संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ श्रोत्रादिगतलक्षणमाह ॥

॥ अथ श्रोत्रादिगतलक्षणमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ श्रोत्रादिगतलक्षणमाह ॥
श्रोत्रादिष्विन्द्रियवधं कुर्यात्कुध्द: समीरण: ॥१॥ अथ धातुकुपितलक्षणम्‍ । तत्र रसकुपितलक्षणमाह ॥ त्वग्रुक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते । आतन्यते तरागा च पर्वरुक्‍ त्वग्गतेऽनिले ॥१॥
अश्रध्दा गौरवालस्यं ज्वरो र्सगतेऽनिले। रुजस्तीव्रा: ससन्तापा वैवर्ण्यं कृशतारुचि:॥ गात्रे चारुंषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले ॥३॥
अथ मांसमेदोगतमाह॥ सर्वाडं तुद्यते द्ण्डस्तब्धमुष्टिहतं तथा। सरुक्‍ स्तिमितमत्यर्थं मांसमेदोगतेऽनिले ॥१॥
अथ मज्जाकुपितमाह॥ भेदोऽस्थिपर्वणां सन्धिशूलं मासबलक्ष्य: । अस्वप्र:सतता रुक्च मज्जास्थिकुपितेऽनिले ॥१॥
अथ शुक्रगतमाह॥ क्षिप्रं मुश्चति बध्राति गर्भं शुक्रमथापि वा । विकृतिं जनयेव्दापि शुक्रस्थ: कुपितोऽनिल: ॥१॥
अथ शिरागतमाह॥ कुर्याच्छिरागत: शूलं शिराकुश्चनपूराणम् । बाह्याब्यन्तरमायामं खल्लीं कुब्जत्वमेव च ॥१॥
अथ स्रायुगतमाह॥ सर्वाडैकाडरोगांश्च कुर्यात्स्नायुगतोऽनिल: ॥१॥
अथ सन्धिगतमाह॥ हन्ति सन्धिगत: सन्धीञ् शूलशोफौ करोति च। प्राणोदानौ समानश्च व्यानश्चापान एव च ॥१॥
स्थानस्था मारुता: पश्च व्यापयन्ति शरीरिणाम्‍ । त्दृदि प्राणो गुदेऽपान: समानो नाभिमण्डले ॥२॥
उदान: कण्ठदेशे स्याव्द्यान: सर्वशरीरग: । प्राणे पित्तावृत्ते छर्दिर्दाहश्चैवोपजायते ॥३॥
दौर्बल्यं सदनं तन्द्रा वरैस्यं च कफावृते। उदाने पित्तयुक्ते तु दाहो मूर्च्छा भ्रम: कुम: ॥४॥
अस्वेदहर्षौ मन्दाग्रि: शीतता च कफावृत्ते । स्वेददाहौष्ण्यमूर्च्छा: स्यु: समाने पित्तसंयुते ॥५॥
कफेन सडो विण्मूत्रे गात्रहर्षश्च जायते । अपाने पित्तसंयुक्ते दाहौष्ण्यं रक्तमूत्रता ॥६॥
अध: काये गुरुत्वं च शीतता च कफावृत्ते । व्याने पित्तावृते दाहो गात्रविक्षेपणं क्रुम: ॥७॥
स्तम्भनो दण्डकश्चापि शोफशूलौ कफावृत्ते। गुरुणि सर्वगात्राणि स्तम्भनं चास्थिपर्वणम् ॥ लिडं कफावृते व्याने चेष्टास्तम्भस्तथैव च ॥८॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP