TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथातो मेहनिदानम् ॥

॥ अथातो मेहनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथातो मेहनिदानम् ॥
॥ अथातो मेहनिदानम्‍ ॥
आस्यासुखं स्वप्नसुखं दधीनि ग्राम्योदकानूपरसा: पयांसि । नवान्नपानं गुडवैकृत च प्रमेहहेतु: कफकृच्च सर्वम्‍ ॥१॥
तन्त्रान्तरे ॥ मूत्रघाता: प्रमेहाश्च शुक्रदोषास्तथैव च । मूत्रदोषाश्च ये वापि वस्तौ चैव भवन्ति हि ॥१॥
अथ कफपित्तवातमेहानां सामान्यलक्षणमाह ॥ मेदश्च मांसं च शरीरजं च क्लेदं कफो बस्तिगत:  प्रदूष्य । करोति मेहान्समुदीर्णमुष्णैस्तान्येव पित्तं परिदूष्य चापि ॥१॥
क्षीणेषु दोषेश्ववकृत्य वस्तौ धातून्प्रमेहान्कुरुतेऽनिलश्च ॥१॥
अथ क्रमेण साध्यासाध्यत्वमाह ॥ साध्या: कफोत्था दश पित्तजा: षड्याप्या न साध्या: पवनाच्चतुष्का: । समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रं ते ॥१॥
तन्त्रान्तरे ॥ ज्वरे तुल्यर्तुदोषत्वं प्रेमेहे तुल्यद्दृष्यताम्‍ । रक्तगुल्मे पुराणत्वं सुखसाध्यत्वहेतव: ॥१॥
तन्त्रान्तरे वातचतुष्टयस्य साध्यत्वमुक्तम्‍ ॥ या वातमेहान्प्रति पूर्वमुक्तान्वातोल्बणानां विहिता क्रिया सा । वायुर्हि मेहेष्वतिकर्षितेषु कुप्यत्वमेहान्प्रति नास्ति चिन्ता ॥१॥
अथ प्रमेहे दूष्यवर्गमाह ॥ कफ: सपित्त: पवनश्च दोषो मेदो‍ऽस्त्र शुक्राम्बुवसालसीका: । मज्जा रसौज: पिशितं प्रदूष्य प्रमेहिणां विंशतिरेव मेहा: ॥१॥
अथ तन्त्रान्तरे दूष्यसड्ग्रह उक्त: ॥ वसामांसशरीरस्य क्लेद: शुक्रं च शोणितम्‍ । मेदो मज्जालसीकौज: प्रमेहे दूष्यसड्ग्रह: ॥१॥
अथ पूर्वरुपमाह ॥ दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयो: । दाहश्चिक्कणता देहे तृट्‍ स्वाद्वास्यं च जायते ॥१॥
अथ सामान्यलक्षणमाह ॥ सामान्य़ं लक्षणं तेषां प्रभूताविलमूत्रता ॥ अथ कारणभेदात्कार्यभेदमाह ॥ दोषदूष्यविशेषेऽपि तत्संयोगविशेषत: । मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते ॥ साम्यग्भेदं परीक्ष्यादौ क्रिया कार्या भिषग्वरै: ॥१॥
दकमेहस्तथा चेक्षु: सान्द्रमेह: सुराभिध: । पिष्टप्रमेह: शुक्राख्य: सिकता शीतक: शनै: ॥२॥
लालामेहस्तथा क्षारो नीलमेहोऽथकालक: । हारिद्रमेहमाञ्जिष्ष्ठौ रक्तमेहस्तथापर: ॥३॥
षोडशोऽथ वसामेहो मजामेहश्च कीर्तित: । क्षौद्रमेहस्तथा हस्ती मेहानां विंशति: क्रमात्‍ ॥४॥
उदकमेहादयो दश स्युस्तान्कफजानाह ॥ तत्रोद्कमेहमाह ॥ अच्छं बहु सितं निर्गन्धमुदकोपकम्‍ । मेहत्युदकमेहेन किञ्चिदाविलपिच्छिलम्‍ ॥१॥
अथेक्षुमेहमाह ॥ इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहत: ॥१॥
अथ सान्द्रमेहमाह ॥ सान्द्रीभवत्पर्युषितं सान्द्रमेहेन मेहति ॥१॥
अथ सुरामेहमाह ॥ सुरामेही सुरातुल्यमुपर्यच्छमधो घनम्‍ ॥१॥
अथ पिष्टमेहमाह ॥ संहृष्टरोमपिष्टेन पिष्टवब्दहुलं सितम्‍ ॥१॥
अथ शुक्रमेहमाह ॥ शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति ॥१॥
अथ सिकतामेहमाह ॥ मूत्राणून्त्सिकतामेही सिकतारुपिणो मलान्‍ ॥१॥
अथ शीतमेहमाह ॥ शीतमेही सुबहुशो मधुरं बहुशीतलम्‍ ॥१॥
अथ शनैर्मेहमाह ॥ शनै: शनै: शनैर्मेही मन्दं मन्दं प्रमेहति ॥१॥
अथ लालाप्रमेहमाह ॥ लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम्‍ ॥१॥
एवं दशश्लेष्मजा: ॥ अथ षट्‍ पैत्तिकानाह ॥ तत्र क्षारमेहमाह ॥ गन्धवर्णरसस्पर्शै: क्षारेण क्षारतोयवत्‍ ॥१॥
अथ नीलकालमेहवाह ॥ नीलमेहेन नीलाभं कालमेही मषीनिभम्‍ ॥१॥
अथ हारिद्रमेहमाह ॥ हारिद्रमेही कटुकं हरिद्रासन्निभं दहत्‍ ॥१॥
अथ माञ्जिष्टमेहमाह ॥ विस्त्रं माञ्जिष्टमेहेन मञ्जिष्टासलिलोपमम्‍ ॥१॥
अथ रक्तमेहमाह ॥ विस्त्रमुष्णं सलवणं रक्ताभं रक्तमेहत: ॥१॥
एवं षट्‍ पैत्तिका: ॥ अथ चतुरो वातजानाह ॥ तत्रादौ वसामेहमाह ॥ वसामेही वसामिश्रं वसामं मूत्रयेन्मुहु: ॥१॥
अथ मज्जामेहमाह ॥ मजमिश्रं वा मज्जामेही मुहुर्मुहु: ॥१॥
॥ अथ क्षौद्रमेहमाह ॥ कषायं मधुरं रुक्षं क्षौद्रमेहेन मेहति ॥१॥
अथ हस्तिमेहमाह ॥ हस्ती मत्त इवाजस्त्रं मूत्रं वेगविवर्जितम्‍ । सलसीकं विबद्धं च हस्तिमेही प्रमेहति ॥१॥
अविपाकोऽरुचिश्छार्दिर्निद्रा कास: सपीनस: । उपद्रवा: प्रजायन्ते मेहानां कफजन्मनाम्‍ ॥२॥
इदानीं प्रतिदोषोपद्रवानाह । वस्तिमेहनयोस्त्रोदो मुष्कावदहरणं ज्वर: । दाहस्तृष्णा क्लमो मूर्च्छा विड्गभेद: पित्तजन्मनाम्‍ ॥१॥
अथ वातजानाह ॥ वातजानामुदावर्त: कण्ठहृद्‍ग्रहलोलता: । शूलमुन्निद्राता शोष: कास:  श्वासश्च जायते ॥१॥
अथासाध्यतामाह ॥ यथोक्तोपद्रवाविष्टमतिपस्त्रुतमेव च । पिटिकापीडितं गाढं प्रमेहो हन्ति मानवम्‍ ॥१॥
मूर्च्छाछर्दिज्वरश्वासकासवीसर्पगौरवै: । उपद्रवैरुपेतो य: प्रमेही दुष्प्रतिक्रिय: ॥२॥
नराणां  दृश्यते मेहस्त्रीणां किं तु न दृश्यते । अन्नपानविशेषेण दोषदूष्यक्रमेण च ॥३॥
रज: प्रवर्तते यस्मान्मासि मासि विशोधयेत्‍ । सर्वान्धातूंश्च दोषांश्च न प्रमेहन्त्यत: स्त्रिय: ॥४॥
जात: प्रमेही मधुमेहिनो वा साध्यो न रोग: सहबीजदोषात्‍ । ये चापि केचित्कुलजा विकारा भवन्ति तांश्च प्रवदन्त्यसाध्यान्‍ ॥५॥
मधुमेहिनं प्रदर्शयन्नाह ॥ सर्व एव प्रमेहास्तु कालेनाप्रतिकारिण: । मधुमेहत्वमायान्ति तदासाध्या भवन्ति हि ॥६॥
अथ तन्त्रान्तरे ॥ गुल्मी च मधुमेही च राजयक्ष्मी च यो नर: । अचिकित्स्या भवन्त्येते बलमांसपरिक्षयात्‍ ॥१॥
अथ धातुक्षयावराणाभ्यां कुपितवातेन मधुसंभवमाह ॥ मधुमेहो मधुसमं जायते स किल द्विधा । क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा ॥१॥
अथावरणमाह ॥ आवृतो दोशलिड्गानि सोऽनिमित्तं प्रदर्शयन्‍ । क्षीण: क्षणात्क्षणात्पूर्णो भजते कृच्छ्र्साध्यताम्‍ ॥१॥
अथ मधुमेहशब्दप्रवृत्तौ निमित्तमाह ॥ मधुरं यच्च मेहेषु प्रायो मध्विव मेहति । सर्वेऽपि मधुमेहाख्यं माधुर्याच्च तनोरत: ॥१॥
प्रमेहिणो यदा मूत्रमनाविलमपिच्छिलम्‍ । विशदं तिक्तकटुकं तदारोग्यं प्रचक्षते ॥१॥
इति प्रमेहनिदानम्‍ ॥ अथ प्रमेहपिटिका: ॥ प्रमेहिणां प्रजायन्ते पिटिका: सर्वसन्धिषु । शराविका कच्छपिका: जालिनी विनतालजी । मसूरिका सर्षपिका पुत्रिणी च विदारिका ॥१॥
विद्रधिश्चेति पिटिका: प्रमेहोपेक्षया दश । सन्धिमर्मसु जायन्ते मांसलेषु च धामसु ॥२॥
अथ शराविकामाह ॥ अन्तोन्नता च तद्रूपा निम्नमध्या शराविका ॥१॥

अथ सर्षपिकामाह ॥ गौरसर्षंपसंस्थाना तत्ममाणा च सर्षपी ॥१॥
अथ कच्छपिकामाह ॥ सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधै: ॥१॥
अथ जालिनिमाह ॥ जालिनी तीव्रदाहा तु मांसजालसमावृता । अवगाडरुजोत्क्लेदा पृष्ठे वाप्युदरेऽपि वा ॥१॥
अथ विनतामाह ॥ महती पिटिका नीला सा बुधैर्विनता स्मृता । महत्यल्पचिता ज्ञेया पिटिका सापिपुत्रिणी ॥१॥
अथ मसूरिकामाह ॥ मसूरदलसंस्थाना विज्ञेया तु मसूरिका ॥१॥
अथालजीमाह ॥ रक्तासिता स्फोटवती विज्ञेया त्वलजी बुधै: ॥१॥
अथ विदारीमाह ॥ विदारी दन्दद्‍वृत्ता कठिना च विदारिका ॥१॥
अथ विद्रधिकामाह ॥ विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा ॥१॥
अथ पिडिकानामारम्भकारणमाह ॥ ये यन्मया स्मृता मेहास्तेषामेतास्तु तन्मया: । विना प्रमेहमप्येता जायन्ते दुष्टमेदस: ॥१॥
वावच्चैता न लक्ष्यन्ते यावद्वस्तुपरिग्रह: । गुदे हृदि शिरस्यंसे पृष्ठे मर्मसु चोत्थिता: ॥
सोपद्रवा दुर्बलाग्रे: पिटिका: परिवर्जयेत्‍ ॥२॥
चरकेण पिडिकानामुपद्रवा उक्ता: ॥ तृट्‍कासमांससंकोचमोहहिक्कामदज्वरा: । विसर्पो मर्मसंरोध: पिटिकानामुद्रवा: ॥१॥
कैश्चित्स्त्रीणां प्रमेहो न भवतीत्युक्तं तन्त्रान्तरे । रज:प्रसेकान्नारीणां मासि मासि षिधुध्यति । सर्वं शरीरदोषं च न मेहन्ति यत: स्त्रिय: ॥१॥
प्रमेहनिवृत्तिलक्षणं सुश्रुतेऽपि पठितम्‍ । प्रमेहिणां यदा मूत्रमनाविलमपिच्छिलम्‍ । विशदं कटुतिक्तं च तदारोग्यं प्रचक्षते ॥१॥
हारिद्रवर्णं रुधिरं च मूत्रं विना प्रमेहस्य तु पूर्वरुपै: । यो मेहयत्तं न वदेत्प्रमेहं रक्तस्य पित्तस्य स हि प्रकोप ॥१॥
इति प्रमेहनिदानम्‍ ॥

॥ तच्चिकित्सा ॥
दश षट्‍ चापि चत्वार: कफपित्तसमीरजा: । साध्या याप्या असाध्यास्ते प्रमेहा: क्रमशो नृणाम्‍ ॥१॥
अथ कफमेहचिकित्सा ॥ हतीतकीकट्‍फलमुस्तलोध्रा: पाठाविडड्गार्जुनधन्वयासा: । उभे हरिद्रे तगरं विड्ड्गं कदम्बशालार्जुनदीप्यकाश्च ॥१॥
दार्वी विड्ड्गं खदिरो धवश्च सुराह्वकुष्ठार्जुनचन्दनानि । दार्व्यग्निमन्थौ त्रिफला सपासपाठा पाठा च मूर्वा च तथाश्वदंष्ट्रा ॥२॥
यवान्युशीराण्यभया गुडूचीजम्बूशिवाचित्रकसप्तपर्णा: । पादै: कषाया: कफमेहिनां ते दशोपदिष्टा मधुसंप्रयुक्ता: ॥३॥
जलप्रमेहे सुरसप्रेमेहे सान्द्रप्रमेहे च सुराप्रमेहे । पिष्टप्रमेहेऽपि च शुक्रमेहे क्रमादमी स्यु: सिकताप्रमेहे सान्द्रप्रमेहे च सुराप्रमेहे । पिष्टप्रमेहेऽपि सुखाय तेषाम्‍ ॥५॥
इति कदम्बात्‍ ॥ अथ सुश्रुतात्‍ ॥ तत्रोदकमेहिनां पारिजातकषायं पाययेत्‍ । इक्षुमेहिनां निम्बकषायम्‍ ॥ सान्द्रेमेहिनां सप्तकर्षकषायम्‍ ॥ शुक्रमेहिनां शाल्मलीकषायम्‍ ॥ पिष्टमेहिनां हरिद्राद्वितीयकषायम्‍ ॥ शुक्रमेहिनां दूर्वाशैवलप्लवकारञ्जकसेरुककषायम्‍ । ककुभचन्दनकषायं वा ॥ सिकतामेहिनां निम्बकषायम्‍ ॥ शीतमेहिनां पाठागोक्षुरकषायम्‍ ॥ शनैर्मेहिनां त्रिफलागुडूचीकषायम्‍ ॥ लालमेहिनां त्रिफलारग्वधकषायं पाययेत्‍ ॥१॥
इति कफमेहचिकित्सा ॥ अथ पित्तमेहचिकित्सा ॥ उशीरलोध्रासुरचन्दनामुशीरमुस्तामलकाभयानाम्‍ ॥ पटोलनिम्बामलकामृतानां मुस्ताभयामुष्ककवृक्षकाणाम्‍ ॥१॥
लोध्राम्बुकालीयकधातकीनां विश्वार्जुनानां मिशिसोत्पलानाम्‍ । मञ्जिष्ठहारिद्रकनीलक्षारमुष्णाख्यरक्ते क्रमश: कषाया: ॥२॥
अथ शुश्रुतात्‍ ॥ माञ्जिष्ठमेहिनां मञ्जिष्ठचन्दनकषायम्‍ पाचयेत्‍ ॥ इति पित्तमेहचिकित्सा ॥ अथ वातमेहेचिकित्सा ॥ अग्निमन्थकषायं तु वसामेहे प्रयोजयेत्‍ । पाठाशिरीषदु:स्पर्शमूर्वाकिंशुकतिन्दुकै: ॥१॥
कपित्थेन भिषक्‍ कुर्यात्‍ क्वाथं हस्तिप्रमेहके । पूगारिमेदयो: क्वाथ: सक्षौद्र: क्षौद्रमेहिनाम्‍ ॥२॥
छिन्ना वह्निकषायेण पाठाकुटजरामठम्‍ । तिक्ताकुष्ठं च संचूर्ण्यं सर्पिर्मेहे पिबेन्नर: ॥३॥
अथ सुश्रुतात्‍ ॥ अथ ऊर्ध्वमसाध्येष्वपि योगान्‍ यापनार्थं वक्ष्याम: । तद्यथा । वसामेहिनामग्रिमन्थकषायं शिंशिपाकषायं वा ॥
सर्पिर्मेहिनां कुष्ठकुटजपाठाहिड्गुकटुरोहिणीकल्कं गुडूचीचित्रककषायेण पाययेत्‍ ॥ क्षौद्रमेहिनां खदिरकदरक्रमुककषायम्‍ ॥ हस्तिमेहिनां तिन्दुककपित्थशिरीषपलाशपाठामूर्वादु:स्पर्शकषायं मधुमिश्रम्‍ । हस्त्यश्वशूकरखरोष्ट्रास्थिक्षारं चेति ॥
इति वातप्रमेहचिकित्सा ॥

॥ अथ द्वन्द्वजप्रमेहचिकित्सा ॥
कम्पिल्लसप्तच्छदशालजानि बिभीतरोहीतककौटजानि । पुष्पाणी दग्धश्च विचूर्णितानि क्षौद्रेण लिह्वात्कफपित्तमेहे ॥१॥
हरीतकीकट्‍फलमुस्तलोध्रकुचन्दनोशीरकृत: कषाय: । क्षौद्रेण युक्त: कफवातमेहं निहन्ति पीतारजसा च पीत: ॥२॥
विड्डरजनीद्वन्द्वखदिरोशीरपूगज: । क्वाथ: पीत: प्रगे हन्ति मेहं पित्तानिलोद्भवम्‍ ॥३॥
क्वाथ: खर्जूरकाश्मर्यतिन्दुकास्थ्यमृताकृत: । सुहिम: पीतमात्रस्तु सक्षौद्रो रक्तमेहहा ॥४॥

॥ अथ सामान्यप्रमेहचिकित्सा ॥
अथ फलत्रिकादि: क्वाथ: ॥ फलत्रिकं दारुनिशाविहालामुस्तं च निष्क्वाथ्य निशांशकल्कम्‍ । पिबेत्कषायम्‍ मधुसंप्रयुक्तं सर्वप्रमेहेषु चिरोत्थितेषु ॥१॥
अथ विड्ड्गादिक्वाथ: ॥ विडड्गरजनीयष्टीनागरारोक्षुरै: कृत: । कषायो मधुना हन्ति प्रमेहान्‍ दुस्तरानपि ॥१॥
अथ पलाशपुष्पाणां क्वाथ: ॥ पलाशतरुपुष्पाणां क्वाथ: शर्करया युत: । निषेवित: प्रमेहाणि हन्ति नानाविधान्यपि ॥१॥
अथ वृन्दात्‍ त्रिफलादिक्वाथ: ॥ त्रिफलादारुर्व्यब्दक्वाथ: क्षौद्रेण मेहहा । कुटजासनदार्व्यब्दफलत्रयभवोऽथवा ॥१॥
अथ वृन्दाद्‍गुडूच्यादि: ॥ गुडूच्या: स्वरस: पेयो मधुना सर्वमेहजित्‍ । निशाकल्कयुतो धात्रीरसो वा माक्षिकान्वित: ॥१॥
अथ भूधात्र्यादि: ॥ भूधात्री च त्रिगद्याणं मरीचानां च विंशति: । असाध्यान्साध्ययेन्मेहान्सप्तरात्रान्न संशय: ॥१॥
अथ कतकबीजयोग: ॥ कर्षप्रमाणं कतकय बीजं तक्रेण पिष्ट्वा सह माक्षिकेण । प्रमेहजालं विनिहन्ति सद्यो रामो यथा रावणमाहवे तु ॥१॥
अथाकुल्यादियोग: ॥ आकुलीमुकुलं धात्रीहरिद्रामधुना लिहेत्‍ । विंशति च प्रमेहाणां हन्ति सत्यं न संशय: ॥१॥
अथ निशात्रिफलायोग: ॥ द्विनिशात्रिफलायुक्तं रात्रौ पर्युषितं जलम्‍ । प्रभाते मधुना पीतं मेहमूलं निकृन्तति ॥१॥
अथ त्रिफलाकल्क: ॥ सजलं त्रिफलाकल्कमातपे धारयेत्र्यहम्‍ । तद्भाण्डे दोलिकायन्त्रे चणकान्‍ मुष्टिमात्रकान्‍ ॥१॥
अहोरात्रोषितान्खादेद्वर्धमानं दिने दिने । असाध्यं साधयेन्मेहं सिद्द्धयोग उदाहृत: ॥२॥
अथ सालमुस्तयोग: ॥ सालमुस्तककम्पिल्लकल्कमक्षं समं पिबेत्‍ । धात्रीरसेन सक्षौद्रं सर्वमेहहरं परम्‍ ॥१॥
अथ त्रिफलादिचूर्णम्‍ ॥ मधुना त्रिफलाचूर्णमथ वाश्मजतूद्भवम्‍ । लोहजं  वाभयोत्थं वा लिह्यान्मेहनिवृत्तये ॥१॥
अथ न्यग्रोधादिचूर्णम्‍ ॥ न्यग्रोधोदुम्बराश्वत्थस्योनाकारग्वधासनम्‍ । आम्रं कपित्थं जम्बुश्च प्रियालं ककुभंधवम्‍ ॥१॥
मधूकं मधुकं लोध्रं वरूणं पारिभद्रकम्‍ । पटोलं मेषशृड्गी च दन्ती  चित्रकपाटली ॥२॥
करञ्जं त्रिफला शक्रभल्लातकफलानि च । एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्‍ ॥३॥
न्यग्रोधाद्यमिदं चूर्णं महुना सह लेहयेत्‍ । फलत्रयरसं चातुपिबेन्मूत्रं विशुध्यति ॥४॥
एतेन विंशतिर्मेहा मूत्रकृच्छ्राणियानि च । वेगेन प्रशमं यान्ति पिटिका न च जायते ॥५॥
अथ कर्कटीबीजादि ॥ कर्कटीबीजसिन्धूत्थत्रिफलासमभागिकम्‍ । पीतमुष्णाम्भसा चूर्णं मूत्ररोधं निवारयेत्‍ ॥१॥
अथ गोक्षुरादिगुटी ॥ त्रिकटुत्रिफलातुल्यं गुग्गुलं च समांशकम्‍ । गोक्षुरक्काथसंयुक्तां गुटिकां कारयेद्‍बुध: ॥१॥
देशकालबलापेक्षी भक्षयेच्चानुलोमिकाम्‍ । न चात्र परिहारोऽस्ति कर्म कुर्याद्यथेप्सितम्‍ ॥२॥
प्रमेहान्वातरोगांश्च वा तशोणितमेव च । मूत्राघातं मूत्रदोषं प्रदरं चानु नाशयेत्‍ ॥३॥
इति गोक्षुरगुग्गुलगुटी ॥ अथ चन्द्रप्रभागुटी योगरत्नावल्या: ॥ वेल्लव्योषफलत्रिकं त्रिलवणं द्विक्षारचव्यानलश्यामापिप्पलिमूलमुस्तकसटीमाक्षीकधातुत्वच: । षड्‍ग्रन्थामरदारुवारणकणाभूनिम्बदन्तीनिशापत्रैलातिविषापिचुप्रतिमिता लोहस्य कर्षाष्टकम्‍ ॥१॥
त्वक्‍क्षीरीपलिकापुराद्दशपलान्यष्टौ शिलाजन्मनो मानात्कर्षसमाकृतेति गुटिका संयोज्य सर्वं भिषक्‍ । तत्रैअ प्रतिवासरं सह घृतक्षौद्रेण लिह्यादिमां तक्रं मस्तु च गोघृतं मधुरसं पश्चात्पिबेन्मात्रया ॥२॥
अर्शांसि प्रदरं ज्वरं च विषमं नाडीव्रणानश्मरीकृच्छं वि्द्रधिमग्निमान्द्यमुदरं पाण्ड्वामयं कामलाम्‍ । यक्ष्माणं सभगन्दरं सपिटिकां गुल्मप्रमेहारुचीरेतोदोषमुरक्षतं कफमरुतपित्तार्तिमुग्रां जयेत्‍ ॥३॥
वृद्धिं सञ्जनयेद्युवानमसमोजस्कं बलं वर्धयेदेतस्यां न निषिद्धमन्त्रमसकृन्नाध्वागमो मैथुनम्‍ । विख्याता गुटिकेयमञ्चिततरा चन्द्रप्रभा नामत: सान्द्रानन्दकरी तनोते च रुचिं चन्द्रेण तुल्यां तनौ ॥४॥
इति चन्द्रप्रभा गुटी ॥
अथ योगरत्नावल्या: पूगपाक: ॥ हेमाम्भोधरचन्दनं त्रिकटुकं धात्री प्रियाला: कटुर्लज्जालुत्रिसुगन्धजीरकयुगं शृड्गाटकं वंशजम्‍ । जातीकोशलवड्गधान्यबहुला: प्रत्येकमक्षोन्मिता: पूगस्याष्टपलं विचूर्ण्य च पय: प्रस्थत्रये संपचेत्‍ ॥१॥
गोसर्पि: कुडवं सितार्धकतुलाधात्रीवरीव्द्यञ्जली मन्दाग्नौ विपचेद्‍ भिषक्‍ शुभदिने सुस्निग्धभाण्डे क्षिपेत्‍ । तं खादेत्तु यथाग्नि वासरमुखे मेहांश्च जीर्णज्वरं पित्तं साम्लमसृकस्त्रुतिं च गुदजान्‍ वक्राक्षिनासासु च ॥२॥
मन्दाग्निं च विजित्य पुष्टिमतुलां कुर्याच्च शुक्रपदो योगो गर्भकर: परं गदहर: स्त्रीणामसृगदोषजित्‍ ॥३॥
अथाश्वगन्धापाक: ॥ पलान्यष्टावश्वगन्धां विपाच्य गोदुग्धे षट्‍ शेरके मन्दवह्नौ । दर्वीलेपो यावदास्ते सुपक्वश्चातुर्जातं क्षिप्य कर्षप्रमाणम्‍ ॥१॥
जातीपातं केशरं वंशसत्वं मोचं मांसीचन्दनं कृष्णसारम्‍ । पत्रीकृष्णापिप्पलीमूलदेवपुष्पं कड्कोल्लातिकाक्षोटसारम्‍ ॥२॥
भल्लीबीजं शृड्गटं गोक्षुराख्यं सिन्दूराभ्रं नागवड्गं च लोहम्‍ । कर्षार्धार्धं सर्वचूर्णं प्रकल्प्य संशोष्याथो शर्करापक्वापाके ॥३॥
पक्त्वा शीतं कारयेदश्वगन्धापाकोऽयं वै हन्ति मेहानशेषान्‍ । ज्वरं जीर्णं शोशगुल्मान्विकारान्पैत्तान्‍ वातान्‍ शुक्रवृद्धिं करोति ॥४॥
पुष्टिं दद्यादग्निसन्दीपनोऽयं कान्तिं कुर्यात्सौमनस्यं नराणाम्‍ ॥५॥
अथ सालमपाक: ॥ क्षीरे द्रोणयुतं ससालकुडवं मन्दाग्निना पाचितं यावत्पाकमुपाव्रजेत्परहितं प्रस्थं गुडं निक्षिपेत्‍ । चातुर्जातलवड्जातिफलकैर्मुस्तानुगाधान्यकै: शुण्ठीमागधिकोषणाश्मभयालोहैश्च मिश्रीकृतम्‍ ॥१॥
हृद्रोगक्षयशोषमारुतगदान्‍ हिक्कास्वसृक्‍शोषणे विंशन्मेहशिरोविकारशमनो रोगानशेषाञ्जयेत्‍ ॥२॥
अथ द्राक्षापाक: ॥ द्राक्षा दुग्धसिता पृथक्‍ परिमिता प्रस्थेन संपाचिता युक्त्या वैद्यवरेण चूर्णमधुना देयं पलार्धं पृथक्‍ । चातुर्जातकटुत्रयं मृगमदं लोहाभ्रकं केशरं पत्री जातिफलं मृगाड्करजतं कुस्तुम्बरी चन्दनम्‍ ॥१॥
सम्यग्जातरसं प्रभातसमये सेव्यं द्विकर्षोन्मितं स्निग्धं शुक्रकरं प्रमेहशमनं पित्तामयध्वंसनम्‍ । मूत्राघातविबन्धकृच्छ्रशमनं रक्तार्दिनेत्रार्तिहृत्‍ पादे पाणितले विदाहशमनं सौख्यप्रदं प्राणिनाम्‍ ॥२॥
इति पाका: ॥

॥ अथासवघृततैलादि ॥
अथ लोध्रासव: ॥ लोध्रं शटीपुष्करमूलमेलां मूर्वाविड्ड्गं त्रिफलायवानीम्‍ । चव्यं प्रियड्गुक्रमुकं विशालां किराततिक्तं कटुरोहिणीं च ॥१॥
भार्गीनतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषां सपाठाम्‍ । कलिड्काकेसरमिन्द्रसाह्वं नखं सपत्रं मरिचं प्लवं च ॥२॥
द्रोणेम्भस: कर्षमानि पक्त्वा पूते चतुर्भागजलावशेषे । रसेऽर्धभागे मधुन: प्रदाय पक्षं विधेयो घृतभाजनस्थ: ॥३॥
लोध्रासवोऽयं कफपित्तमेहान्क्षिप्रं निहन्याद्विपलप्रयोगात्‍ । पाण्ड्वामयार्शांस्यरुचिग्रहण्या दोषं किलासं विविधं च कुष्ठम्‍ ॥४॥
इति लोध्रासव: ॥ अथ सिंहामृतघृतम्‍ ॥ कण्टकार्या गुडूच्याश्च संहरेच्च शतं शतम्‍ । संकुट्योलूखले विद्वांश्चतुद्रोणेऽम्भस: पचेत्‍ ॥१॥
तच्चपादवशेषेण घृतप्रस्थं विपाचयेत्‍ । त्रकटुत्रिफलारास्त्राविड्ड्गान्यथ चित्रकम्‍ ॥२॥
काश्मर्याणां च मूलानि पूतिकस्य त्वगस्य च । कुट्टयेदिति सर्वाणि श्लक्ष्णपिष्टानि कारयेत्‍ ॥३॥
अस्य मात्रां पिबेत्प्रात: शालिभि: पयस हितै: । प्रमेहं मधुमेहं च मूत्रकृच्छ्रं भगन्दरम्‍ ॥४॥
आलस्यं चान्त्रवृद्धिं च कुष्ठरोगं विशेषत: । क्षयं चापि निहन्त्येतन्नाम सिंहामृतं घृतम्‍ ॥५॥
अथ हरिद्रादितैलम्‍ ॥ निशारसं चतुष्प्रस्थं द्विप्रस्थक्षीरसंयुतम्‍ कुष्ठाश्वगन्धालशुननिशापिप्पलिकलिकतम्‍ ॥ विपक्वं तिलजप्रस्थं मेहानां विंशतिं जयेत्‍ ॥१॥
इति हरिद्रादितैलम्‍ ॥ अथ लेपनम्‍ ॥ क्षीरमौन्दुम्बरं यत्नाद्‍ बाकुचीं च प्रयोजयेत्‍ । पिटिकासु समस्तासु लेपनं संप्रशान्तये ॥१॥
अथ रसयोगगुटिकादि । तत्रादौ हरिशड्कररस: ॥ सूताभ्रमामलजलै: सप्तवारं विभावयेत्‍ । हरिशड्करसंज्ञ: स्याद्रस: सर्वप्रमेहनुत्‍ ॥१॥
अथ मेघनादरस: ॥ सूतं कान्तं गन्धतीक्ष्णं ताप्यं व्योषं फलत्रिकम्‍ । शिलाजतुशिलाड्कोलबीजं रात्रिकपित्थम‍ ॥१॥
त्रि:सप्तकृत्वा भृड्गाद्भिर्भावयेन्निष्कसंज्ञक: । मधुना मेघनादो‍ऽयं सर्वमेहान्विनाशयेत्‍ ॥२॥
महानिम्बस्य बीजानि पेषयेत्तण्डुलाम्बुना । सघृतान्यचिराद्धन्यु: पानान्मेहांश्चिरोत्थितान्‍ ॥३॥
अथ मेहकुञ्जरकेसरी रस: ॥ रसगन्धायसाभ्राणि नागवड्गौ सुवर्णकम्‍ । वज्रकं मौक्तिकं सर्वमेकीकृत्य विचूर्णयेत्‍ ॥१॥
शतावरीरसेनैव गोलकं शुष्कमातपे । बुद्ध्वा शुष्कं तमुद्‍धृत्य शरावे सुदृढे क्षिपेत्‍ ॥२॥
सन्धिलेपं मृदा कुर्याद्‍ गर्तायां गोमयाग्निना । पुटेद्यामचतु:सड्ख्यमुद्‍धृत्य स्वाड्गशीतलम्‍ ॥३॥
श्वक्ष्णखल्वे विनि:क्षिप्य गोलं तं मर्दयेद्‍ दृढम्‍ । देवब्राह्मणपूजां च कृत्वा धृत्वाथ कूपिके ॥४॥
खादेद्वल्लद्वयं प्रात: शीतं चानुपिबेज्जलम्‍ । अष्टादश प्रमेहांश्च जयेन्मासोपयोगत: ॥५॥
तुष्टिं तेजोबलं वर्णशुक्रवृद्धिं च दारुणम्‍ । अग्नेर्बलं वितनुते मेहकुञ्जरकेसरी ॥ दिव्यं रसायनं श्रेष्ठं नात्र कार्या विचारणा ॥६॥
अथ मेहान्तको रस: ॥ मृताभ्रमकान्तलोहानां नागवड्गौ विशोधितौ । यथोत्तरं भागवृद्ध्या खल्वमध्ये विनि:क्षिपेत्‍ ॥१॥
तलपोटेन वाराह्या शतावर्या हिमाम्बुना । भावनात्र प्रकर्तव्या यामं यामं पृथक्‍ पृथक्‍ ॥२॥
चणमात्रां वटीं कृत्वा नवनीतेन सेवयेत्‍ । प्रातरुत्थाय विधिना सर्वमेहकुलान्तक: ॥३॥
शाल्यन्नं सपटोलं च तण्डुलीयकवास्तुकम्‍ । मत्स्याक्षीमुद्गयूषं च अपक्वकदलीफलम्‍ ॥४॥
अर्शांसि ग्रहणीदोषं मुत्रकृच्छ्राश्मरीप्रणुत्‍ । कामलापाण्डुशोफांश्च अपस्मारतक्षतक्षयान्त्‍ ॥ रक्तकासविनाशे स्यात्पञ्चलोहरसायनम्‍ ॥५॥
अथ मेहारिरस: ॥ वड्गभस्ममृतं सूतं तुल्य़ं क्षौद्रे विमर्दयेत्‍ । द्विगुञ्जो लेहयेन्नित्य़ं हन्ति मेहांश्चिरन्तनान्‍ ॥६॥
अथ चन्द्रकलावटी ॥ एला सकर्पूरशिला सधात्री जातीफलं केसरशाल्मली च । सूतेन्द्रवड्गायसभस्भ सर्वमेतत्समानं परिभावयेच्च ॥१॥
गुडूचिकाशाल्मलिकाकषायैर्निष्कार्धमानं मधुना ततश्च । बद्ध्वा वटीं चन्द्रकलेतिसज्ञां सर्वप्रमेहेषु नियोजयेत्ताम्‍ ॥२॥
अथ वडेश्वर: ॥ रसमेकं त्रयो वड्गं वड्गसाम्य़ं तु गन्धकम्‍ । मर्दयेद्दिनमेकं तु कुमार्या: स्वरसे बुध: ॥१॥
संस्थाप्य गोलकं भाण्डे रोधयेत्सुदृढं मुखम्‍ । पाचयेद्वालुकायन्त्रे दिनमेकं दृढाग्निना ॥२॥
स्वाड्गशीतलमादाय संपूज्य द्विजदेवता: । पिप्पलीमधुना युक्तं सर्वमेहेषु योजयेत्‍ ॥३॥
क्षीरान्नं योजयेत्पथ्यमम्लं लवणवर्जितम्‍ । रसो वड्गेश्वरो नाम सर्वमेहनिकृन्तन: ॥४॥
अथ महावड्गेश्वर: ॥ वड्गं कान्तं च गगनं हेमपुष्पं समं समम्‍ । कुमारीरसतो भाव्यं सप्तवारं भिषग्वरै: ॥१॥
एष वड्गेश्वरो नाम प्रमेहान्विंशतिं जयेत्‍ । मूत्रकृच्छ्रं सोमरोगं पाण्डुरोगं महाश्मरीम्‍ ॥ रसायनमिदं श्रेष्ठं नागार्जुनविनिर्मितम्‍ ॥२॥
इति महावड्गेश्वरो रस: ॥ अथ वड्गभस्मप्रयोगगुणाश्च ॥ वड्गं शिलाजतुयुतं तु मतं प्रमेहे धातुक्षये दुर्बलनष्टशुक्रयो: । अभ्रेण युक्तं तु सुतप्रदं स्याज्जातीफलार्ककरहाटलवड्गयुक्तम्‍ ॥१॥

शाल्मलीत्वग्रसोपेतं सक्षौद्रजनीरज: । वड्गभस्म हरेन्मेहान्पञ्चानन इव द्विपान्‍ ॥२॥
गुडूचीसारमधुना वड्गभस्म प्रमेहनुत्‍ । नागभस्म तथैवापि सर्वमेहविनाशनम्‍ ॥३॥
पयो गवां सखण्डकं त्रिकण्टवड्गवल्लकं प्रमेहभल्लकं परं बुधा वदन्ति सादरम्‍ ॥४॥
अथ वड्गगुणा: ॥ तिक्तकं सलवणं च भेदकं पाण्डुजन्तुशमनं सुशीतम्‍ । मेहदाहशमनं च कान्तिदं वड्गमाहुरिति मारुतापहम्‍ ॥१॥
अथाभ्रकयोग: ॥ निश्चन्द्रमभ्रकं भस्म सवरारजनीरज: । मधुना लीढमचिरात्‍ प्रमेहान्विनिवर्तयेत्‍ ॥१॥
अथ नागभस्मयोग: ॥ शुद्धस्य च मृतस्याहे रजो वल्लमितं लिहेत्‍ । सुनिशामलकं क्षौद्रं सर्वमेहप्रशान्तये ॥१॥
अथ गन्धकयोग: ॥ गन्धकं गुडसंयुक्तं कर्षं भुक्त्वा पय: पिबेत्‍ । विंशतिस्तेन नश्यन्ति प्रमेहा: पिटिका अपि ॥१॥
अथ शिलाजतुयोग: ॥ शिलाजतु रसं पीत्वा प्रात: क्षीरसितायुतम्‍ । मुच्यते सर्वमेहेभ्यस्त्रिसप्तदिवसैर्नर: ॥१॥
अथ स्वर्णमाक्षिकभस्मयोग: ॥ माक्षिकं मधुना लीढं मेहं हरति सर्वथा । गुडूचीसत्वसंयुक्तं पित्तमेहे व्यपोहति ॥१॥
अथ वसन्तकुसुमाकर: ॥ पृथग्व्दौ हाटकं चन्द्रं त्रयो वड्गाहिकान्तजम्‍ । चत्वार: सूतमभ्रं च प्रवालं मौक्तिकं तथा ॥१॥
भावना गव्यदुग्धेक्षुवासाश्रीद्विजलैर्निशा । मोचकन्दरसै: सप्त क्रमाद्भाव्यं पृथक्‍ पृथक्‍ ॥२॥
शतपत्ररसेनैव मालत्या: कुसुमैस्तथा । पश्चान्मृगमदैर्भाव्य: सुसिद्धो रसराड्ग भवेत्‍ ॥३॥
कुसुमाकरविख्यातो वसन्तपदपूर्वक: । वल्लद्वयमित: सेव्य: सिताज्यमधुसंयुत: ॥४॥
वलीपलितहृन्मेध्य: कामद: सुखद: सदा । मेहघ्न: पुष्टिद: श्रेष्ठ: परं वृष्यो रसायनम्‍ ॥५॥
आयुर्वृद्धिकरं पुंसां प्रजाजननमुत्ततम्‍ । क्षयकासतृषोन्मादश्वासारक्तविषार्तिजित्‍ ॥६॥
सिताचन्दनसंयुक्तमम्लपित्तादिरोगजित्‍ । शुक्लपाण्डवामयाञ्शूलान्मूत्राघाताश्मरीं हरेत्‍ ॥७॥
योगवाहि त्विदं सेव्यं कान्तिश्रीबलवर्धनम्‍ । सुसात्म्यमिष्टभोजी च रमयेत्प्रमदाशतम्‍ ॥८॥
मदनं मदयेन्मदमुज्ज्वलयन्‍ प्रमदानिवहानतिविह्वलयन्‍ । सुरतै: सुखदैर्गतिविच्यनैर्भवसारजुषामयमेवसुहृत्‍ ॥९॥
अथ जलजामृतरस: ॥ तवक्षीरं शिला धातुर्वड्गं कुण्डलिसत्वकम्‍ । मेहारिबीजसंयुक्तं विदारीजीवनीरसै: ॥१॥
भावयेत्तन्त्रिवारं तु सितोपलसमन्वितम्‍ । जलजामृतविख्यातो रसोऽयं मेहकृच्छ्रनुत्‍ ॥२॥
प्रमेहपिटिकानां तु प्राक्कार्यं रक्तमोक्षणम्‍ । पाटनं तु विपक्कानां तासां पाने प्रशस्यते ॥३॥
क्वाथो व्रणघ्नोऽत्र वस्तिर्मूत्रैस्तीक्ष्णैर्विरेचनम्‍ । व्रणप्रतिक्रिया सर्वा कार्यात्रापि भिषग्वरै: ॥४॥

॥ अथ पथ्यापथ्यम्‍ ॥
श्यामाककोद्रवोद्दालगोधूमचणकाढकी । शालिमुद्गकुलित्थाश्च मेहिनां देहिनां हिता: ॥१॥
मेदोघ्ना बद्धमूत्राश्च समा: सर्वेषु धातुषु । यवास्तस्मात्प्रशस्यन्ते मेहेषु च विशेष: ॥२॥
तिक्तशाकं पटोलानि जाड्गलामिषजा रसा: । सैन्धवं मरिचं चैव मेहिनामाहरेद्भिषक्‍ ॥३॥
सदासनं दिवा निद्रा नवान्नानि दधीनि च । मूत्रवेगं धूमपानं स्वेदं शोणितमोक्षणम्‍ ॥४॥
सौवीरकं सुरा सूक्तं तैलं क्षारं घृतं गुडम्‍ । आम्लेक्षुरसपिष्टान्नानूपमांसानि वर्जयेत्‍ ॥५॥
इति पथ्यापथ्यम्‍ ॥ इति प्रमेहचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-03T20:04:11.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

branchial efferent nucleus

  • क्लोम अपवाही केंद्रक 
RANDOM WORD

Did you know?

Is there any reference in Vedas or puranas for eating non-veg food?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.