TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ गलगण्डगण्डमालापचीग्रन्थ्यर्बुदनिदानमाह ॥

॥ अथ गलगण्डगण्डमालापचीग्रन्थ्यर्बुदनिदानमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ गलगण्डगण्डमालापचीग्रन्थ्यर्बुदनिदानमाह ॥
अथ गलगण्डादिनिदानमाह । निबद्ध: श्वयथुर्यस्य मुष्कवल्लम्बते गले । महान्वा यदि वा हृस्वो गलगण्डं तमादिशेत्‍ ॥१॥
अथोक्तं भोजेनापि । महान्तं शोथमल्पं यदि वा हृस्वो गलगण्डं तमादिशेत्‍ ॥१॥
अथोक्तं भोजेनापि । महान्तं शोथमल्पं वा हनुमन्यागलाश्रयम्‍ । लम्बन्तं मुष्कवद्‍ दृष्ट्वा गलगण्डं विनिर्दिशेत्‍ ॥१॥
अथ तस्य संप्राप्तिमाह ॥ वात: कफश्चापि गले प्रदुष्टो मन्ये तु संश्रित्य तथैव मेद: । क्रुर्वन्ति गण्डं क्रमश: स्वलिड्गै: समन्वितं तं गलगण्डमाहु: ॥१॥
अथ तत्र वातिकमाह ॥ तोदान्वित: कृष्णशिरावनद्ध: श्यावारुणो वा पवनात्मकस्तु । पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात्कदाचित्‍ ॥१॥
वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोष: ॥१॥

अथ श्लैष्मिकमाह ॥ स्थिर: सवर्णो गुरुरुग्रकण्डू: शीतो महांश्चापि कफात्मकस्तु । चिराभिवृद्धिं भजते चिराद्वा प्रपच्यते मन्दरुज: कदाचित्‍ ॥ माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेप: ॥१॥

अथ मेदोजमाह ॥ स्निग्धो गुरु: पाण्डुरनिष्टगन्धो मेदोभव: कण्डुयुतोऽल्परुक्च । प्रलम्बतेऽलाबुवदल्पमूलो देहानुरुपक्षयवृद्धियुक्त: ॥१॥
स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽनुशब्दं कुरुतेऽतिमात्रम्‍ ॥ अथासाध्यत्वमाह ॥ कृच्छ्राछ्वसन्तं मृदुसर्वगात्रं संवत्सरातीतमरोचकार्तम्‍ । क्षीणं च वैद्यो गलगण्डयुक्तं भिन्नस्वरं चापि विवर्जयेद्धि ॥१॥
अथ स्थानतुल्यतया गण्डमालामिहैवाह ॥ कर्कन्धुकोलामलकप्रमाणै: कक्षां समन्यागलवड्गक्षणेषु । मेद:कफाभ्यां चिरमन्दपाकै: स्याद्गण्डमाला बहुभिश्च गण्डै: ॥१॥
यदाह भोज: ॥ वातपित्तकफा वृद्धा मेदश्चापि समन्वितम्‍ । जड्घयो: कण्डरां प्राप्य मत्स्याण्डसदृशान्‍ बहून्‍ ॥१॥
कुर्वन्ति ग्रन्थींस्तांस्तेभ्य: पुन: प्रकुपितो‍ऽनिल: । तान्‍ दोषानूर्ध्वगो वक्ष:कक्षामन्यागलाश्रित: ॥२॥
नाना प्रकारान्‍ कुरुते ग्रन्थीन्‍ सात्वपची इव । अपची कण्ठमन्यासु कक्षावड्क्षणसन्धिषु ॥ गण्डमालां विजानीयादपचीतुल्यलक्षणाम्‍ ॥३॥
अथ गण्डमालातुल्यतया अपचीमाह ॥ ते ग्रन्थय: केचिदवाप्तपाका: स्त्रवन्ति नश्यन्ति भवन्ति चान्ये । कालानुबन्धं चिरमादधाति सैवापचीति प्रवदन्ति केचित्‍ ॥१॥
तस्या: साध्यासाध्यत्वमाह ॥ साध्या: स्मृता: पीनसपार्श्वशूलकासज्वरच्छर्दियुतास्त्वसाध्या: ॥१॥
अथापचीरुपगुणतया ग्रन्थिकामाह ॥ वातादयो मांसमसृक्‍प्रदुष्टा: संदूष्प मेदश्च तथा शिराश्च । वृत्तोन्नतं विग्रथितं तु शोथं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्ट: ॥१॥
अथ वातिकमाह ॥ आयम्यते वृश्चति तुद्यते च प्रत्यस्यते मथ्यति भिद्यते च । कृष्णो मॄदुर्वस्तिरिवाततश्च भिन्न: स्त्रवेच्चानिलजोऽस्त्रमच्छम्‍ ॥१॥
अथ पैत्तिकमाह ॥  दन्तह्यते धुप्यति चूष्यते च पापच्यते प्रज्वलतीव चापि । रक्त: स पीतोऽप्यथ वापि पित्ताद्भिन्न: स्त्रवेद्दुष्टमती चास्त्रम्‍ ॥१॥
अथ श्लैष्मिकमाह ॥ शीतो विवर्णोऽल्परुजोऽतिपाण्डू: पाषाणवत्संहननोपपन्न: । शिराभिवृद्धिश्च कफप्रकोपाद्भिन्न: स्त्रवेच्छुक्लघनं च पूयम्‍ ॥१॥ अथ मेदोजमाह ॥ शरीरवृद्धि: क्षयवृद्धिहानि:स्निग्धो महान्‍ कण्डुयुतोऽल्परुक्‍ च । मेद:कृतो गच्छति चात्र भिन्ने पिण्याकसर्पि:प्रतिमं च मेद: ॥१॥
उक्तं च भोजेन ॥ मेदो वायुर्यदा मांसे निक्षिपेदथवा त्वचि । तत्र मेदोभवो ग्रन्थि: श्यावो भवति पाण्डुर: ॥१॥
कृश: महान्‍ स्थूले ग्रन्थिश्च्छिन्नश्च पीडित: । तिलकल्कनिभ: स्त्रावो घृतवच्चास्य जायते ॥२॥
अथ शिराजग्रन्थे: सम्प्राप्तिमाह ॥ व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुस्तु शिराप्रतानम्‍ । सड्कुच्य संपीड्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम्‍ ॥ ग्रन्थि: शिराज: स तु कृच्छ्रसाध्यो भवेद्यदि स्यात्सरुजश्चलश्च ॥१॥
अथ तस्यासाध्यत्वमाह ॥ स चारुजश्चाप्यचलो महांश्च मर्मास्थिजश्चापि विवर्जनीय: ॥१॥
उक्तं भोजेन ॥ पजञ्चैतानरुजो ग्रन्थीन्‍ मर्मजानबलांस्तयजेत्‍ । कपोलगलमन्यासु दुश्चिकित्स्याश्च सन्धिषु ॥१॥
अर्थार्बुदान्याह ॥ तस्य संप्राप्तिमाह ॥ गात्रप्रदेशे क्वचिदेव दोषा: समुत्थिता: मांसमसृक्‍ प्रदूष्य । वृत्तं मृदुं मन्दरुजं महान्तमनल्पमूलं चिरवृद्धिपाकम्‍ ॥ कुर्वन्ति मांसोच्छ्रयमत्यगाधं तदर्बुधं शास्त्रविदो वदन्ति ॥१॥
अथ तस्य संख्यामाह ॥ वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च । तज्जायते तस्य च लक्षणानि ग्रन्थे: समानानि सदा भवन्ति ॥१॥
अथ रक्तार्बुदमाह ॥ दोषा: प्रदुष्टा रुधिरं शिराश्च संकुच्य संपीड्य गतस्त्वपाकम्‍ । सास्त्रावमुन्नह्यति मांसपिण्डं मांसाड्कुरैराचितमाथु वृद्धिम्‍ ॥१॥
कुर्वन्त्यजस्त्रं रुधिरप्रवृत्तिप्रसाध्यमेतद्रुधिरात्मकं तु । रक्तक्षयोपद्रवपीडितत्वापाण्डुर्भवेदर्बुदपीडितस्तु ॥१॥
मांसजस्य सम्प्रापित्माह । मुष्टिप्रहारादिभिरार्दितेऽड्गे मांसं प्रदुष्टं जनयेत्तु शोथम्‍ । अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम्‍ ॥ प्रदुष्टमांसस्य नरस्य गाढमेतद्भवेन्मांसपरायणस्य ॥१॥

अथास्यासाध्यत्वमाह ॥ मांसार्बुदं त्वेतदसाध्यमुक्तम्‍ ॥ अस्य साध्येष्वप्यसाध्यान्‍ प्रकारानाह ॥ साध्येष्वपीमानि विवर्जयेत्तु ॥
संप्रस्त्रुतं मर्मणि यच्च यातं स्त्रोत:सु वा यच्च भवेदचाल्यम्‍ ॥१॥
अध्यर्बुदलक्षणमाह ॥ यज्जायतेऽन्यत्‍ खलु पूर्वजाते ज्ञेयं तदध्यर्बुदमर्बुदज्ञै: यद्‍द्वन्द्वजातं युगपत्‍ क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम्‍ ॥१॥
उक्तं भोजेन ॥ अर्बुदे त्वर्बुदं जातं द्वन्द्वजं चानुजं च यत्‍ । यद्विरर्बुदमिति ज्ञेयं तच्चासाध्यं विनिर्दिशेत्‍ ॥१॥
अर्बुदानाम्पाकाभावे हेतुमाह ॥ न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु । दोषस्थिरत्वाद्‍ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु ॥१॥ इति गलगण्डादिनिदानम्‍ ॥
==
॥ अथ गलगण्डचिकित्सा ॥
स्वेदोऽनिलोत्थे गलगण्ड आदौ नाड्यानिलग्घौषधपत्रपिण्डै: । स्वेदपनाहौ कफसंभवेऽपि कृत्वा क्रमं श्लेष्महरं विदध्यात्‍ ॥१॥
अथ वातगण्डे ॥ निचुलं शिग्रुमुलानि दशमूलमथापि च । आलेपनं वातगण्डे सुखोष्णं संप्रशस्यते ॥१॥
अथ कफगण्डे ॥ देवदारु विशालां च कफगण्डे प्रलेपनम्‍ । छर्दनं शीर्षरेकश्च सर्वो रेचनिको हित: ॥१॥
अथ मेदोगण्डे ॥ मेद:समुत्थेऽत्र यथोपदिष्टां विध्येच्छिरां स्निग्धतनोर्नरस्य । श्यामासुधालोहपुरीषदन्तीरसाञ्जनैश्चापि हित: प्रलेप: ॥१॥
॥ अथ सामान्ययोग: ॥ तण्डुलोदकपिष्टेन मूलेन परिलेपित: । हित: कर्णे पलाशस्य गलगण्ड: प्रशाम्यति ॥१॥
जलकुम्भीकजं भस्म पक्त्वा गोमूत्रगालितम्‍ । पिबेत्कोद्रवतक्राशी गलगण्डनिवृत्तये ॥२॥
महिषीमूत्रविमिश्रं लोहमलं संस्थितं घटे मासम्‍ । अन्तर्धूमविदग्धं मधुना गलगण्डनाशनं लीढम्‍ ॥३॥
सूर्वावर्तरसोनाभ्यां गलगण्डोपनाहनम्‍ । स्फोटास्त्रावै: शमं याति गलगण्डौ न संशय: ॥४॥
सर्षपा: शिग्रुबीजानि शणबीजातसीयवा: । मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत्‍ ॥५॥
गण्डानि ग्रन्थयश्चैव गण्डमालास्तथैव च । लेपनात्तेन शाम्यन्ति विलय़ं यान्ति वाचिरात्‍ ॥६॥
जीर्णकर्कारुकरसो बिडसैन्धवसंयुत: । नस्येन तरूणं हन्ति गलगण्डं न संशय: ॥७॥
श्वेतापराजितामूलं प्रात: पिष्ट्वा पिबेन्नर: । सर्पिषा नियताहारो गलगण्डप्रशान्तये ॥८॥
तिक्तालाबुफले पक्वे सप्ताहमुषितं जलम्‍ । गलगण्डं निहन्त्याशु पानात्पथ्यानुशीलिन: ॥९॥
अथामृतादितैलम्‍ ॥ तैलं पिबेच्चामृतवल्लिहिड्गुनिम्बाभयावृक्षकपिप्पलीभि: । सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे ॥१॥
अथ तुम्बीतैलम्‍ ॥ विड्ड्गक्षारसिन्धूग्रारास्नाग्निव्योषदारुभि: । कटुतुम्बीफलरसै: कटुतैलं विपाचितम्‍ ॥ चिरोत्थमपि नस्येन गलगण्डं
विनाशयेत्‍ ॥१॥
अथ वेधविधि: ॥ जिह्वाध: पार्श्वयोर्मूलाच्छिरा द्वादश कीर्तिता: । तासां स्थूले शिरे द्वे च च्छिन्द्याते च शनै: ॥१॥
बडिशेनैव संगृह्य कुशपत्रेण बुद्धिमान्‍ । स्त्रुते रक्ते व्रणे तस्मिन्‍ दद्यात्सगुडमार्द्रकम्‍ ॥२॥
भोजनं चानभिष्यन्दि यूष: कौलत्थ इष्यते । यवमुद्गपटोलादि कटुरुक्षं तु भोजनम्‍ ॥ छर्दि च रक्तमुक्तिं च गलगण्डे प्रयोजयेत्‍ ॥३॥
इति गलगण्डचिकित्सा ॥

॥ अथ गण्डमालापचीचिकित्सा ॥
ब्रह्मदण्डीयमूलं तु पिष्टं तण्डुलवारिणा । स्फुटितां हन्ति लेपेन गण्डमालां न संशय: ॥१॥
निजद्रवेण संपिष्टं मुण्डीमूलं प्रलेपयेत्‍ । गण्डमाला क्षयं याति तद्दवं च पिबेत्पलम्‍ ॥२॥
काञ्चनारत्वच: क्वाथ: शुण्ठीचूर्णेन नाशयेत्‍ । गण्डमालां तथा क्वाथ: क्षौद्रेण वरुणत्वच: ॥३॥
जलेन पेषयेत्तुल्यं काञ्चनीचित्रकं विषम्‍ । सप्ताहं लेपयेद्यस्य यदि स्याद्गण्डमालिक ॥ स्फुटन्ती नात्रा सन्देहोऽस्फोटे लेपमिमं क्रुरु ॥४॥
आरग्वधशिफां पिष्ट्वा सम्यक्‍ तण्डुलवारिणा । तेन नस्यप्रलेपाभ्यां गण्डमालां समुद्धरेत्‍ ॥५॥
अथ त्रिफलाद्यो गुग्गुल: ॥ षटपलं त्रिकटु ज्ञेयं त्रिफलात्र पलद्वयम्‍ । काञ्चनारत्वचाचूर्णं योजयेद्वादशं पलम्‍ ॥१॥
गुग्गुल: सर्वतुल्य: स्यात्सर्वमेकत्र कुट्टयेत्‍ । क्षौद्रं पलशतं देयं गुटिकां कर्षसंमिताम्‍ ॥ भक्षयेद्गण्डमालार्तो गलग्रन्थिं च नाशयेत्‍ ॥२॥
अथ काञ्चनारगुग्गुल: ॥ पलानां दशकं ग्राह्यं काञ्चनारत्वचो बुधै: । षट्‍पला त्रिफला ग्राह्या व्योषं ग्राह्यं पलत्रयम्‍ ॥१॥
पलैकं वरुणस्यापि त्वगेलापत्रकं तथा । कर्षकर्षमितं ग्राह्यं सर्वाण्येकत्र चूर्णयेत्‍ ॥२॥
सर्वं चूर्णमिदं यावत्तावन्मात्रस्तु गुग्गुलु: । संमर्द्य गुटिका: कार्या: शाणमात्रास्ततो बुध: ॥३॥
एकैकां भक्षयेत्प्रातर्बुद्धिमांश्च सदा नर: । गण्डमालां जयेदुग्रामपचीमर्बुदानि च ॥४॥
ग्रन्थीन्‍ नृणां सगुल्मांश्च कुष्ठानि च भगन्दरम्‍ । अनुपाने प्रयोक्तव्य: क्वाथो मुण्डीसमुद्भव: ॥ क्वाथो वा खदिरस्याथ पथ्याक्वाथोऽथ
चाल्पक: ॥५॥
अथाजमोदादितैलम्‍ ॥ अजमोदा च सिन्दूरं हरितालं निशाद्वयम्‍ । क्षारद्वयं फेनयुतं सार्धकं सरलोद्भवम्‍ ॥१॥
इन्द्रवारूण्यपामार्गकदलीकन्दकै: समै: । एभि: सार्षपकं तैलमजामूत्राष्टयोजितम्‍ ॥२॥
मृद्वग्नौ पाचयेदेतत्स्नुह्यर्कक्षीरसंयुतम्‍ । अजमोदादिकं तैलं गण्डमालां व्यपोहति ॥३॥
आमां विदग्ध्वा तु पचेत्पक्वां चैव विशोधयेत्‍ । रोपणं मृदुभावं च तैलेनानेन कारयेत्‍ ॥४॥
अथ निर्गुण्डीतैलम्‍ ॥ निर्गुण्डीस्वरसेनाथ लाड्गलीमूलकल्कितम्‍ । तैलं नस्येन हन्त्याशु गण्डमालां सुदुस्तराम्‍ ॥१॥
अथ छुच्छुन्दरीतैलम्‍ ॥ छुच्छुन्दर्या विपक्वं तु क्षणात्तैलवरं ध्रुवम्‍ । अभ्यड्गान्नाशयेनृणां गण्डमालां सुदारुणाम्‍ ॥१॥
अथ गुञ्जातैलम्‍ ॥ गुञ्जामूलफलैस्तैलं तोयद्विगुणितं पचेत्‍ । तस्याभ्यड्गेन शमयेद्गण्डमालां सुदारुणम्‍ ॥१॥
अथ गन्धकादियोग: ॥ गन्धकं टड्कणं सिन्धुकाञ्चनीनवसारकम्‍ । सौवर्चलं यवक्षारं काचं रक्तं सुवर्चलम्‍ ॥१॥
सितं रक्तं च पाषाणं मूषकोत्थं नियोजयेत्‍ । जेपालबीजमज्जा च सर्वं जम्बीरपीडितम्‍ ॥२॥
शस्त्रैश्छित्त्वा प्रदातव्यं वेष्टमेरण्डपत्रकै: । एवं त्र्यहास्त्स्फुटन्त्यत्र दघ्यन्नं बन्धयेत्तत: ॥३॥
गण्डमालाग्रन्थ्यपच्यो बहिर्निर्यान्ति नान्यथा । अभिमन्त्र्य सितं सायं रवौ प्रात: समाहरेत्‍ ॥४॥
पेटारीमूलकं धूपैर्धूपयित्वाथ खण्डयेत्‍ । चतुर्दशगुणै: सूत्रैर्बद्‍ध्वा ग्रन्थिं गले स्थितम्‍ ॥५॥
मन्त्र: ॐ गुडं प्रसाहि तिरि तिरि चित्रपुटक भुगनाड्गते पापटगालापरदशमूलवासुकालदेपालरेदं गुरुप्रसादात्‍ ॥
॥ अथ गन्धकादिलेप: ॥ गन्धकं सूतकं तुल्यमर्कक्षीरं ससैन्धवम्‍ । पिष्ट्वा च काञ्चनीमूलं लेपोऽयं गण्डमालिके ॥१॥
अथ जेपालपत्रवटी ॥ पिष्ट्वा जेपालपत्राणि स्वरसेन ततो वटी । छायाशुष्का ततो लेपाद्गपाण्डमाला विनश्यति ॥१॥
॥ अथ भल्लातकादिलेप: ॥ भल्लातकासीसहुताशदन्तीमूं गुडस्नुगरविदुग्धदिग्धै: । लेपान्वितैर्गच्छति गण्डमाला समीरवेगादिव
मेघमाला ॥१॥
अथ गण्डमालाकण्डनो रस: ॥ कर्षसूतं शुद्धमस्य गन्धकं त्वर्धमुत्तमम्‍ । सार्धकर्षं ताम्रभस्म मृतं किट्टं त्रिकर्षकम्‍ ॥१॥
व्योषं षट्‍कर्षतुलितमक्षार्धं सैन्धवं सितम्‍ । काञ्चनारत्वचश्चूर्णं पलत्रयमितं क्षिपेत्‍ ॥२॥
पलत्रयं गुग्गुलोश्च शुद्धस्य समुपाहरेत्‍  । एतद्युक्त्या तु संमेल्य दृढं सुरभिसर्पिषा ॥३॥
गण्डमालाचिकित्सा ॥ अथापचीचिकित्सा ॥ अलम्बुषाया: स्वरस: पीतो द्विपलमात्रया । अपचीगण्डमालानां कामलायाश्च नाशन: ॥१॥
नवकार्पासिकामूलं तण्डुलै: सह योजितम्‍ । पक्त्वा च पोलिकां खादेदपचीनाशनाय च ॥२॥
सौभाञ्जनं देवदारु काञ्जिकेन तु पेषितम्‍ । कोष्णं प्रलेपतो हन्यादपचीमतिदुस्तराम्‍ ॥३॥
सर्षपारिष्टपत्राणि दन्त्या भल्लातकै: सह । छागमूत्रेण संपिष्टमपचघ्निं विलेपनम्‍ ॥४॥
अश्वत्थकाष्ठनिचुलं गवां दन्तं च दाहयेत्‍ । वराहमज्जसंयुक्तं भस्म हन्त्यपचीव्रणान्‍ ॥५॥
मणिबन्धोपरिष्टाद्वा कुर्याद्रक्षात्रयं भिषक्‍ । अड्गुलान्तरितं सम्यगपचीविनिवृत्तये ॥६॥
अथ चन्दनादि तैलम्‍ ॥ चन्दनं साभया लाक्षा वचा कटुकरोहिणी । एतत्तैलं शृतं पीतं समूलामपचीं जयेत्‍ ॥१॥
अथ व्योषाद्यं तैलम्‍ ॥ व्योषं विडड्गं मधुकं सैन्धवं देवदारु च । तैलमेभि: शृतं नस्यात्कृच्छ्रामप्यपचीं जयेत्‍ ॥१॥
इत्यपचीचिकित्सा ॥ इति गण्डमालापचीचिकित्सा ॥

॥ अथ ग्रन्थिचिकित्सा ॥
ग्रन्थिष्वामेषु कुर्वीत भिषक्‍ शोथप्रतिक्रियाम्‍ । पक्वानापाट्य संशोध्य रोपयेहूणभेषजै: ॥१॥
हिंस्त्रा सरोहिण्यमृताथ भार्गी स्योनाकबिल्वागुरुकृष्णगन्धा । गोमूत्रपिष्टा: सह तालपत्र्या ग्रन्थौ विधेयोऽनिलजे प्रलेप: ॥२॥
जलायुका: पित्तकृते हिता: स्यु: क्षीरोदकाभ्यां परिषेचनं च । द्राक्षारसेनेक्षुरसेन चापि चूर्णं पिबेद्वापि हरीतकीनाम्‍ ॥३॥
मधूकजम्ब्वार्जुनवेतसानां त्वग्भि: प्रदेहानवचारयेच्च । हृतेषु दोषेषु यथानुपूर्वं ग्रन्थेर्भिषक्‍ श्लेष्मसमुत्थितेषु ॥४॥
समर्मजातं शममप्रयातं तत्पक्वमेवापहरेद्विचार्य । देहस्थिते वाससि सिद्धकर्म सद्य: क्षतोक्तं च विधिं विदध्यात्‍ ॥५॥
शस्त्रेण चोत्कृत्य सुपक्वमाशु प्रक्षालयेत्पथ्यतमै: कषायै: । संशोधनैस्तं च विशोधयेत्तु क्षारोत्तरै: क्षौद्रघृतप्रगाढै: ॥६॥
सिञ्चेच्च तैलं त्वपचारणीयं विडड्गपाठारजनीविपक्वम्‍ । भेद:समुत्थे तिलकल्कदिग्धै: कृत्वोपरिष्टाद्विगुणं पटान्तम्‍ ॥७॥
हुताशतप्तेन मुहु: प्रमृज्याल्लोहेन धीमान्न च वर्धिताय । प्रलिप्तदर्व्यात्वथ लाक्षया वा प्रतप्तयाश्च्योतनमस्य कार्यम्‍ ॥८॥
निपात्य वा शस्त्रपपोह्य मेदो दहेत्सुपक्वं त्वथ वा विदार्य । प्रक्षाल्य मूत्रेण तिलै: सुपिष्टै: सुवर्चलाढयैर्हरितालमिश्रै: ॥९॥
ससैन्धवै: क्षारघृतप्रगाढै: क्षारोत्तरैरनमभिप्रशोध्य । तैलं विदध्या‍द्‍द्विकरञ्जगुञ्जावंशावलेष्विड्गुदमूत्रसिद्धम्‍ ॥१०॥
इति राजमार्तण्डात्‍ ॥ विष्णुक्रान्ता च पेटारी काञ्चिकेन सुपेषिता । कालस्फोटं हरेल्लेपाद्दुष्टग्रन्थिषु का कथा ॥१॥
पुत्रजीवस्य मज्जानं जले पिष्ट्वा प्रलेपयेत्‍ । कालस्फोटं विषस्फोटं सद्यो हन्यात्सवेदनम्‍ ॥२॥
कक्षाग्रन्थिं कर्णग्रन्थिं गलग्रन्थिं च नाशयेत्‍ । राजिकालशुनंपेष्यं लेपो हृद्‍गलग्रन्थिका: ॥ गन्धोऽर्कदुग्धतालेन जेपालेन च नाशयेत्‍ ॥३॥
इति ग्रन्थिचिकित्सा ॥

॥ अथार्बुदचिकित्सा ॥
ग्रन्थ्यर्बुदानां न यतो विशेष: प्रदेशहेत्वाकृतिदोषदूष्यै: । ततश्चिकित्सेद्‍ भिषगर्बुदानि विधानविद्‍ ग्रन्थिचिकित्सितेन ॥१॥
वातार्बुदं क्षीरघृताम्लसिद्धैरुष्णै: सतैलैरुपनाहयेत्तु । कुर्यात्तु मुख्यान्युपनाहनानि सिद्धैश्च मांसैरथ वेसवारै: ॥२॥
स्वेदं विदध्यात्कुशलश्च नाड्या शृड्गेण रक्तं बहुशो हरेच्च । वातघ्ननिर्यूहपयोऽम्लभागै: सिद्धां शताह्वां त्रिवृतां पिबेद्वा ॥३॥
स्नेहोपनाहा मृदवस्तु पथ्या: पित्तार्बुदे क्वाथविरेचनं च । विकृष्य सौदुम्बरशाकगोजीपत्रैर्भृशं क्षौद्र्युतै: प्रलिम्पेत्‍ ॥४॥
शुद्धस्य जन्तो: कफजेऽर्बुदे च रक्ते च सिक्ते स्त्रवतोऽर्बुदं यत्‍ । मेद:कृते मांसकृते‍ऽपि कार्यं व्रणोदितं सर्वचिकित्सितं च ॥५॥
इति राजमार्तण्डात्‍ ॥ लिप्तं यवक्षारविडड्गबीजं गन्धोपलै: स्यान्मसृणीकृतैर्यत्‍ । रक्तेन मिश्रै: सरटस्य सद्यस्तदर्बुदं शाम्यति नान्यथैतत्‍ ॥१॥
उपोदकरसाभ्यक्ता तत्पत्रपरिविष्टिता । प्रणश्यत्यचिरानृणां पिटिकार्बुदजातय: ॥२॥
उपोदिका काञ्जिकतक्रपिष्टा तयोपनाहो लवणेन सार्धम्‍ । दृष्टोऽर्बुदानां प्रशमाय कैश्चिद्दिने दिने रात्रिषु मर्मजानाम्‍ ॥३॥
गन्धशिलाविश्वौषधविडड्गनागभस्मभि: समैश्चूर्णम्‍ । कर्कलासरक्तयुक्तं लेपात्सद्योऽर्बुदध्वंसि ॥४॥
स्नुहीगण्डीरिकास्वेदो नाशयेदर्बुदानि च । लवणेनाथ वा स्वेद: सीसकेन तथैव च ॥५॥
हरिद्रालोध्रपत्तड्गगुडधूमो मन:शिला । मधुप्रगाढो लेपोऽयं मेदोऽर्बुदहर: पर: ॥ एतामेव क्रियां कुर्यादशेषां शर्करार्बुदे ॥६॥
अथ पथ्यापथ्यम्‍ ॥ पुराणघृतपानं च जीर्णलोहितशालय: । यवा मुद्गा: पटोलं च रक्तशिग्रु: कटिल्लकम्‍ ॥१॥
शालिं च शाकं वेत्राग्रं रुक्षाणि च कटूनि च । दीपनानि च सर्वाणि गुग्गुलुश्च शिलाजतु ॥२॥
गलगण्डे गण्डमालापचीग्रन्थ्यर्बुदान्तरे । यथादोषं यथावस्थं पथ्यमेतत्प्रकीर्तितम्‍ ॥३॥
दुग्धेक्षुविकृती: सर्वा मांसं चानूपसंभवम्‍ । पिष्टान्नमम्लं मधुरं गुर्वभिष्यन्दकारि च ॥४॥
गलगण्डं गण्डमालापचीग्रन्थ्यर्बुदामयान्‍ । चिकित्सन्नगदड्कारो यशोऽर्थी परिवर्जयेत्‍ ॥५॥
इत्यर्बुदचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T19:55:46.5500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

भांगणें

  • स.क्रि. 
  • अ.क्रि. उधानाचे दिवस जाऊन समुद्र कमी पाणी भरण्याच्या स्थितीस , ओहोटीस येणें . [ भांग ] 
  • अ.क्रि. 
  • श्रमणें ; दमणें ; थकणें ; शिणणें . त्यामागें तीहि निघे धर्म म्हणे भागलीस जा परत । - मोवन १३ . ६० . 
More meanings
RANDOM WORD

Did you know?

रुक्मिणीस्वयंवर पोथीची पारायणे केली असता मुलींची लग्ने लवकर जमतात, हे खरे आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.