संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ क्वाथः ॥

॥ अथ क्वाथः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


पानीयं षोडशगुणं क्षुण्णे द्रव्यपले क्षिपेत्‌ ।
मृत्पात्रे क्काथयेद्ग्राह्यमष्टमांशावशेषितम्‌ ॥१॥
तज्जलं पाययेद्धीमान्कोष्णं मृद्वग्रिसाधितम्‌ ।
शृतः क्काथः कषायश्च निर्यूहः स निगद्यते ॥२॥
आहाररसपाके च संजाते द्विपलोन्मितम्‌ ।
वृद्धवैद्योपदेशेन पिबेत्क्काथं सुपाचितम्‌ ॥३॥
क्काथे क्षिपेत्सितामंशैश्चतुर्थाष्टमषोडशैः ।
पित्तवातकफातङ्के विपरीतं मधु स्मृतम्‌ ॥४॥
जीरकं गुग्गुलं क्षारं लवणानि शिलाजतु ।
हिङ्गु त्रिकटुकं चैव क्कथे शाणमितं क्षिपेत्‌ ॥५॥
क्षीरं घृतं तैलमूत्रं चान्यद्द्रव्यं तथा क्षिपेत्‌ ।
कल्कचूर्णादिकं क्काथे निक्षिपेत्कर्षसंमितम्‌ ॥६॥
स यथा ।
गुडूचीधान्यकारिष्टपद्मकारक्त्तचन्दनैः ।
गुडूच्यादिरयं क्काथः सर्वज्वरहरः स्मृतः ॥७॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP