संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ सर्वोदरेषु सामान्यविधि: ॥

॥ अथ सर्वोदरेषु सामान्यविधि: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


उदराणां मलाढ्यत्वाद्‍ बहुश: शोधनं हितम्‍ । क्षीरेणैण्डजं तैलं पिबेन्मूत्रेण वासकृत्‍ ॥ जोतीष्मत्या: पिबेत्तैलं पयसा वा दिने दिने ॥१॥
इति शोधनं वृन्दात्‍ ॥ मूत्राण्यवष्टावुदरिणां सेके पाने च योजयेत्‍ ॥१॥
अथ देवदार्व्यादिलेप: ॥ देवदारुपलाशार्कहस्तिपिप्पलिशिग्रुकै: । साश्वगन्धै: सगोमूत्रै: प्रदिह्यादुदरं शनै: ॥१॥
॥ अथ रोहीतकादियोग: ॥ रोहीतकाभयाशुण्ठी: पिबेन्मूत्रेण शक्तित: । सर्वोदरहरं प्लीहमेहार्श:कृमिगुल्मनुत्‍ ॥१॥
अथ विशालादि: ॥ विशालाशड्खिनीदन्तीत्रिवृत्रिफलकात्रयम्‍ । निशाविड्गं कम्पिल्लं मूत्रेणोदरवान्‍ पिबेत्‍ ॥१॥
अथ पय आदि ॥ पयो वा चव्यदन्त्यग्निविडड्गव्योषकल्कितम्‍ । पेयं वा शृड्गबेराम्बु कषायो दारुवह्निज: । चव्यविश्वसमुत्थो वा पेयो जठरशान्तये ॥१॥
अथ सुश्रुतात्‍ ॥ हरीतकीसहस्त्रं वा गोमुत्रेण पयोऽनुप: । सहस्त्रं पिप्पलीनां वा स्नुक्‍क्षीरेण सुभावितम्‍ ॥१॥
पिप्पलीवर्धमानं वा क्षीराशी वा शिलाजतु । तद्वद्वा गुग्गुलं क्षीरं तुल्यार्द्रकरसं तथा । चित्रकामरदारुभ्यां कल्कं क्षीरेण वा पिबेत्‍ ॥२॥
अथ पिप्पलीवर्धमानम्‍ ॥
त्रिभिरथ परिवृद्धं पञ्चभि: सप्तभिर्वा दशभिरथ विवृद्धं पिप्पलीवर्धमानम्‍ । इति पिबति युवा यस्तस्य न श्वासकासज्वरजठरगुदार्शोवातरक्तक्षया: स्यु: ॥१॥
अथ देवद्रुमादि ॥ देवद्रुमं शिग्रुमसूरकं च गोमूत्रपिष्टामथवाश्वगन्धाम्‍ । पीत्वाशु हन्यादुदरं प्रवृद्धं कृमीन्सशोफानुदरं च दूष्यम्‍ ॥१॥
अथ पटोलाद्यं चेति चूर्णयेत्‍ ॥१॥
षडाद्यान्कार्षिकानन्त्यांस्त्रींश्च द्विचित्रचतुर्गुणान्‍ । कृत्वा चूर्णं ततो मुष्टिं गवां मूत्रेण वा पिबेत्‍ ॥२॥
विरिक्तो मृदु भुञ्जीत भोजनं जाड्गलै रसै: । मण्डं पेयां च पीत्वा वा सव्योषं षडहं पय: ॥३॥
शृतं पिबेत्ततश्चूर्णं पिबेदेवं पुन: पुन: । हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि ॥ कामलां पाण्डुरोगं च श्वयथुं चापकर्षति ॥४॥
अथ नारायणचूर्णम्‍ ॥ यवानी हपुषा धान्यं त्रिफला सोपकुञ्चिका । कारवी पिप्पलीमूलमजगन्धा शटी वचा ॥१॥
शताह्या जीरकं व्योषं स्वर्णक्षीरी सचित्रकम्‍ । द्वौ क्षारौ पुष्करं मूलं कुष्ठं लवणपञ्चकम्‍ ॥२॥
विड्ड्गं च समांशानि दन्तीभागत्रयं तथा । त्रिवृद्विशाले द्विगुणे सातला स्याच्चतुर्गुणा ॥३॥
एष नारायणो नाम चूर्णो रोगगणापह: । तक्रेणोदरिभि: पेयो गुल्मिभिर्बदराम्बुना ॥४॥
आनद्धवाते सुरया वातरोगे प्रसन्नया । दधिमण्डेन विट्‍सड्गे दाडिमाम्बुभिरर्शसि ॥५॥
परिकर्ते च वृक्षाम्लैरुष्णाम्बुभिरजीर्णके । भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे ॥६॥
त्दृद्रोगे ग्रहणीरोगे कुष्ठे मन्दानले ज्वरे । दंष्ट्राविषे मूलविषे गरले कृत्रिमे विषे । यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनम्‍ ॥७॥
इति नारायणचूर्णम्‍ ॥ अथ क्षारद्वयचूर्णम्‍ ॥ क्षारद्वयानलव्योषनीलीलवणपञ्चकम्‍ । चूर्णितं सर्पिषा पेयं सर्वगुल्मोदरापहम्‍ ॥१॥
अथ वृन्दाच्छुक्तिकाक्षारदियोग: ॥ सामुद्रशुक्तिकाक्षारो यवक्षार: ससैन्धव: । गोद्ग्धा संप्रयुज्येत सर्वोदरविनाशन: ॥१॥
अथ उष्ट्रीक्षीरपानम्‍ ॥ उष्ट्रीक्षीरं पिबेज्जीर्णे निरन्नो जठरामयी । पक्षं मासमृतुं वापि न च पानीयमाचरेत्‍ ॥१॥
अथ घृतानि ॥ तत्रादौ बिन्दुघृतम्‍ ॥ अर्कक्षीरं पले द्वे तु स्नुहीक्षीरं पलाइ षट्‍ । पथ्या कम्पिल्लकं श्यामा श्यम्याकं गिरिकर्णिका ॥१॥
नीलिनी त्रिवृता दन्ती शड्खिनी चित्रकं तथा । एतेषां पलिकैर्भागैर्घृतप्रस्थं विपाचयेत्‍ ॥२॥
अथास्य मलिने कोष्ठे बिन्दुमात्रं प्रदापयेत्‍ । यावदस्य पिबेद्‍ बिन्दुं तावद्वेगान्विरिच्यते ॥३॥
कुष्ठं गुल्ममुदावर्तं श्वयथुं सभगन्दरम्‍ । शमयत्युदुराण्यष्ठौ वृक्षमिन्द्राशनिर्यथा ॥ एतद्विन्दुघृतं नाम येनाभ्यक्तो विरिच्यते ॥४॥
इति वृन्दाद्‍बिन्दुघृतम्‍ ॥ अथ योगतरड्गिण्या नाराचघृतम्‍ ॥ त्रिफला चित्रको दन्ती बृहती कण्टकारिका । स्नुही चार्कविडड्गानि घृतस्य कुडवं पचेत्‍ ॥१॥
तस्य मृद्वग्निसिद्धस्य कर्षार्धं पाययेन्नरम्‍ । शोथगुल्मोदरानाहप्लीहोदरजलोदरान्‍ ॥ नाशयत्युल्बणानेतान्सर्पिर्नाराचसंज्ञितम्‍ ॥२॥
अथ त्रिवृताद्यं घृतम्‍ ॥ पयस्यष्टगुणे सर्पि: प्रस्थं स्नुक्‍पयस: पलम्‍ । त्रिवृता पलकल्केन सिद्धं जठरगुल्मनुत्‍ ॥१॥
अथ पञ्चमूलाद्यं घृतम्‍ ॥ द्वे पञ्चमूल्यौ त्रिवृता निकुम्भ: ससप्तलं चित्रकशिग्रुमूलम्‍ । करञ्जबीजं त्रिफलागूडूचीमेरण्डमूलं मदयन्तिका च ॥१॥
पाठां सभार्गी सुषवीं सतिक्तां सरोहिषां यासकुचेलिकां च । पृथक्‍ समाहृत्य पलं जलस्य द्रोणे पचेत्तच्चतुरंशशेषे ॥ घृतं विपक्वं सकषाययुक्तं निहन्ति पीतं सकलोदराणि ॥२॥
इति पञ्चमूलाद्यं घृतम्‍ ॥ अथ हिड्ग्वादि घृतम्‍ ॥ हिड्ग्वा रसोनार्द्रकशिग्रुपथ्याषड्‍ग्रन्थिदन्तीदशमूलतोयै: । द्विक्षारपञ्चोषणकल्कपादै:  सिद्धं घृतं तज्जठरे प्रशस्तम्‍ ॥२॥
इति घृतानि ॥ अथ तक्रपानम्‍ ॥ वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम्‍ । शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत्‍ ॥१॥
यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरी । सन्निपातोदरी तक्रं त्रिकटुक्षारसैन्धवै: ॥२॥
बद्धोदरी तु हपुषादीप्यकाजाजिसैन्धवै: । पिबेच्छिद्रोदरी तक्रं पिप्पलीक्षौद्रसंयुतम्‍ ॥ त्र्यूषणक्षारलवणैर्युक्तं तु सलिलोदरी ॥३॥
इति तक्रम्‍ ॥ अथ शोफोदरचिकित्सा ॥ हरीतनागरदेवदारुपुनर्नवाछिन्नरुहाकषाय: । सगुग्गुलुर्मूत्रयुतश्च पेय: शोफोदराणां प्रवर: प्रयोग: ॥१॥
पुनर्नवानिम्बपटोलशुण्ठीतिक्ताभयादार्व्यमृताकषाय: । सर्वाड्गशोफोदरकासशूलश्वासान्वितं पाण्डुगदं निहन्ति ॥२॥
पुनर्नवादार्व्यभयागुडूची: पिबेत्समूत्रा महिषाक्षयुक्ता: । त्वग्दोषशोफोदरपाण्डुरोगस्थौल्यप्रसेकोर्ध्वकफामयेषु ॥३॥
गोमूत्रयुक्तं महिषीपयो वा क्षीरं गवां वा त्रिफलाविमिश्रम्‍ । क्षीरान्नभुक्केवलमेव गव्यं मूत्रं पिबेद्वा श्वयथूदरेषु ॥४॥
सप्ताहं माहिषं मूत्रं पयसा चाम्बुवर्जितम्‍ । पिबेदौष्ट्रं पयो मांसं श्वयथूदरनाशनम्‍ ॥५॥
बिल्वाग्निचव्यार्द्रकशृड्गबेरक्वाथेन कल्केन च सिद्धमाज्यम्‍ । सच्छागदुग्धं ग्रहणीगुदोत्थशोफाग्निसादारुचिहृद्वरिष्ठम्‍ ॥६॥
इति श्वयथूदरचिकित्सा ॥ अथा रसा:  ॥ तत्रादौ नाराचो रस: ॥ भृष्टटड्कतुल्यं तु मरिचं च रसं समम्‍ । गन्धकं पिप्पलीशुण्ठी द्वौ द्वौ भागौ विचूर्णयेत्‍ ॥१॥
सर्वतुल्यं क्षिपेद्दन्तीबीजं सर्वमकल्मषम्‍ । द्विगुञ्जं रेचनं चैतदुदराणि व्यपोहति ॥२॥
अथेच्छाभेदी रस: ॥ शुण्ठीमरीचसंयुक्ता रसगन्धकटद्कणा: । जेपालस्त्रिगुण: प्रोक्त: सर्वमेकत्र मर्दितम्‍ ॥१॥
इच्छाभेदी रसो ह्यस्य द्विगुञ्जां ससितां पिबेत्‍ । यावच्च चूलका: पीतास्तावद्वेगैर्विरिच्यते ॥ तक्रोदनं च दातव्यं पथ्यमत्र विजानता ॥२॥
अथ जलोदरारि: ॥ पिप्पलीमरीचं ताम्रं काञ्चनीचूर्णसंयुतम्‍ । स्नुहिक्षीरैर्दिनं मर्द्यं तुल्यं जेपालबीजकम्‍ ॥ निष्कं भुक्तं विरेकेण सत्यं हन्ति जलोदरम्‍ ॥१॥
अत्र क्रव्यादरसो हित: ॥ अथ पथ्यापथ्यम्‍ ॥ दोषै: कुक्षौ हि संपूर्णे वह्निर्मन्दत्वमृच्छति । तस्माद्‍ भोज्यानि योज्यानि दीपनानि लघूनि च ॥१॥
शालिषष्टिकगोधूमयवनीवारभोजनम्‍ । विरेकास्थापनं श्रेष्ठं सर्वेषु जठरेषु च ॥२॥
इति वृन्दात्‍ ॥ अथ पथ्यापथ्यं संहितायाम्‍ ॥ विरेचनं लड्घनमब्दसम्भवा: कुलत्थमुद्गारूनशालयो यवा: । मृगा द्विजा जाड्गलसंज्ञयान्विता: पेयासुरा माक्षिकसीधुसैन्धवा: ॥१॥
तक्रं रसोनोरुबुतैलमार्द्रकं शालिं च शाकं कुलकं कटिल्लकम्‍ । पुनर्नवाशिग्रुफलं हरीतकीताम्बूलमेलायवशूकमायसम्‍ ॥२॥
अजागवोष्ट्रीमहिषीपयो जलं लघूनि तीव्राणि अ दीपनान्यपि । यथामलं पथ्यगणोऽयमाश्रित: सखा नृणां स्यादुदरामये सति ॥३॥
अम्बुपानं दिवास्वापं गुर्वभिष्यन्दि भोजनम्‍ । व्यायामं चाध्वयानं च जठरी परिवर्जयेत्‍ ॥४॥
इति पथ्यापथ्यम्‍ ॥ इत्युदरचिकित्सा ॥

N/A

References : N/A
Last Updated : March 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP