संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ तृष्णानिदानं व्याख्यास्याम: ॥

॥ अथ तृष्णानिदानं व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ तृष्णानिदानं व्याख्यास्याम: ॥
भयशमाभ्यां बलसंक्षयाद्वा ऊर्ध्वं चितं पित्तविवर्धनैश्च । पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत्पिपासाम्‍ ॥१॥
सततं य: पिबेत्तोयं न तृप्तिमधिगच्छति । पुन: काड्क्षति तोय्म च तं तृष्णार्दितमादिशेत्‍ ॥२॥

॥ अथ कफजानां संप्राप्तिमाह ॥
स्त्रोत:स्वपां वाहिषु दूषितेषु दोषैश्च तृट्‍ सम्भवतीह जन्तो: । तिस्त्र: स्मृतास्ता: क्षतजा चतुर्थी क्षयात्तथान्यामसमुद्भवा च ॥१॥
भुक्तोद्भवा सप्तमिकेति तासां निबोध रुपाणि भवन्ति तासामुत्पत्तिकालेषु विशेषतो हि ॥२॥

॥ अथ वातजां तृष्णामाह ॥
शुष्कास्यता मारुतसम्भवायां तोदस्तथा शड्खशिर:सु चापि । स्त्रोतोनिरोधो विरसं च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ॥१॥

॥ अथ पित्तजामाह ॥
मूर्च्छान्नविद्वेषविलापदाहा रक्तेक्षणत्वं प्रततश्च शोष: । शीताभिनन्दो मुखतिक्तता च पित्तात्मिकायां परिधूपनं च ॥१॥

॥ अथ श्लेष्मजामाह ॥
बाष्पावरोधात्कफसंवृतेऽग्नौ तृष्णा बलासेन भवेन्नरस्य । निद्रा गुरुत्वं मधुरास्यता च तृष्णार्दित: शुष्यति चातिमात्रम्‍ ॥ कण्ठपलेपो मुखपिच्छिलत्वं शीतज्वरच्छर्दिररोचकाश्च ॥१॥
कफात्मिकायां गुरुगात्रता च शाखासु शोषस्त्वविपाक एव । एतानि रुपाणि भवन्ति तस्यां तयार्दित: काड्क्षति नातिचाम्भ: ॥२॥

॥ अथ क्षतजामाह ॥
क्षतस्य रुकशोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा भवेत्सा ॥१॥

॥ अथ क्षयजामाह ॥
रसक्षयाद्या क्षयसम्भवा सा तयाभिभूतस्तु निशादिनेषु । पेपीयतेऽम्भ: स सुखं न द्याति तां सन्निपातादिति केचिदाहु: ॥१॥

॥ अथामजामाह ॥
रसक्षयोक्तानि च लक्षणानि तस्यामशेषेन भिषग्व्यवस्येत्‍ । त्रिदोषलिड्गामसमुद्भवा च त्दृच्छूलनिष्ठीनसादकत्रो ॥१॥

॥ अथ मुक्तोद्भवामाह ॥
स्निग्धं तथाम्लं लवणं च भुक्तं गुर्वन्नमेवाशु तृषां करोति ॥१॥
दीनस्वर: प्रताम्यन्‍ दीनाननशुष्कत्दृदयगलतालु: । भवति खलु सोपसर्गा तृष्णा सा शोषणी मता कष्टा ॥२॥

॥ अथोपसर्गानाह ॥
ज्वरमोहक्षयकासश्वासाद्युपसृष्टदेहानाम्‍ । सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम्‍ ॥१॥

॥ अथासाध्यामाह ॥
ताल्वोष्ठकण्ठस्य तु तोददाहा: सन्तापमोहभ्रमविप्रलापा: । सर्वाणि रुपाणि भवन्ति तासां मृत्युर्विकाले तु विशेषतो हि ॥१॥
घोरोपद्र्वयुक्ता सा तृष्णा मरणाय विज्ञेया ॥ क्षीणं विभिन्नं बधिरं तृषार्तं विवर्जयेन्निर्गतजिह्वमाशु ॥२॥
ज्वरो मोह: क्षय: कास: श्वासो बाधिर्यमेव च । बहिर्निर्गतजिह्वत्वं सप्तैते तृडुपद्रवा: ॥३॥
सन्ततं य: पिबेत्तोयं न तृप्तिमधिगच्छति । पुन: काड्गक्षति तोयं च तोयं तृष्णार्दितमादिशेत्‍ ॥४॥
इति तृष्णानिदानम्‍ ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP