TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ कासचिकित्सा ।

॥ अथ कासचिकित्सा ।

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ कासचिकित्सा ।
॥ अथ कासचिकित्सा ।
अथ वातकासचिकित्सा ॥
रुक्षस्यानिलजं कासमादौ स्नेहैरुपाचरेत्‍ । सर्पिर्भि:र्बस्तिभि: पेयाक्षीरयूषरसादिभि: ॥१॥
ग्राम्यानुषोदकै: शालियवगोधूमषष्ठिकान्‍ । रसैर्मांसात्मगुप्तानां यूषैर्वा भोजयेद्धितान्‍ ॥२॥
दशमूली सूता श्वासकासहिक्कारुजापहा । यवागूर्दीपनी वृष्या वातरोगविनाशिनी ॥३॥
रस: कर्कोटकानां च घृतभृष्ट: स नागर: । वातकासप्रशमन: शृड्गीमत्स्यस्य वा पुन: ॥४॥

॥ अथापराजितलेह: ॥
सटीशृड्गीकणाभार्गीगुडवारिदयासकै: । सतैलैर्वातकासघ्नो लेहोऽयमपराजित: ॥१॥

॥ अथ भाड्गर्यादिलेह: ॥
भार्गीद्राक्षासटीशृड्गीपिप्पलीविश्वभेषजम्‍ । गुडतैलयुतो लेहो हितो मारुतकासिनाम्‍ ॥१॥

॥ अथ विश्वादिलेह: ॥
विश्वाभार्गीकणासोमवल्कं द्राक्षा सटी सिता । लिह्यात्तैलेन वातोत्थकासं जयति दुस्तरम्‍ ॥१॥

॥ अथ दशमूलादिघृतम्‍ ॥
दशमूलीकषायेण भार्गीकल्कं घृते पचेत्‍ । दक्षतित्तिरनिर्यूहे तत्परं वातकासजित्‍ ॥१॥

॥ अथ कण्टकार्यवलेह: ॥
चित्रकं पिप्पलीमूलं व्योषं मुस्तं दुरालभाम्‍ । शटी पुष्करमूलं च श्रेयसी सुरसा वचा ॥१॥
भार्गी छिन्नरुहा रास्त्रा कर्कटाख्या च कर्षिकान्‍ । कल्कान्निदिग्धिद्वितुला कषाये पलविंशति: ॥२॥
मत्स्यण्डिकाया दत्वा तु सर्पिष: कुडवं पचेत्‍ । सिद्धशीतं पृथक्‍ क्षौद्रपिप्पलीकुडवान्वितम्‍ ॥३॥
चतुष्पलं तुगाक्षीर्याश्चूर्णं तत्र प्रदापयेत्‍ । लेहयेत्कासत्दृद्रोगश्वासगुल्मनिवारणम्‍ ॥४॥
चूर्णिता विश्वदु:स्पर्शा शृड्गीद्राक्षासटीसिता: । लिह्यात्तैलेन वाताढ्यं कासं जयति दुस्तरम्‍ ॥५॥
पञ्चमूलकृत: क्वाथ: पिप्पलीचूर्णसंयुत: । रस: समश्रुतो नित्यं वातकासमुदस्यति ॥ इति वातकास: ॥

॥ अथ पित्तकासे बलादिक्वाथ: ॥
बलाद्विबृहतीद्राक्षावासानि: क्वथितं जलम्‍ । पित्तकासापहं पेयं शर्करामधुयोजितम्‍ ॥१॥

॥ अथ शट्यादिक्वाथ: ॥
शटीह्यीबेरबृहतीशर्कराविश्वभेषजम्‍ । एतं क्वाथं पिबेत्पूतं सघृतं पित्तकासनुत्‍ ॥१॥
शृण्ठीद्विपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा । कषायेण शृतं क्षीरं पिबेत्समधुशर्करम्‍ ॥२॥

॥ अथ खर्जूरादिलेह: ॥
खर्जूरपिप्पलीद्राक्षासितालाजा: समांशका । मधुसर्पिर्युतो लेह: पित्तकासहर: पर: ॥१॥

॥ अथ क्षीरामलकघृतम्‍ ॥
महिष्यजाविगोक्षीरधात्रीफलरसै: समै: । सर्पिष्प्रस्थं पचेद्युक्त्या पित्तकासनिबर्हणम्‍ ॥१॥

॥ अथ वड्गसेनात्‍ ॥
काकोलीबृहतीमेदायुग्मै: सवृषनागरै: । पित्तकासे रसक्षीरयूषांश्चाप्युपकल्पयेत्‍ ॥१॥

॥ अथ षट्‍प्रस्थं घृतम्‍ ॥
अपोथ्या क्षिरिणां शृड्गान्‍ पचेत्‍ क्षीरचतुर्गुणे ॥ द्राक्षाकल्के घृतं सिद्धं लिह्यातत्पित्तकासनुत्‍ ॥१॥

॥ अथ क्षीरघृतम्‍ ॥
क्षीरवृक्षाड्गुरक्वाथ: पचेत्‍ क्षीरसमं घृतम्‍ । पाययेत्पित्तकासघ्नं मधुना वावलेहयेत्‍ ॥१॥ इति वड्गसेनात्‍ पित्तकास: ॥

॥ अथ द्राक्षामलकादिलेह: ॥
द्राक्षामलखर्जूरं पिप्पलीमरिचान्वितम्‍ । पित्तकासहरं ह्येतल्लिह्यान्माक्षिकसर्पिषा ॥१॥

॥ अथ कफकास: ॥
कफजे दमनं कार्यं कासे लड्घनमेव च । शस्तापवाता प्रकृतिर्यूषाश्च कटुतिक्तका: ॥१॥
मुद्गामलाभ्यां यवदाडिमाभ्यां कर्कन्धुना शुष्ककमूलेन । शुण्ठीकणाभ्यां सकुलत्थकेन यूषो नदाड्ग: कफकासहन्ता ॥२॥
इति नवाड्गयूष: ॥ सटी सातिविषा मुस्तशृड्गी कर्कटकस्य च । अभया शृड्गबेरं च समं सट्यादि पेषयेत्‍ ॥१॥
हिड्गुसैन्धवसंयुक्तं तक्रोदकपरिप्लुतम्‍ । श्लेष्मकासी लिहेदेतमवलेहं मुहुर्मुहु: ॥२॥
इति शट्याद्यवलेह: । व्योषाजमोदचित्रकषड्ग्रन्थचव्यकल्कितं सर्पि: । कफकासश्वासहरं वासकरससाधितं समधु ॥१॥
इति व्योषाद्यं घृतम्‍ ॥ इतिश्लेष्मकास: ॥

॥ अथ द्वन्द्वकासचिकित्सा ॥
कट्‍फलं कत्तृणं भार्गी मुस्ता धान्यं वचाभया । शुण्ठी पर्पटकं शृड्गी सुराह्यं च जले शृतम्‍ ॥१॥
मधुहिड्गुयुतं पेयं कासे वातकफान्विते । कण्ठरोगे मुखे शूले हिक्काश्वासज्वरेषु च ॥२॥

॥ अथ कट्‍फलादि: ॥
सिंहास्यामृतसिंहीनां क्वाथं मधुयुत पुमान्‍ । पिबेत्सपित्तकफजे कासे श्वासे क्षये ज्वरे ॥१॥
वासकस्वरस: पेयो मधुयुक्तो हिताशिना । पित्तश्लेष्मकृते कासे तालीसाद्यं च योजयेत्‍ ॥२॥

॥ अथ क्षतकास: ॥
कासे तु क्षतजे बल्ये पाचनैर्बृहणैरपि । शमनै: पित्तकासघ्नैरन्यैश्च मधुरौषधै: ॥१॥
यवागूं वा पिबेत्सिद्धां क्षतोरस्क: सुशीतलाम्‍ । इक्ष्विक्षुवालिकापद्ममृणालोत्पलचन्दनै: ॥२॥
मधुकं पिप्प्ली द्राक्षा शृड्गी चैव शतावरी। द्विगुणा च तुगाक्षीरी सिता अर्वैश्चतुर्गुणा । लिह्यात्तं मधुसर्पिर्भ्यां क्षतकासनिवृत्तये ॥३॥
इति इक्ष्वाद्यो लेह: । मञ्जिष्ठमूर्वानतवह्निपाठाकृष्णाहरिद्राविहितं तु चूर्णम्‍ । क्षौद्रेण कासेऽबलिहेत्क्षतोत्थे पिबेद्‍ घृतं चेक्षुरसे विपक्कम्‍ ॥१॥
इक्ष्विक्षुवालिकापद्ममृणालोत्पलचन्दनै: । शृतं पयो मधुयुतं  सन्धानार्थं पिबेत्क्षती ॥२॥
इति क्षतकास: ॥

॥ अथ क्षयकास: ॥
पिप्पलीगुडसंसिद्धं छागीक्षीरयुतं घृतम्‍ । एतग्निविवृद्ध्यर्थं सर्पिश्च क्षयकासिनाम्‍ ॥१॥ इति पिप्पल्यादिघृतम्‍ ॥
काकुभपिष्टं कृत्वा वासारसभावितं बहून्वारान्‍ । मधुघृतसितोपलाभिर्लेह्यं क्षयकासरक्तपित्तहरम्‍ ॥१॥ इति ककुभचूर्णम्‍ ॥

॥ अथ पिप्पल्याद्यवलेह: ॥
पिप्पलीमधुकं पिष्टं कर्षकं ससितोपलम्‍ । प्रस्थैकं गव्यमाज्यं च क्षीरमिक्षुरसस्तथा ॥१॥
यवगोधूममृद्वीकाचूर्णमामलकीरसम्‍ । तैलं च प्रसृतांशानि तत्सर्वं मृदुवन्हिना ॥२॥
पचेल्लेहं घृतक्षौद्रयुक्तं स श्वासकासजित्‍ । क्षयहृद्रोगकासघ्नोहितो वृद्धाल्परेतसाम्‍ ॥३॥
इति पिप्पल्याद्यवलेह: ॥
अन्यच्च पिप्पलीमधुकं द्राक्षा सुपक्कं बृहतीफलम्‍ । घृतक्षौद्रयुतो लेह: क्षयकासनिर्बर्हण: ॥१॥
सन्निपातभवो ह्येष क्षयकास: मुदारुण: । सन्निपातहितं तस्मात्कार्यमत्र चिकित्सितम्‍ ॥२॥ इति क्षयकास: ॥

॥ अथ कासश्वास: ॥
अमृतानागरफञ्जीव्याघ्रीपर्णीसुसाधित: क्वाथ: । पीत: सकणाचूर्ण: कासश्वासौ जयत्याशु ॥१॥
इत्यमृतादिक्वाथ: । भार्गीसनागरासिंहीकुलत्थं मूलकं तथा । पिबेत्पिप्पलिचूर्णेन कासश्वासौ व्यपोहति ॥१॥
इति भार्ग्यादिक्वाथ: । स्वरसं शृड्गबेरस्य माक्षिकेण समन्वितम्‍ । पाययेच्छ्वाशकासघ्नं प्रतिश्यायकफाहम्‍ ॥१॥
सेवितं मधुखण्डाभ्यां चूर्णं मरिचजं यदि । किमर्थं क्रियते चिन्ता कासश्वासपराजितै: ॥२॥
कुलित्थ: कण्टकारी च तथा ब्राह्मणयष्टिका । शुण्ठीसुरभिसंयुक्त: कासश्वासज्वरापह: ॥३॥
पौष्करं कट्‍फलं भार्गीविश्वपिप्पलिसाधितम्‍ । पिबेत्क्वाथं कफोद्रेके कासे श्वासे च हृद्‍ग्रहे ॥३॥
कुनटीसैन्धवव्योषविड्ड्गामरहिड्गुभि: । लेह: साज्यमधु: कासहिक्काश्वासनिवारण: ॥४॥
इति कुनट्यादिलेह: । श्वासकासहरा बर्हिपादा च क्षौद्रसर्पिषा । लिह्यान्मरिचचूर्णं वा सघृतक्षौद्रशर्करम्‍ ॥१॥
भार्गीशुण्ठीकणाचूर्णं गुडेन श्वासकासनुत्‍ । पथ्याशुण्ठीगुडयुतां गुटिकां धारयेन्मुखे ॥२॥
सर्वेषु श्वासकासेषु केवलं वा बिभीतकम्‍ । नागरेणाभया तद्वत्कासमाशु व्यपोहति ॥३॥
इति कासश्वास: ॥

॥ अथ सर्वकास: ॥
सपिप्पलीपुष्करमूलपथ्याशुण्ठीसटीमूलकसूक्ष्मचूर्णम‍ । गुडेन युक्ता गुटिका प्रयोज्या कासेषु नासास्त्रववैस्वरे च ॥१॥
क्षवथौ गन्धनाशे च धूमपानं प्रयोजयेत्‍ । अर्कमूलशिले तुल्ये ततोऽर्धेन कटुत्रिकम्‍ ॥२॥
चूर्णितं वह्निनिक्षिप्तं पिबेद्धूमं तु योगवित्‍ । भक्षयेदथ ताम्बूलं पिबेद्दुग्धमथाम्बु वा ॥३॥
कासा: पञ्च्विधा यान्ति शान्तिमाशु न संशय: । मन: शिलौलमरिचं मांसीमुस्तागुडै: पिबेत्‍ ॥४॥
धूमं तस्यानु च पय: मुखोष्णं सगुडं पिबेत्‍ । एष कासान्पृथग्‍ द्वन्द्वसन्निपातसमुद्रवान्‍ ॥५॥
शतैरपि प्रयोगाणां साधयेदप्रसाधितान्‍ । मन:शिलालिप्तदलं बदर्यातपसोषितम‍ ॥६॥
सक्षीरं धूमपानं च महाकासनिबर्हणम्‍ । पीत्वा त्रिपुटधत्तूरमूलव्योषमन: शिला: ॥७॥
तेन प्रलिप्य वसनं धूमवर्ति प्रकल्पयेत्‍ । धूमं तस्या: पिबेद्यस्तु त्रिदिनात्कसनं हरेत्‍ ॥८॥
जातीपत्रशिलारालैर्योजयेद्‍ गुग्गुलं समम्‍ । अजामूत्रेण सम्पिष्टो धूम: कासहर: पर: ॥९॥

॥ अथ जात्यादिधूम: ॥
जातीजटाकिसलयैर्बदरीदलिश्च जातीमसूरकफलै: सुमन:शिला च । स्याद्धूमवर्तिरिह गुग्गुलुना समेतै: कासच्छिदे बदरिकाग्निविदह्यमानै: ॥१॥
रात्रिद्वयशिलाधूमपानात्कासश्रुति: कुत: । जलपानादपि तथा क्षणेन क्षणदाक्षये ॥२॥
इतिजात्यादिधूम: ॥
हरीतकीकणाशुण्ठीमरीचगुडसंयुत: । कासघ्नो मोदक: प्रोक्त: परं चानलदीपन: ॥१॥
इति हरितक्याद्यो मोदक: ॥
शुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्धितमूर्ध्वमन्त्यात्‍ । खादेदिदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठहृदामयेषु ॥१॥
इति समशर्करं चूर्णम्‍ ॥ कर्पूरवालकक्कोलजातीफलदलं समम्‍ । लवड्गनागमरिचकृष्णाशुण्ठ्यो विवर्धिता: ॥१॥
चूर्णं सितासमं ग्राह्यं रोचनं क्षयकासजित्‍ । वैस्वर्यकासश्वासघ्नं छर्दि चैव क्षयं नयेत्‍ ॥ प्रयुक्तं चान्नपानेषु भैषज्यं द्विगुणं हितम्‍ ॥२॥
इति कर्पूराद्यं चूर्णम्‍ ॥ कर्ष: कर्षांशपलं पलद्वयं स्यात्ततोऽर्धकर्षश्च । मरिचस्य पिप्पलीनां दाडिमगुडयावशूकानाम्‍ ॥१॥
सर्वौषधैरसाध्या ये कासा: सर्ववैद्यनिर्मुक्ता: । अपि पूयं छर्दयतां तेषामिदमौषधं पथ्यम्‍ ॥२॥

॥ अथ मरिचाद्यं चूर्णम्‍ ॥
देवदारुबलारास्त्रात्रिफलाव्योषपद्मकै: । स्विड्ड्गै: सितातुल्यैस्तच्चूर्णं सर्वकासनुत्‍ ॥१॥
बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्‍ । स्वरोपघाते कासे च लेहमेतं प्रयोजयेत्‍ ॥२॥
द्वौ क्षारौ पञ्च मूलानि पञ्चैव लवणानि च । सटीनागरकोदीच्यकल्कं वा । वस्त्रगालितम्‍ ॥ पाययेच्च घृतेन्मिश्रं सर्वकासनिर्बहणम्‍ ॥३॥

॥ अथ त्रिजातगुटिका ॥
त्रिजातमर्धकर्ष च पिप्पल्यर्धपलं सिता । द्राक्षामधुकखर्जूरं पलांशं श्ल्क्ष्णकल्लितम्‍ ॥१॥
मधुना गुटिका घ्रन्ति ता वृष्या पित्तशोणितम्‍ । कासश्वासारुचिच्छर्दिमूर्च्छाहिध्मामदभ्रमान्‍ ॥२॥
क्षतक्षयस्वरभ्रंशप्लीहशोषाढ्यमारितान्‍ । रक्तनिष्ठीवहृत्पार्श्वरुकपिपासाज्वरानपि ॥३॥

॥ अथ मरीचादिगुटिका ॥
शार्ड्गधरात्‍ । मरीचं कर्षमात्रं च पिप्पली कर्षसम्मिता । अर्धकर्षो यवक्षार: कर्षयुग्मं च दाडिमात्‍ ॥१॥
एतच्चूर्णीकृतं युज्यादष्टकर्षगुडेन हि । शाणप्रमाणां गुटिकां कृत्वा वक्रे च धारयेत्‍ ॥१॥
अस्या: प्रभावात्सर्वेऽपि कासा यान्त्येव सड्क्षयम्‍ ॥२॥

॥ अथ लवड्गादिवटी ॥
तुल्या लवड्गमरिचाक्षफलत्वच: स्यु: सर्वे: समो निगदित: खदिरस्य सार: । बब्बूलवल्कलकषाययुजां चतुर्णां कासान्निहन्ति गुटिका घटिकाष्टकान्ते ॥१॥
धनञ्जयत्रिजातकं कणाजटाकटुत्रिकम्‍ । रसार्द्रकेन भावितं जयेच्च कासमाततम्‍ ॥२॥
कटुत्रिकं छिन्नलताकृशानुफलत्रिकं वेल्लभवं सरास्त्रम्‍ । सशर्करं चूर्णमिदं सुसेव्यं कासाटवीदाहदवानलाख्यम्‍ ॥३॥

॥ अथ बिभ्रीतकावलेह: ॥
प्रस्थं बिभीतकानामस्थीनि विहाय साधयेदजामूत्रे । लेह्यस्त्ववलेहोऽयं मधुना सहितोऽतिकासहर: ॥१॥

॥ अथ खदिरादिगुटिका ॥
खादिरं पौष्करं शृड्गी कट्वलं द्विजयष्टिका । हरीतकी लवड्गं च व्योषं चातिविषं तथा ॥१॥
कारवीयासममृता बृहतीद्वयमक्षकम्‍ । पृथक्कर्षद्वयं ग्राह्यं सूक्ष्मचूर्णं तु कारयेत्‍ ॥२॥
सर्वै: समं खादिरं च मेलयित्वा विभावयेत्‍ । दाडिमत्वक्‍ तथा क्षुद्राखदिराम्भोभिरार्द्रकै: ॥३॥
बब्बूलत्वगदलक्काथैराटरुषजलैस्तथा । सप्तधा भावयेब्दद्ध्वा गुटिका खादिरी मता ॥ कासश्वासौ निहन्त्याशु दुस्तरौ चिरजावपि ॥४॥
इति श्वासकासे खदिरादिगुटिका ॥

॥ अथार्द्रकावलेह: ॥
वैद्यजीवनात्‍ । आर्द्रादर्धतुला गुडादपि तथा व्द्याम्रं च कुस्तुम्बरीदीप्यायोजरणत्रिजातजलदादेत्पचेद्युक्तित: । लेहो रत्नकले तवैव कथित: प्राणप्रियाया मया कासार्शोज्वरपीनसश्वयथुरुग्गुल्मक्षयध्वंसन: ॥१॥

॥ अथ व्याघ्रीहरीतकीलेह: ॥
समूलपुष्पच्छदकण्टकार्यास्तुलाजलद्रोणपरिप्लुता च । हरीतकीनां च शतं निदध्याद्‍ ग्राह्यं  तु पक्त्वा चरणावशेषम्‍ ॥१॥
गुडस्य दत्वा शतमेतदग्रौ विपक्कमुत्तार्यंतत: सुशीते । कटुत्रिकं च त्रिपलप्रमाणं पलानि षट्‍ पुष्परसस्य चापि ॥२॥
क्षिपेच्चतुर्जातपलं यथाग्नि प्रयुज्यमानो विधिनावलेह: । वातात्मकं पित्तकफोद्भवं च द्विदोषकासानपि सन्निपातान्‍ ॥३॥
क्षतोद्भवं कासक्षयं च हन्यात्‍ स पीनसश्वासमुर:क्षतं च । यक्ष्माणमेकाद्शरुपमुग्रं भृगूपदिष्टं हि रसायनं स्यात्‍ ॥४॥

॥ अथ कासकण्डनावलेह: ॥
अजामूत्रं शतपलं मन्दाग्नौ गुडपाकवत्‍ । पक्त्वा बिभीतकं चूर्णं पलद्वयमितं क्षिपेत्‍ ॥१॥
पिप्पली पिप्पलीमूलं पलमात्रं मृतायसम्‍ । कण्ट्कारीफलरजो निक्षिपेच्च पलद्वयम्‍ ॥२॥
ततो माषद्वयं खादेट्ट्ड्कं कर्षमथापि च । क्षौद्रेणोष्णाम्बुना वापि सर्वकासात्प्रमुच्यते ॥३॥
असाध्या भिषजा त्यक्ताश्चिरजा: पथ्यवर्जिता: । ये कासास्तेऽप्यनेनाशु प्रणश्यन्ति न संशय: ॥ कासकण्डननामायं योग आत्रेयभाषित: ॥४॥

॥ अथागस्तिहरीतकीपाक: ॥
वृन्दात्‍ । दशमूलीं स्वयं गुप्तां शड्खपुष्पीं शटीं बलाम्‍ । हस्तिपिप्पल्यपामार्गंपिप्पलीमूलचित्रकान्‍ ॥१॥
भार्गीपुष्करमूलं च द्विपलांशं यवाढकम्‍ । हरीतकीशतं चैव जले पञ्चाढके पचेत्‍ ॥२॥
यवै: स्विन्नै: कषाये च पूतं तच्चाभयाशतम्‍ । पचेद्‍ गुडातुलां दत्वा कुडवं च पृथग्‍ घृतात्‍ ॥३॥
तैलात्पिप्पलिचूर्णाच्च सिद्धे शीते च माक्षिकात्‍ । लिह्याद्दे चाभये नित्यं तत: खादेद्रसायनम्‍ ॥४॥
वलीं च पलितं हन्याद्वर्णायुर्बलवर्धनम्‍ । पञ्च कासान्क्षयश्वासान्‍ हिक्कां च विषमज्वरान्‍ ॥५॥
हन्यात्तथा ग्रहण्यर्शोत्दृद्रोगारुचिपीनसान्‍ । अगस्तिविहितं धन्यमिदं श्रेष्ठं रसायनम्‍ ॥६॥

॥ अथ वैद्यजीवनाद्विभीतकावलेह: ॥
आजस्य मूत्रस्य शतं पलं च शतं पलानां च कलिद्रुमस्य । पक्वं समध्वाशु निहन्ति कासं श्वासं च तद्वत्सबलं बलासम्‍ ॥१॥
कण्टकारीतुलां नीरद्रोणे पक्त्वा कषायकम्‍ । पादशेषं गृहीत्वा च तस्मिंश्चूर्णानि दापयेत्‍ ॥२॥
पृथक्‍ पलांशान्येतानि गुडूचीचव्यचित्रकम्‍ । मुस्तकर्कटशृड्गी च त्र्यूषणं धन्वयासकम्‍ ॥३॥
भार्गी रास्ना शटी चैव शर्करा पलविंशति: । प्रत्येकं च पलान्यष्टौ प्रदद्यादघृततैलयो: ॥४॥
पक्त्वा लेहत्वमायाते शीते मधुपलाष्टकम्‍ । चतुष्पलं तुगाक्षीरीपिप्पलीनां चतुष्पलम्‍ ॥५॥
क्षिप्त्वा निदध्यात्सुदृढे मृन्मये भाजने शुभे । लेहो‍ऽयं  हन्ति कासार्तिहिक्काश्वासानशेषत: ॥६॥
इति कण्टकार्यवलेहो वृन्दात्‍ ॥
व्याघ्रीस्वरसविपक्कै रास्नाकटफलसुगोक्षुरव्योषै: । सर्पि: स्वरोपघातं निहन्ति कासं च पञ्चविधम्‍ ॥१॥
वृन्दात्‍ । सर्पिर्गुडूचीवृषकण्ट्कारीक्वाथेन कल्केन च सिद्धमेतत्‍ । पेयं पुराणज्वरकासशूलप्लीहाग्निमान्द्यग्रहणीगदेषु ॥२॥

॥ अथ त्र्यूषणादिघृतं वृन्दात्‍ ॥
त्र्यूषणं त्रिफलाद्राक्षाकाश्मर्यश्चाटरुषकम्‍ । द्वे पाठे देवदार्व्यब्दस्वगुप्तं चित्रकं शटी ॥१॥
व्याघ्री तामलकी मेदा काकनासा शतावरी । त्रिकण्टकं विदारी च पिष्ट्वा कर्षसमान्घृतात्‍ ॥२॥
प्रस्थं चतुर्गुणक्षीरसिद्धं कासहरं पिबेत्‍ । ज्वरगुल्मारुचिप्लीहशिरोत्दृत्पार्श्वशूलनुत्‍ ॥३॥
कामलोर्शोऽनिलाष्ठीलाक्षतशोषक्षयापहम्‍ । त्र्य़ूषणं नाम विख्यातं घृतमेतन्महोत्तमम्‍ ॥४॥

॥ अथ कण्टकारीघृतम्‍ ॥
समूलफलपत्राया: कण्टकार्या रसाढकम्‍ । घृतप्रस्थं बलाव्योषविडड्गशटिदाडिभै:॥१॥
सौवर्चलयवक्षारविश्वामलकपौष्करै: । वृश्चीवबृहतीपथ्याययवानीचित्रकादिभि: ॥२॥
मृद्वीकाचव्यवर्षाभूदुरालम्भाम्लवेतसै: । शृड्गीतामलकीभार्गीरास्त्रागोक्षुरकै: पचेत्‍ ॥३॥
कल्कैस्तत्सर्वकासेषु श्वासहिक्कासु शस्यते । कण्टकारीघृतं सिद्धं कफव्याधिनिषूदनम्‍ ॥४॥
वृन्दात्‍ ॥ द्वितीयं कण्टकारीकृतं योगतरड्गिण्या: कण्टकार्यास्तुलां क्षुण्णां कृत्वा द्रोणेऽभस्म: पचेत्‍ । तेनाढकेन क्वाथस्य घृतप्रस्थं पिचून्मितै: ॥१॥
रास्त्रादु:स्पर्शषड्‍ग्रन्थिपिप्पलीद्वयचित्रकै: । सौवर्चलयवक्षारकृष्णामूलैश्च तज्जयेत्‍ ॥ कासश्वासकफष्ठीवहिक्कारोचकपीनसान्‍ ॥२॥
इति कण्टकारीघृतम्‍ ॥

॥ अथ रसा: ॥
रसगन्धकणापथ्याकलिद्रुफलवासका: । भार्गी चेति क्रमाद्‍ वृद्धैरेतद्वर्वरजद्रवै: ॥१॥
पिष्टं विंशतिमेकान्तान्‍ कुर्यात्क्षौद्रेण गोलकान्‍ । कर्षप्रमाणमेतस्य तमेकं प्रातरुत्थित: ॥२॥
दद्यान्मासत्रयं क्षुद्राक्वाथं दशकणायुतम्‍ । पिबेत्तदनु कासाच्च श्वासाच्च परिमुच्यते ॥३॥
इति भागोत्तरवटी ॥

॥ अथ पर्पटीरस: ॥
रसरत्नप्रदीपात्‍ । भागौ रसस्य गन्धस्य द्वावेको लोहभस्मत: । एतद्‍घृते द्रवीमृतं मृद्वग्रौ कदलीदले ॥१॥
पातयेद्‍ गोमयगते तथैवोपरि योजयेत्‍ । तत: पिष्ट्वा द्रवैरेभिर्मर्दयेत्सप्तधा पृथक्‍ ॥२॥
भार्गीमुण्डीमुनिवराजयानिर्गुण्डिकाद्रवै: । व्योषवा सककन्यार्द्रद्रवै: शुष्कं पुटेल्लघु ॥३॥
अगन्धं खर्परे नाम्ना पर्पटीति रसो भवेत्‍ । सर्वरोगहर: स्वै: स्वैरनुपानैर्द्विभाषत: ॥४॥
ताम्बूलपत्रसहिता कासश्वासहरा परा । सकण: सुरसाक्वाथोऽनुपानं वासगोजलम्‍ ॥५॥

॥ अथ पारदादिचूर्णम्‍ ॥
योगरत्नावलित: ॥ पारदं गन्धकं शुद्धं मृतं लोहं च टड्कणम्‍ । रास्त्राविड्ड्गत्रिफलादेवदारुकटुत्रयम्‍ ॥१॥
अमृतापद्मकक्षौद्रं पिचुतुल्यानि चूर्णयेत्‍ । त्रिगुञ्ज सर्वकासघ्नौ ज्वरारोचकमेहनुत्‍ ॥२॥

॥ अथ कासश्वासविधूननो रस: ॥
रसभागो भवेदको गन्धकाद्‍द्वौ तथैव च । यवक्षारस्त्रिभाग: स्याद्‍ रुचकं च चतुर्गुणम्‍ ॥१॥
मरिचं पञ्चभागं स्याच्छुद्धं रसविमर्दित: । कासं पञ्चविधं हन्याच्छासं पञ्चविधं हरेत्‍ ॥२॥

॥ अथ ताम्रपर्पटीरस: ॥
मृतं ताम्रं त्रिभागं च रसं तत्समगन्धकम्‍ । भागमेकं वत्सनाभं कज्जलीखल्वमध्यगम्‍ ॥१॥
गोघृतेन कृतं कल्कं लोहपात्रे विपाचयेत्‍ । ढालयेदर्कपत्रस्था पर्पटीरससिद्धये ॥२॥
गुञ्जाद्वयं त्रयं चैव पिप्पलीमधुसंयुतम्‍ । त्रिसप्तरात्रयोगेन रोगराजं नाशयेत्‍ ॥३॥
आर्द्रकस्य रसेनैव सन्निपातं नियच्छति । त्रिफलारससंयुक्ता सर्वपाण्डुं विनाशयेत्‍ ॥४॥
वातारितैलसंयुक्ता सर्वशूलनिवारणी । कुमारीरसयोगेन वातपित्तोपशान्तिकृत्‍ ॥५॥
वाकुचीरससंयुक्ता सर्वदद्रुविनाशनी । त्रिफला मधुसंयुक्ता सर्वमेहनिवारणी ॥६॥
खदिरक्वाथपानेन कुष्ठादशनाशनी । मन्थानभैरवेणोक्ता लोकानां हितकाम्यया ॥७॥
इति ताम्रपर्पटीरस: ॥

॥ अथ नागवल्लभ: ॥
कर्षमाना मृगमदचोचटड्कणका अथ । कश्मीरजन्मदरदपिप्पल्य: स्युर्द्विकर्षका: ॥१॥
अकारकरभो जातीपत्री जातीफलं विषम्‍ । प्रत्येकं पलमानानि चत्वार्यथ सुखल्वके ॥२॥
अहिवल्लीदलरसैर्दयेच्च दिनत्रयम्‍ । मुद्गप्रमाणा वटका लीढा मध्वार्द्रकद्रवै: ॥३॥
ताम्बूलचर्विता मेहकासक्षयमरुद्धरा: । नागवल्लभनामायं रसो विश्वोपकारक: ॥४॥
इति नागवल्लभरसो ग्रन्थान्तरात्‍ ॥

॥ अथ हेमगर्भपोटालीरस: ॥
शार्डगधरात्‍ । रसस्य भागाश्चत्वारस्तावन्त: कनकस्य च । तयोश्च पिडिकां कृत्वा गन्धो द्वादशभागिक: ॥१॥
कुर्यात्कज्जलिकां तत्र मुक्ताभागाश्च षोडश । चतुर्विशश्च शड्खस्य भागैकं टड्कणस्य च ॥२॥
एकत्र मर्दयेत्सर्वं पक्वनिबुकजै रसै: । कृत्वा तेषां ततो गोलं मूषासम्पुटके न्यसेत्‍ ॥३॥
मुद्रां दत्वा ततो हस्तमात्रे गर्ते च गोमयै: । पुटेद्‍ गजपुटेनैव स्वाड्गशीतं समुद्धरेत्‍ ॥४॥
पिष्ट्वा गुञ्जाचतुर्मानं दद्याद्‍ गव्याज्यसंयुतम्‍ । एकोनत्रिंशदुन्मानमरिचै: सह दीयते ॥५॥
राजते मृन्मये पात्रे क्षये वाते कफे ग्रहणिकागदे । अतिसारे प्रयोक्तव्या पोटली हेमगर्भिका ॥७॥
इति हेमगर्भपोटलीरस: ॥

॥ अथ द्वितीयहेमगर्भपोटलीरस: ॥
शुद्धसूतं चतुर्भागं द्विभागं गन्धकस्य च । भागमेकं सुवर्णं च त्रिभागं शुल्बभस्म च ॥१॥
कुमारीरससंयुक्तं सप्ताहं मर्दयेद्‍दृढम्‍ । गुटिकां कारयेत्तां तु बध्नीयात्‍ खरकर्पटे ॥२॥
वस्त्रे किञ्चिद्‍ बलिं स्थाप्य तत्र गोलं निधाय च । बध्नीयात्‍ पोटलीं गाढां पश्चाद्वस्त्रेण वेष्टयेत्‍ ॥३॥
सर्वभागसमं गन्धं दत्वा मृन्मयभाजने । तन्मध्ये पोटलीं न्यस्य मुखे मुद्रां च कारयेत्‍ ॥४॥
विधाय च्छिद्रं मुद्गास्थं द्रावं दृष्ट्वा शलाकया । पाचयेत्सिकतायन्त्रे रसोऽ‍यं मृदुवह्निना ॥५॥
यामार्धेन सुसञ्जातं स्वाड्गशीतं समुद्धरेत्‍ । कासे श्वासे क्षये वाते कफे ग्रहणिकागदे । सर्वरोगेषु दातव्या हेमगर्भाख्यपोटली ॥६॥

॥ अधान्य: प्रकार: ॥
शुद्धसूतं त्रिभागं च तत्समं शुल्बभस्म च । भागैकं गन्धकं दद्यात्तदर्धं स्वर्णमेव च ॥१॥
कज्जलीं कारयेत्तां तु खल्वके सप्तवासरम्‍ । अथ निर्गुण्डिकाद्रावैर्मर्दयेद्दिनसप्तकम्‍ ॥२॥
अथवा कनकद्रावैर्गुटिकां कारयेत्तत: । किञ्चिद्वलिसमायुक्ते वस्त्रे गोलं निधाय च ॥३॥
बध्रीयात्पोटलीं गाढामेवं च त्रिपुटं चरेत्‍ दृढमृण्मयपात्रे तु गन्धं दत्वाधरोत्तरम्‍ । तन्मध्ये पोटलीं न्यस्य निर्वातभवनान्तरे ।वितस्तिप्रमितं गर्तं तस्मिन्‍ संस्थाप्य मुद्रयेत्‍ ॥५॥
अड्गुलिमृत्तिकाभिश्च जालयेदिन्धनानि च । यामेन सिद्धतां याति हेमगर्भाख्यपोटली ॥ अनुपानानुसारेण सर्वरोगेषु योजयेत्‍ ॥६॥

॥ अथान्य: प्रकार: ॥
रसं च गन्धकं चैव समं खल्वे विमर्दयेत्‍ । कज्जल्या च तथा स्वर्णसंशुद्धं च विनिक्षिपेत्‍ ॥१॥
सुसूक्ष्मे सुदृढे वस्त्रे बद्ध्वा पोटलिकां दृढाम्‍ । गन्धकेनायसे पात्रे पक्त्वा पोतलिकां चिरम्‍ ॥२॥
मन्दाग्निना पचेद्यावद्‍ व्योमवर्णं भवेत्तु तत्‍ हेमगर्भ इति ख्यातो रसोऽयं श्वासकासनुत्‍ ॥ अनुपानविभेदेन सर्वरोगाञ्जयत्यसौ ॥३॥

॥ अथ कफकुञ्जरस: ॥
रसगन्धौ समांशौ च स्नुह्यर्कपयस: पलम्‍ । पलं च पञ्चलवणमेकीकृत्वावचूर्णयेत्‍ ॥१॥
आलोढ्य चार्कदुग्धेन पूरयेच्छड्खमध्यत: । पिप्पलीभकणावारिचूर्णं कृत्वा प्रलेपयेत्‍ ॥२॥
प्रज्वालयेद्याममात्रं सूक्ष्मचूर्णं तु कारयेत्‍ । कर्पूरनागपत्रैश्च देयो मात्रार्धगुञ्जया ॥३॥
श्वासं कासं च हृद्रोगं कफं पञ्चविधं तथा । नाशयेत्‍ सर्वरोगांश्च रसो‍ऽयं कफकुञ्जर: ॥४॥

॥ अथ कफरोगे नागरस: ॥
लवड्गजातीफलजातिपत्रिकास्तथैव नागोषणग्रन्थिकानि । कर्षप्रमाणानि तथैकशाणं कस्तूरिकाकुड्कुमयो: प्रयुञ्जयात्‍ ॥१॥
आर्द्राम्बुनाथ विहिता वटिका त्रिगुञ्जा चार्द्राम्भसापि विनिहन्ति कफक्षयादीन्‍ । किं श्वासकासं जठरस्य शूलं नानानुपानै: सकलामयघ्नंम्‍ ॥२॥

॥ अथोन्मत्तभैरवरस: ॥
पारदं दरदं शुद्धं गन्धकं कज्जलाकृति । गजकणावत्सनागं शुण्ठी चोन्मत्तबीजकम्‍ ॥१॥
जातीफलं जातिपत्रं लवड्गमरिचं तथा । अकलधरं समानं स्यान्मर्दयेच्च दिनत्रयम्‍ ॥२॥
आर्द्रकस्य रसेनैव गुटिकां वल्लसन्निभाम्‍ । मधुना चपला चैव क्षयश्वासनिबर्हण: ॥३॥
कफरोगविनाशाय रस उन्मत्तभैरव: । अनुपानविशेषेण धातुपुष्टिकर: स्मृत: ॥४॥ इति रसा: ।

॥ अथ पथ्यापथ्यम्‍ ॥
शालिषष्टिकगोधूममाषमुद्गकुलत्थका: । छाग्या: पयो घृतं बिम्बी वार्ताकं बालमूलकम्‍ ॥१॥
कासमर्दकजीवन्तीवास्तुकं बीजपूरकम्‍ । गोस्तनी लथुनं लाजा व्योषमुष्णोदकं मधु ॥२॥
पथ्यमेतद्यथादोषमुक्तं कासगदातुरे । मैथुनं स्त्निग्धमधुरं दिवा स्वापं पयो दधि ॥
पिष्टान्नं पायसादीनि कासी धूमं च वर्जयेत्‍ ॥३॥
इति पथ्यापथ्यम्‍ । इति कासचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-20T18:29:07.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

हिंदू धर्मात मुलाचे जावळ काढतात परंतु मुलीचे का काढत नाहीत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.