संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ कल्कः ॥

॥ अथ कल्कः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


द्रव्यमार्द्रं शिलापिष्टं शुष्कं वा सजलं भवेत्‌ ।
प्रक्षेपावापकल्कास्ते तन्मात्रा कर्षं संमिता ॥१॥
कल्के मधु घृतं तैलं देयं द्विगुणमात्रया ।
सितां गुडं समं दद्याद्रवा देयाश्चतुर्गुणाः ॥२॥
स यथा ।
त्रिवृद्ध्या पञ्चवृद्ध्या वा सप्तवृद्ध्याथवा कणाः ।
पिबेत्‌ पिष्ट्वा दशदिनं तास्तथैवापकर्षयेत्‌ ॥३॥
एवं विंशद्दिनं सिद्धं पिप्पलीवर्धमानकम्‌ ।
अनेन पाण्डुवातास्त्रकासश्वासारुचिज्वराः ।
उदरार्शःक्षयश्लेष्मवाता नश्यन्त्युरोग्रहाः ॥४॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP