोध: स्त्रीपृष्ठयानमुत्कटकासनम्‍ । यथास्वं दोषलं चान्नमर्शस: परिवर्जयेत्‍ ॥३॥
इत्यर्शश्विकित्सा समाप्ता ॥

॥ अथाग्निमान्द्यम्‍ ॥
तत्र सन्निक्रुष्टनिदानपूर्वकोदराग्निविकारानाह । मन्दस्तीक्ष्णोऽथविषम: समश्चेति चतुर्विध: । कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोनऽल: ॥१॥

॥ अथ समविषमाद्यग्निलक्षणान्याह ॥
समा समाग्नेरेशिता मात्रा सम्यग्विपच्यते । स्वल्पापि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिन: ॥ कदाचित्पच्यते सम्यक्कदाचिन्नैव पच्यते ॥१॥
मात्रातिमात्राय्पशिता मुखं यस्य विपच्यते । तीक्ष्णाग्रिरिति तं विद्यात्समाग्नि: श्रेष्ठ उच्यते ॥२॥
विषमो वातजान्रोगांस्तीक्ष्ण: पित्तनिमित्तजान्‍ ॥ करोत्यग्रिस्तथा मन्दो विकारान्कफसंभवान्‍ ॥३॥

॥ अथैषां चिकित्सामाह ॥
समस्य रक्षणं कार्यं विशमे वातनिग्रह: । तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेश्मविशोधनम्‍ ॥१॥
सममग्निं भिषग्‍ रक्षेदन्नपानैर्नृणां हितै: । मन्दं संवर्धयेदग्निं कटुतिक्तकषायकै: ॥२॥
तीक्ष्णमग्निं दधिक्षीरपायसै: समतां नयेत्‍ । स्नेहाम्ललवणाद्यैश्च विशमाग्निमुपाचरेत्‍ ॥३॥
जरणरुचकशुण्ठीपिप्पलीतीक्ष्णवेल्लं सुलवणमजमोदाहिड्गुपथ्येतिकर्षम्‍ । पृथगथ गलमात्रं स्यात्रिवृच्चूर्णमेषां जननमुदरवह्ने: पाचनं रेचनं च ॥४॥
इत्यग्निमान्द्यम्‍ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-19T20:46:24.8770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

काळा कोळसा दुधें धुतला तरी फळ काय। रंग त्‍याचा काळा नच जाय।

  • होला ६०.८८.८९. कोळशाचा रंग कधी बदलत नाही 
  • त्‍याप्रमाणें मनुष्‍याचा स्‍वभाव कधी पालटत नाही. कोळसा पहा. 
RANDOM WORD

Did you know?

Are the advertisements necessary on your pages?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site