TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ सप्तधातुगतज्वराणां लक्षणम् ॥

॥ अथ सप्तधातुगतज्वराणां लक्षणम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ सप्तधातुगतज्वराणां लक्षणम्‍ ॥
॥ अथ सप्तधातुगतज्वराणां लक्षणम्‍ ॥
गुरुता हृदयोत्केश: सदनं छर्द्यरोचकौ । रसस्थे च ज्वरे लिड्गं दैन्यं चास्योपजायते ॥१॥
रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमी । प्रलाप: पिटिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम्‍ ॥२॥
पिण्डिकोद्वेष्टने मूर्छा सृष्टमूत्रपुरीषता । उष्मान्तर्दाहविक्षेपौ ग्लानि: स्यान्मांसगे ज्वरे ॥३॥
भृशं स्वेदस्तृषा मूर्छा प्रलापश्छर्दिरेव च । दौर्गन्ध्यारोचकौ ग्लानिर्मेदस्थे चासहिष्णुता ॥४॥
भेदोऽस्त्रां कूजनं श्वासो विरेकश्च्छार्दिरेव च । विक्षेपनं च गात्राणां विद्यादस्थिगतज्वरे ॥५॥
तम: प्रवेशनं हिक्का कास: शैत्यं वमिस्तथा । अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे ॥६॥
मरणं प्राप्रुयात्तत्र शुक्रस्थानगते ज्वरे । शेफस: स्तब्धता मोक्ष: शुक्रस्य च विशेषत: ॥७॥
इति सप्तधातुगतज्वरलक्षणम्‍ ॥

॥ अथैषां चिकित्सा ॥
रसस्थे च ज्वरे तस्मिन्कुर्याद्वमनलड्घने । सेकसंशमनालेपरक्तमोक्षास्त्वकृग्गते ॥१॥
तीक्ष्णान्विरेकांश्च तथा कुर्यान्मांसगते ज्वरे । मेदोगे मेदसो नाशमस्थिस्थे कान्तमासनम्‍ ॥२॥
वस्तिकर्म प्रयोक्तव्यमभ्यड्गोद्वर्तनं तथा । मज्जशुक्रे क्रिया नोक्ता मरणं तत्र भाषितम्‍ ॥३॥
कटुका रोहिणी मुस्ता पिप्पलीमूलमेव च । हरीतकी च तत्तोयमामाशयगते ज्वरे ॥४॥
इति सप्तधातुगतज्वर्चिकित्सा ।

॥ अथ मधुरज्वरलक्षणम्‍ ॥
ज्वरो दाहो भ्रमो मोहो ह्यतीसारो वमिस्तृषा । अनिद्रा मुखरोगश्च ताले जिह्वा च शुष्यति ॥१॥
ग्रीवायां परिदृश्यन्ते स्फोटका: सर्षपोपमा: । एभिस्तु लक्षणैर्विद्यान्मन्थराख्यं ज्वरं नृणाम्‍ ॥२॥
मुस्ता पर्पटको यष्टी गोस्तनी समभागत: अष्टावशेषत: क्वाथो निपीतो मधुना सह ॥३॥
पित्तभ्रमं ज्वरं दाहं हन्ति च्छर्दियुक्तं मन्थरज्वरनाशनम्‍ । मक्षिका गुडसंयुक्ता ज्वरे मन्थरके तथा । भ्रममोहातिसारांश्च नाशयत्र्यविलम्बत: ॥५॥ इति मधुरज्वरचिकित्सा ।
चलदलतरुसेवाहोममन्त्रास्त्रिनेत्रद्विजगुरुजनपूजा विष्णुनाम्नां सहस्त्रम्‍ । मणिधृतिरपि दनान्याशिषस्तापसानां सकलमिदमरिष्ठं स्पष्टमष्टज्वराणाम्‍ ॥१॥
समुद्रस्योत्तरे तीरे द्विरदो नाम वानर: । तस्य स्मरणमात्रेण ज्वरा यान्ति दिगन्तरम्‍ ॥२॥ इति ज्वरचिकित्साकथनम्‍ ॥

॥ अथ पथ्यापथ्यविधिमाह ॥
आलोक्य वैद्यतन्त्राणि यत्नादेष निबध्यते । व्याधितानां चिकित्सार्थं पथ्यापथ्यविनिश्चय: ॥१॥
निदानौषधपथ्यानि त्रीणि यत्नेन चिन्तयेत्‍ । तेनैव रोगा: शीर्यन्ते शुष्के नीर इवाड्कुरा: ॥२॥
रुक्षु सर्वास्वपथ्यानि यथास्वं परिवर्जयेत्‍ तात्स्वपथ्यैर्विवर्धन्ते दोहदैरिव वीरुध: ॥३॥
विनापि भ्षजैर्व्याधि: पथ्यादेव विलोयते । न तु पथ्यविहोतस्य भेषजानां शतैरपि ॥४॥
दोषान्दूष्यान्देशकालौ सात्म्यं सत्वं बलं वय: । विकृतिं भेषजं वह्निमाहरं च विशेषत: ॥५॥
नीरीक्ष्य मतिमान्वैद्यश्चिकित्सां कर्तुमुद्यत: । पथ्यानि योजयेन्नित्यं यथास्त्वं सर्वरोगिषु ॥६॥
मत: सर्वेषु रोगेषु प्राय: श्रेष्ठतमो ज्वर: । अतस्त्वस्यिव प्रथमं पथ्यापथ्यं वदाम्यहम्‍ ॥७॥

॥ अथ तरूणज्वरे दोषादीन्वीक्ष्य वमनादीनि कार्याणीत्याह ॥
वमनं लड्घनं काले यवागूस्वेदनानि च । कटुतिक्तरसैश्वैव पाचनं तरुणे ज्वरे ॥१॥
सन्निपाते हितान्याह । सन्निपाते त्विदं सर्वं कुर्यादामाकफापहम्‍ । अवलेहोऽञ्जनं नस्यं गण्डूषाश्च रसक्रिया: ॥२॥
अन्यान्यपि हितान्याह । पादयोर्हस्तयोर्मूले कण्ठकूपे च गण्डयो: । स्वेदे भृष्ट्कुलत्थानां चूर्णघर्षणमाचरेत्‍ ॥१॥

॥ अथ तरुणज्वरेऽहितान्याह ॥
स्नानं विरेकं सुरतं कषायं व्यायाममभ्यञ्जनमह्नि निद्राम्‍ । दुग्धं घृतं वैदलमामिषं च तक्रं सुरां स्वादुग्रुरुद्रवं च ॥ अन्नं प्रवातं भ्रमणं प्रकोपं त्यजेत्प्रयत्नात्तरुणज्वरार्त: ॥१॥

॥ अथ मध्यमज्वरे हितान्याह ॥
पुरातना: षष्टिकशालयश्च वार्ताकसौभाञ्जनकारवेल्लम्‍ । वेत्राग्रमाषाढपलं पटोलं कर्कोटकं मूलकपोतिका च ॥१॥
मुद्गैर्मसूरैश्चणकै: कुलत्थैर्मकुष्ठकैर्वा विहितश्च यूष: पाठापृतावास्तुकतण्डुलीयजीवन्तिशाकानि च काकमाची ॥२॥
द्राक्षाकपित्थानि च दाडिमानि वैकड्कतान्येव पचेलिमानि । लघूनि सात्म्यानि च भेषजानि पथ्यानि मध्यज्वरिणाममूनि ॥३॥

॥ अथ पुराणज्वरे हितान्याह ॥
विरेचनं छर्दनमञ्जनं च नस्यं च धूमोऽप्यनुवासनं च । शिराव्यध: संशमनं प्रदेहोऽम्यड्गोऽवगाह: शिशिरोपचार: ॥१॥
अन्यान्यपि पुराणज्वरे हितानि । एण: कुलिड्गो हरिणो मयूरो लाव: शशस्तित्तिरकुकुटौ च । क्रौञ्च: कुरड्ग: पृषश्चकोर: कपिञ्जलो वर्तककालपुच्छौ ॥१॥
गवामजायाश्च पयो घृतं च हरीतकी पर्वतनिर्झराम्भ: । एरण्डतैलं सितचन्दनं च द्र्व्याणि सर्वाणि पुरेरितानि । ज्योत्स्ना प्रियालिड्गनमप्यं स्याद्वर्ग: पुराणज्वरिणां सुखाय ॥२॥
॥ अथागन्तुकज्वरे हितानि ॥
आगन्तुके ज्वरे नैव नर: कुर्वीत लड्घनम्‍ । अभिचाराभिशापोत्थे जपहोमादिभेषजम्‍ ॥१॥
उत्पातग्रहपीडोत्थे दानस्वस्त्ययनादिभि: । कामशोकभयोद्भुते सर्वा वातहरी क्रिया ॥२॥
आश्वासनं चेष्टलाभो हर्षदायीनि यानि च । हर्षेण च समायान्ति कामशोकभयज्वरा: ॥३॥
क्रोधजे पित्तजित्कार्यं प्रियासद्वाक्यमेव च । औषधी गन्धविषजौ विषपित्तप्रसादनै: ॥४॥
अध्वश्रान्तेषु चाभ्यड्ग दिवा निद्रां च कारयेत्‍ । मन: क्षोभसमुत्पन्ने मनस: सान्त्वनानि च ॥
अभिघातसमुत्थाने पानाभ्यड्गौ च सर्पिष: । रक्तावसेकमद्यैश्च तथा मांसरसौदनै: ॥६॥
क्षतजे व्राजे चापि क्षतव्रणचिकित्सितम्‍ । इत्यागन्तुज्वरे पूर्वं भिषग्मि: पथ्यमीरितम्‍ ॥७॥

॥ अथ विषमज्वरे हितानि ॥
विष्णोर्नामसहस्त्रस्य पठनं श्रवणं श्रुते: । देवानां ब्राम्हणानां च गुरुणामपि पूजनम्‍ ॥१॥
ब्रम्हचर्यं तपो होम: प्रदानं नियमो जप: । साधूनां दर्शनं श्रेष्ठं रत्नौषविविधारणम्‍ ॥ मड्गलाचरणं चेति वर्ग: सर्वज्वराञ्जयेत्‍ ॥२॥
व्यायामं च व्यवायं च स्त्नानं चड्क्रमणानि च । ज्वरमुक्तो न सेवेत यावन्नो बलवान्भवेत्‍ ॥३॥
इति ज्वरचिकित्साकथनं समाप्तम्‍ ॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-17T21:19:41.5730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

परोपदेशपांडित

  • m  A term for a man profuse of edvice and admonition, but backward at exhibiting an example. 
RANDOM WORD

Did you know?

श्रीदत्तपुराणटीका and more books for shree dattaray
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site