TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथात: पाण्डुरोगनिदानम् ॥

॥ अथात: पाण्डुरोगनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथात: पाण्डुरोगनिदानम् ॥
॥ अथात: पाण्डुरोगनिदानम् ॥
पाण्डुरोगा: स्मृता: पञ्च वातपित्तकफैस्त्रय: । चतुर्थ: सन्निपातेन पञ्चमो भक्षणान्मृद: ॥१॥
व्यवायमम्लं लवणानि मद्यं मृदं दिवा स्वप्नमतीव तीक्ष्णम्‍ । निषेवमाणस्य विदूष्य रक्तं दोषास्त्वचं पाण्डुरतां नयन्ति ॥२॥
अथ पूर्वरुपमाह । त्वकस्फोटनिष्ठीवनगात्रसादमृद्भक्षणप्रेक्षणकूटशोथा: । विण्मूत्रपीत्वमथाविपाको भविष्यतस्तस्य पुर:सराणि ॥१॥
अथ वातिकमाह ॥ विण्मूत्रनयनादीनां रुक्षकृष्णारुणाभता । वातपाण्ड्वामये कम्पतोदानाहभ्रमादय: ॥१॥
अथ पैक्तिकमाह ॥ पीतमूत्रशकृन्नेत्रो दाहतृष्णाज्वरान्वित: । भिन्नविट्‍कोऽतिपीताभ: पित्तपाण्वामयी नर: ॥१॥
अथ श्लैष्मिकमाह ॥ कफप्रसेकश्वयथुतन्द्रालस्यातिगौरवै: । पाण्डुरोगी कफाच्छुक्लैस्त्वड्मूत्रनयनाननै: ॥१॥ अथ त्रिदोषजमाह ॥
सर्वान्नसेविन: सर्वे दुष्टा दोषास्त्रिदोषजम्‍ । त्रिदोषलिड्गं कुर्वन्ति पाण्डुरोगं सुदु:सहम्‍ ॥१॥ इति चरके ॥
ज्वरारोचकहृल्लासच्छर्दितृष्णाक्लमान्वित: । पाण्डुरोगी त्रिभिर्दोषैस्त्याज्य: क्षीणो हतेन्द्रिय: ॥२॥
अथ मृत्तिकाजन्यमाह ॥
मृत्तिकादनशीलस्य कुप्यन्यन्यतमो मल: । कषाया मारुतं पित्तमूषरा मधुरा कफम्‍ ॥१॥
कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तं च रुक्षयेत्‍ । पूरयत्यविपक्लैव स्त्रोतांसि निरुणद्ध्यपि ॥२॥
इन्द्रियाणां बलं हत्वा तेजो वीर्यौजसी तथा । पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम्‍ ॥३॥
अथ मृज्जस्य लक्षणमाह ॥ शूनाक्षिकूटगण्डभू: शूनपन्नाभिमेहन: । क्रिमिकोष्ठोऽतिसार्येत मलं चासृक्कफान्वितम्‍ ॥१॥

॥ अथासाध्यलक्षणमाह ॥
पाण्डुरोगाश्चिरोत्पन्न: खरीभूतो न सिध्यति । कालप्रकर्षाच्छूनाड्गो यो वा पीतानि पश्यति ॥१॥
बद्धाल्पविट्‍ सहरितं सकफं योऽतिसार्यते । दीन: श्वेतातिदिग्धाड्गश्छर्दिमूर्छातृषान्वित: ॥ स नास्त्यसृकक्षाद्यस्तु पाण्डुश्वेतत्वमाप्नुयात्‍ ॥२॥
अन्यच्च । पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत्‍ । पाण्डुसंघातदर्शी च पाण्डुरोगी विनश्यति ॥१॥
अन्तेषु शूनं परिहीनमध्यं म्लानं तथान्तेषु च मध्यशूनम्‍ । गुदे ऽथ शेफस्यथ मुष्कयोश्च शूनं प्रताम्यं तमसंज्ञकल्पम्‍ ॥
विवर्जयेत्पाण्डुकिनं यशोऽर्थी तथातिसारज्वरपीडितं च ॥२॥ कामलाकारणमाह ॥
पाण्डुरोगे च योऽत्यर्थं पित्तलानि निषेवते । तस्य पित्तमसृड्मांसं दग्ध्वा रोगाय कल्पते ॥१॥

॥ अथ कामलास्वरुपमाह ॥
हारिद्रनेत्र: स भृशं हारिद्रत्वाड्‍नखानन: । रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रिय: ॥१॥
दाहाविपाकदौर्बाल्यसदनारुचिकर्शित:  । कामला बहुपित्तैषा कोष्ठशाखाश्रया मता ॥२॥
कालान्तरात्खरीभूता कृच्छ्रा स्यात्कुम्भकामला । कृष्णपीतशकृन्नेत्रो भृशं शूनश्च मानव: ॥३॥
सरक्ताक्षिमुखच्छार्दिविण्मूत्रो यश्च ताम्यति । दाहारुचितृडानाहतन्द्रामोहसमन्वित: ॥ नष्टाग्निसंज्ञ: क्षिप्रं हि कामलावान्विपद्यते ॥४॥
छर्द्यरोचकह्रुल्लासज्वरक्लमनिपीडित: ॥ नश्यति श्वासकासार्तो विड्भेदी कुम्भकामली ॥५॥

॥ अथ पाण्डुरोगावस्थायां हलीमकमाह ॥
यदा तु पाण्डोर्वर्ण: स्याद्धारीतश्यावपीतक: । बलोत्साहक्षयस्तन्द्रामन्दाग्नित्वं मृदुज्वर: ॥ स्त्रीष्वहर्षोऽड्गमर्दश्च सादस्तॄष्णारुचिर्भ्रम: ॥१॥
हलीमकं तदा तस्य विद्यादनिलपित्तत: । पाण्डुरुककामलामुम्भकामला च हलीमकम्‍ ॥२॥
सन्तापो भिन्नवर्चस्त्वं बहिरन्तश्च पीतता । पाण्डुता नेत्रयोर्यस्य पानकीलक्षणं भवेत्‍ ॥३॥
इति पाण्डुरोगकामलाहलीमकनिदानम्‍ ॥
===
॥ अथात: पाण्डुरोगचिकित्सा ॥
साध्यं च पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम्‍ । सम्यादयेत्क्षौद्रघृतप्रगाढैर्हरीतकीचूर्णमयप्रयोगै: ॥१॥
पिबेद्‍घृतं वा रजनीविपक्वं यश्रैफलं तैल्वकमेकमेव । विरेचनद्रव्यकृतं पिबेद्वा योगांश्च वैरेचनिकान्‍ घृतेन ॥२॥
विधि: स्निग्धोऽत्र वातोत्थे तिक्त: शीतश्च पैत्तिके । श्लैष्मिके पाण्डुगदे पिबेतम्‍ । ज्वरेऽतिसारे श्वयथौ ग्रहण्यां कासेऽरुचो कण्ठहृदामयेषु ॥४॥
फलत्रिकामृतावासातिक्ताभूनिम्बनिम्बज:  । क्वाथ: क्षौद्रयुतो हन्यात्पाण्डुरोगं सकामलम्‍ ॥५॥
पुनर्नवानिम्बपटोलशुण्ठीतिक्तामृतादार्व्यभयाकषाय: । सर्वाड्गशोफोदरपाण्डुरोगस्थौल्यप्रसेकोर्ध्वकफामयेषु ॥६॥
==
॥ अथ नवायसचूर्णम्‍ ॥
त्र्यूषणत्रिफलामुस्ताविड्ड्गदहना: समा: । नवायोरजसो भागास्तच्चूर्णं मधुसर्पिषा । भक्षयेत्पाण्डुहृद्रोगकुष्ठार्श: कामलापहम्‍ ॥१॥
इति नवायसचूर्णम्‍ ॥ लोहपात्रस्थितं क्षीरं सप्ताहं पथ्यभोजन: । पिबेत्पाड्वामयी शोषी ग्रहणीदोषपीडित: ॥१॥
दग्ध्वाक्षकाष्ठैर्मलमायसं तु गोमूत्रनिर्वापितसप्तवारम्‍ । विचूर्ण्यं लीढं मधुना चिरेण तक्रेण वा पाण्डुगदं निहन्यात्‍ ॥२॥
इति वीरसिंहावलोकन: ॥ अतिशुद्धमयोभस्म मधुक्षौद्रयुतं लिहेत्‍ । पाण्डुरोगस्य नाशाय कामलानां च सर्वश: ॥१॥
नागरं लोहचूर्णं वा कृष्णां पथ्यामथाश्मजम्‍ । गुग्गुलं वाथ मूत्रेण कफपाण्ड्वामयी पिबेत्‍ ॥२॥
शिलाजतु क्षौद्रविड्ड्गसर्पिर्लोहाभयाशर्करया समक्षम्‍  । आपूर्यते दुर्बलदेहधारी त्रिपञ्चरात्रेण यथा शशाड्क: ॥३॥
वृदान्त्‍ ॥
अयस्तिलत्र्यूषणकोलभागै: सर्वै: समं माक्षिकधातुचूर्णम्‍ । तैर्मोदक: क्षौद्रयुतो नु तक्र: पाण्ड्वामये दूरगतेऽपि शस्त: ॥१॥

॥ अथ मण्डूरवटका: ॥
सुराब्ददार्वीकटुषट्कताप्यवेल्लं वरा चेति समांशचूर्णम्‍ । मण्डूरभागद्वयमष्टमूत्रे पक्त्वा गवां तक्रसमं च योज्यम्‍ ॥१॥
कामलापाण्डुमेहार्श:शोथकुष्ठकफामयान्‍ । ऊरुस्तम्भमजीर्णं च प्लीहानं नाशयन्ति च ॥२॥
इति रत्नप्रदीपात्‍ ॥
===
 
॥ अथ मण्डूवज्रवटक: ॥
पञ्चकोलं समरिचं देवदारु फलत्रिकम्‍ । विडड्गमुस्तायुक्ताश्च भागास्त्रिपलसंमिता: ॥१॥
यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं तत: । पक्वात्वाष्टगुणिते मूत्रे तद्‍घनीभूतमुद्धरेत्‍ ॥२॥
ततोऽक्षमात्रान्वटकान्‍ पिबेत्तक्रेण तक्रभुक्‍ । पाण्डुरोगं जयेत्तद्वन्मन्दाग्नित्वमरोचकम्‍ ॥३॥
मण्डूरवज्रवटको रोगानीकप्रभेदन: । सर्शांसि ग्रहणीं शोफमूरुस्त्म्भं हलीमकम्‍ । कृमीन्प्लीहानमुदरं गलरोगं च नाशयेत्‍ ॥४॥

॥ अथ मण्डूरलवणम्‍ ॥
कृत्वाग्निवर्णं मलमायसं तु मूत्रेऽभिषिञ्चेद्वबहुशो गवां च । तत्रैव सिन्धूत्थसमं विपाच्यं निरुद्धधूमं च बिभीतकाग्नौ ॥१॥
तक्रेण पीतं मधुनाथवापि बिभीतकाख्यं लवणं प्रयुक्तम्‍ । पाण्ड्वामयिभ्यो हितमेतदस्मात्पाण्ड्वामयघ्नं न हि किञ्चिदन्यत्‍ ॥२॥
इति योगतरड्गिण्या: ॥

॥ अथ मधुमण्डूर: ॥
गृहीत्वा पृथकप्रस्थमण्डूरभागं शृते त्रैफले मर्दयित्वा च यामम्‍ । पुटे पाचयेद्याम युग्मं कृशानौ पुटानीह देयानि चन्द्राक्षिवारम्‍ ॥१॥
तथा धेनुमूत्रे कुमारीरसे च विधेयश्च पञ्चामृते योगराज: । भवेत्‍ सिन्धुनागै: पुटै: सिद्धिदोऽयमचिन्त्यप्रभावश्च मण्डूर एष: ॥२॥
मधुमण्डुर एष कणामधुना चिरपाण्डुगदं ननु हेममित: । जनको रुधिरस्य निहन्ति परं विविधार्तिहरस्त्वनुपानबलै: ॥३॥
==
॥ अथ मण्डूराद्योऽरिष्ट: ॥
मण्डूरस्य तु शुद्धस्य तुलार्धं परिकीर्तिततम्‍ । तद्वल्लोहस्य पत्राणि तिलोत्सेधप्रमाणत: ॥१॥
पुराणगुडपञ्चाशत्‍ कोलप्रस्थत्रयं तथा । निकुम्भचित्रकाभ्यां च पले द्वे द्वे सुचूर्णिते ॥२॥
पिप्पलीनां विड्ड्गानां कुडवं कुडवं पृथक्‍ । त्रींश्चापि त्रिफलाप्रस्थाञ्जलद्रोणे समावपेत्‍ ॥३॥
अर्धमासस्थितो धान्ये पेयोऽरिष्ट: प्रमाणत: । दोषानुभयत: श्राव्य पाण्डुरोगे नियच्छति ॥४॥
कृमीनर्शांसि कुष्ठं च कासश्वासकफामयान्‍ । एषोऽरिष्टस्तु मण्डूर: सर्वपाण्ड्वामयापह: ॥५॥
==
॥ अथ गदनिग्रहात्‍ मण्डूराद्योऽरिष्ट: ॥
रेचनं कामलार्तस्य स्निग्धस्यादौ प्रयोजयेत्‍ । तत: प्रशमनी कार्या क्रिया वैद्येन जानता ॥१॥
पाण्डुरोगक्रियां सद्यो योजयेच्च हलीमके । मलानुसरणं दृष्ट्वा सापि कार्या भिषग्‍वरै: ॥२॥
हरिद्रात्रिफलानिम्बबलामधुकसाधितम्‍ । सक्षीरं माहिषं सर्पि: कामलापहमुत्तमम‍ ॥३॥
त्रिफलया गुडूच्या वा दार्व्या निम्बस्य वा रसम्‍ । प्रातर्मंधुयुतं वैद्य: कामलार्ताय योजयेत्‍ ॥४॥
दार्वीसत्रिफलाव्योषबिड्ड्गानयसो रज: । मधुसर्पिर्युतं लिह्यात्कामलापाण्डुरोगवान्‍ ॥५॥
अयोरजो व्योषविडड्गचूर्णं लिह्याद्धरिद्रां त्रिफलान्वितां वा । सशर्करां कामलिनां त्रिभंड्गीहिता गवाक्षी सगुडा च शुण्ठी ॥६॥
धात्रीलोहरजोव्योषनिशाक्षौद्रं सशर्करम्‍ । लीढं निवारयत्याशु कामलामुद्धतामपि ॥७॥
लोहचूर्णं निशायुग्मं त्रिफलां कटुरोहिणीम्‍ । प्रलिह्य मधुसर्पिर्भ्यां कामलार्त: सुखी भवेत्‍ ॥८॥
व्योषाग्निवेल्ल त्रिफलामुस्तैस्तुल्यमयोरज: । चूर्णितं तक्रमध्वाज्यकोष्णतोयोपयोजितम्‍ ॥९॥
कामलापाण्डुतदृद्रोगकुष्ठार्शोमेहनाशनम्‍ । तुल्यं वायोरज: पथ्यां हरिद्रां क्षौद्रसर्पिषा ॥१०॥
चूर्णितां कामली लिह्याद्गुडक्षौद्रेण वाभयाम्‍ । एलाजीरकभूधात्रीसितागव्येन भावयेत्‍ ॥११॥
पात: संसेवनं कुर्यात्कामलानाशनं परम्‍ । निशाचूर्णं कर्षमितं दग्ध: पलमितं तथा ॥१२॥
प्रात: ससेवनं कुर्यात्कामलानाशनं परम्‍ । अर्कमूलं हरेन्नस्यात्कामलां तण्डुलोदकै: ॥१३॥
अञ्जनं कामलार्तस्य द्रोणपुष्पीरसस्य तु । निशागैरिकधात्रिणां चूर्णं चोपरि लेपयेत्‍ ॥१४॥
गोदुघ्धेन विशालाया मुनिसंख्यादलानि तु । जीरकेन युतं पेष्यं रसमेकं पलं पिबेत्‍ ॥१५॥
अथवा तज्जटाद्रावं कर्षार्धं दुग्धमिश्रितम्‍ । पाययेत्तु प्रतिदिनमेवमेतद्दिनत्रयम्‍ ॥१६॥
घृतदुग्धौदनं पथ्यं कुर्याद्वै लवणं विना । कामलां नाशयत्याशु वायुरभ्रं हरेद्यथा ॥१७॥

॥ अथ घृतानि ॥
अथ गुडूचीघृतम्‍ । गुडूचीस्वरसे सर्पि: सक्षीरं माहिषं घृतम्‍ । चतुर्गुणेन पयसा पाययेत्तद्धलीमके ॥१॥
इति गुडूचीघृतम्‍ । व्योषं बिल्वं द्विरजनी त्रिफला द्वि:पुनर्नवम्‍ । मुस्ता अयोरज: पाठा विड्ड्गं देवदारु च ॥१॥
वृश्चिकाली च भाड्गीं च सक्षीरैस्तैर्घृतं शुभम्‍ । सर्वान्‍ प्रशमयत्याशु विकारान्मृतिकाकृतान्‍ ॥२॥
इति व्योषादिघृतम्‍ ॥
==
॥ अथामलक्यवलेह: ॥
रसमामलकाआं तु संशुद्धं यत्रपीडितम्‍ । द्रोणं पचेच्च मृद्वग्नौ तत्र चेमानि दापयेत्‍ ॥१॥
चूर्णितं पिप्पलीमस्थं मधुकं द्विपलं तथा । प्रस्थं गोस्तनिकायाश्च द्राक्षाया: किल पेषितम्‍ ॥२॥
शृड्गबेरपले द्वे तु तुगाक्षीर्या: पलद्वयम्‍ । तुलार्धं शर्करायाश्च घनीभूतं समुद्धरेत्‍ ॥३॥
मधुप्रस्थसमायुक्तं लेहयेत्पलसम्मितम्‍ । हलीमकं कामलां च पाण्डुत्वं चापकर्षति ॥४॥
इत्यामलक्यवलेह: ॥
==
॥ अथ त्निफलाद्यवलेह: ॥
त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च । भागाश्चित्रकमूलस्य विड्ड्गानां तथैव च ॥१॥
पञ्चाश्मजतुनो भागास्तथा रुप्यमलस्य च । माक्षिकस्य च शुद्धस्य लोहस्य रजसस्तथा ॥२॥
अष्टौ भागा: सितायास्तु तत्सर्वं मधुसंयुतम्‍ । श्लक्ष्णचूर्णं सुसंस्थाप्यमायसे भाजने शुभे ॥३॥
उदुम्बरसमां मात्रां तत: खादेद्यथाग्निना । दिने दिने प्रयोक्तव्यं जीर्णे भोज्यं यथेप्सितम्‍ ॥४॥
वर्जयित्वा कुलत्थांस्तु काकमाचीकपोतकान्‍ । पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम्‍ ॥५॥
कुष्ठान्यजीर्णकं मेहं श्वासं शोफमरोचकम्‍ । विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च ॥६॥
इति त्रिफलाद्यवलेहो योगतरड्गिण्या: ॥ अथ हंसमण्डूर: ॥
मण्डूरं चूर्णयेच्छुलक्ष्णं गोमूत्रेऽष्टगुणे पचेत्‍ । पञ्चकोलं देवदारु मुस्ता व्योषपलत्रयम्‍ ॥१॥
विडड्गं स्यात्प्रतिपलं पाकान्ते चूर्णितं क्षिपेत्‍ । भक्षयेत्कर्षमात्रं च तक्रे तक्रं च भोजने ॥२॥
पाण्डुशोफं हलीमं च ऊरुस्तम्भं च कामलाम्‍ । अर्शांसि हन्ति नो चित्रं हंसमण्डूरको ह्ययम्‍ ॥३॥
==
॥ अथ मदेभ्रसिंहसूतो रस: ॥
काश्यपग्रन्थे ॥ रसगन्धवराटताम्रशड्खं विषवड्गाभ्रककान्ततीक्ष्णमुण्डम्‍ । अहिहिड्गुलटड्कणं समांशं सकलै: स्यान्निगुणं पुराणकिट्ट्म्‍ ॥१॥
पशुमूत्रविशोधितं सुभृष्ट्वा त्रिफलाभृड्गमथार्द्रकोत्थनीरै: । सुविशोष्य वरामृतालिवासास्वरसैरष्टगुणै: पुनर्नवोत्थै: ॥२॥
पृथगग्निकृतं घनं विपाच्यं गुलिका गुञ्जमिता निजानुपानै: । ज्वरपाण्डुतृषास्त्रपैत्यगुल्मक्षयकासस्वरमग्निसादमूर्च्छाम्‍ ॥३॥
पवनादिषु दुस्तराष्ठरोगान्‍ सकलं पित्तहरं मदावृतं च । बहुना किमसौ यथार्थनामा सकलव्याधिहरो मदेभसिंह: ॥४॥
इति मदेभसिंह: ॥
==
॥ अथ त्रिलोक्यनाथरस: ॥
पलानि चत्वारि रसस्य पञ्च गन्धस्य सत्वस्य गुडूचिकाया: । व्योषस्य चूर्णस्य च तालमूल्या: सशाल्मलस्येह पलत्रयं स्यात्‍ ॥१॥
पृथक्‍ पृथक्‍ षड्‍गगनस्य चाष्टौ लोहस्य सर्वं त्रिफलाजलेन । घृष्टं चतुष्षष्टिमितं तदर्धा: स्युर्भावनामार्कवजद्रवस्य ॥२॥
शिग्रूत्थनीरेण च षोडशाष्टौ तथा नलोत्थाद्‍ गृहकन्यकाया: ॥ आर्द्रद्रवस्येति रसोऽयमुक्त: पाण्डुक्षयश्वासगदादिहर्ता ॥३॥
क्षौद्रेण वा शर्करया घृतेन कर्षार्धमेतस्य भजेत्प्रयत्नात्‍ ॥ इति रसरत्नप्रदीपात्‍ ॥

॥ अथ पथ्यापथ्यम ॥
यवगोधूमशाल्यन्नं रसैर्जाड्गलजै: शुभै: । मुद्गाढकमसूराद्यै: पाण्डौ भोजनमिष्यते ॥१॥
वह्निमातपमायासमन्नपानं च पित्तलम्‍ । मैथुनं क्रोधमध्वानं पाण्डुरोगी सदा त्यजेत्‍ ॥२॥
इति पाण्डुकामलाहलीमकचिकित्सा समाप्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-19T20:55:10.8470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

vigliance commission

  • दक्षता आयोग 
RANDOM WORD

Did you know?

शंखनादाविषयी कांही माहिती पाहिजे.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.