TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथाभ्रकम्‌ ॥

॥ अथाभ्रकम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथाभ्रकम्‌ ॥
॥ अथाभ्रकम्‌ ॥

शुक्लं रक्तं तथा पीतं कृष्णं चैव यथाक्रमम्‌ ।
पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम्‌ ॥१॥
दलानि मुञ्चत्यनिले पिनाकं भेकं स्वरावं कुरुतेऽनलस्थम्‌ ।
फूत्कारर्रावं भुजगः करोति ह्यविक्रियं वह्निगतं सुवज्रम्‌ ॥२॥
पिनाकं कुरुते कुष्ठं दर्दुरं मृत्युदायकम्‌ ।
नागं भगन्दरं कुर्याद्वज्राभ्रं गदवृन्दजित्‌ ॥३॥

==

॥ अथाभ्रकशोधनम्‌ ॥

प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम्‌ ।
निर्दोषं जायते नूनं प्रक्षिप्तं वापि गोजले ।
त्रिफलाक्कथिते वापि गवां दुग्धे विशेषतः ॥१॥
अन्यच्च ।
कृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत्‌ ।
भिन्नपत्रं ततः कृत्वा तण्डुलीयाम्लयोर्द्रवैः ॥२॥
भावयेदष्टयामं तु ह्येवं शुध्यति चाभ्रकम्‌ ॥३॥

==

॥ अथ धान्याभ्रकम्‌ ॥

पादांशशालिसंयुक्तमभ्रं बद्ध्वाथ कम्बले ।
त्रिरात्रं स्थापयेन्नीरे तत्क्लिन्नं मर्दयेत्करैः ॥१॥
कम्बलाद्गलितं सूक्ष्मं वालुकासदृशं च यत्‌ ।
तद्धान्याभ्रमिति प्रोक्तमथ मारणसिद्धये ॥२॥

==

॥ अथाभ्रमारणम्‌ ॥

कृत्वा धान्याभ्रकं तच्च शोषयित्वाथ मर्दयेत्‌ ।
अर्कक्षीरैर्दिनं खल्वे चक्राकारं च कारयेत्‌ ॥१॥
वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत्‌ ।
पुनर्मर्द्यं पुनः पाच्यं सप्तवारं पुनः पुनः ॥२॥
ततो वटजटाक्काथैस्तद्वद्देयं पुटत्रयम्‌ ।
मिर्यते नात्र संदेहः सर्वरोगेषु योजयेत्‌ ॥३॥
तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत्‌ ।
घृते जीर्णे तदभ्र्रं तु सर्वरोगेषु योजयेत्‌ ॥४॥
धान्याभ्रकं रविक्षीरै रविमूलद्रवेण वा ।
पिष्ट्वा पिष्ट्वा पुटेत्‌ पाकात्‌ सप्तधा म्रियते‍भ्रकः ॥५॥
अन्यच्च ।
धान्याभ्रं मेघनादैः कदलिघनजलैष्टङ्कणाङ्कोलतोयैः खल्वे संमर्द्य गाढं तदनु गजपुटान्‌ द्वादशैवं प्रदद्यात्‌ ।
मीनाक्षीभृङ्गतोयैस्त्रिफलजलयुतैर्मर्दयेत्सप्तवार्रं गन्धं तुल्यं च दत्वा प्रवरगजपुटात्‌ पञ्चतां याति मेघः ॥६॥
अन्यच्च ।
दुग्धत्रयं कुमार्यम्बु गजमूत्रं नृमूत्रकम्‌ ।
वटभृङ्गमजारक्तमेभिरभ्रं सुमर्दितम्‌ ।
शतधा पुटितं भस्म जायते पद्मरागवत्‌ ॥७॥
अन्यच्च ।
धान्याभ्रकं समादाय मुस्ताक्काथैः पुटत्रयम्‌ ।
तद्वत्पुनर्नवानीरैः कासमर्दरसैस्तथा ॥८॥
नागवल्लीदलैः सर्पिःक्षीरैर्देयं पृथक्‌ पृथक्‌ ।
दिने दिने मर्दयित्त्वा क्काथैर्वटजटोद्भवैः ॥९॥
दत्वा पुटत्रयं पश्चात्रिपुटं मुसलीद्रवैः ।
त्रिर्गोक्षुरकषायेण त्रिः पुटेद्वानरीरसैः ॥१०॥
मोचकन्दरसैः पाच्यं त्रिवारं कोकिलाक्षजैः ।
रसैः पुटेत्‌ ततो धेनुक्षीरादेकं पुटं मृदु ॥११॥
दध्ना घृतेन मधुना स्वच्छया सितया तथा ।
एकमेकं पुटं दद्यादभ्रस्यैवं मृतिर्भवेत्‌ ॥१२॥
अन्यच्च ।
धान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य च ।
पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत्‌ ।
स्वभावशीतलं चूर्णं सर्वरोगेषु योजयेत्‌ ॥१३॥
इति मारणम्‌ ॥

==

॥ अथ गुणाः ॥

निश्चन्द्रकं भजेत्तत्तु शुद्धदेहे रसायनम्‌ ।
सचन्द्रं विषमं ज्ञेयं मृत्युकृव्द्याघ्ररोमवत्‌ ॥१॥
वराम्बु गोघृतं चाभ्रं कलाषड्‌दिक्‌समांशकम्‌ ।
मृद्वग्निना पचेल्लेह्यममृतीकरणं त्विदम्‌ ॥२॥
वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाशूलामकोष्ठामयान्‌ ।
आर्तिश्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते खं हन्ति सर्वामयान्‌ ॥३॥
गौरीतेजः परमममृतं वातपित्तक्षयघ्नं प्रज्ञाबोधि प्रशमितजर्रं वृष्य्हमायुष्यमग्र्यम्‌ ।
बल्यं स्निग्धं रुचिदमकफं दीपनं शीतवीर्यं तत्तद्योगैः सकलगदहृव्द्योम सूतेन्द्रवद्धि ॥४॥
क्षाराम्लं विदलं कोलं कर्क्टी कारवेल्लकम्‌ ।
वृन्ताकं च कर्कटी च तैलं चाभ्रे विवर्जयेत्‌ ॥५॥

==

॥ अथाभ्रकानुपानानि ॥

अभ्रकं च निशायुक्तं पिप्पली मधुनासह ।
विंशतिं च प्रमेहानां नाशयेन्नात्र संशयः ॥१॥
अभ्रकं हेमसंयुक्तं क्षयरोगविनाशनम्‌ ।
रौप्यहेमाभ्रकं चैव धातुवृद्धिकरं परम्‌ ॥२॥
अभ्रकं च हरीतक्या गुडेन सह योजितम्‌ ।
एलाशर्करया युक्तं रक्तपित्तविनाशनम्‌ ॥३॥
त्रिकटु त्रिफलां चैव चातुर्जातं सशर्करम्‌ ।
मधुना लेहयेत्प्रातः क्षयार्शःपाण्डुनाशनम्‌ ॥४॥
गुडूचिसत्वखण्डाभ्यां मिश्रितं मेहनाशनम्‌ ।
एलागोक्षुरभूधात्रीसितागव्येन मिश्रितम्‌ ॥५॥
प्रातः संसेस्वनान्नित्यं मेहकृच्छ्रनिवारणम्‌ ।
पिप्पलीमधुसंयुक्तं भ्रमजीर्णज्वरापहम्‌ ॥६॥
मधु त्रिफलया युक्तं दृष्टिपुष्टिकरं मतम्‌ ।
मूर्वासत्वयुतं व्योम व्रणानां च विनाशनम्‌ ॥७॥
गोक्षीरक्षीरकन्दाभ्यां बलवृद्धिकरं परम्‌ ।
भल्लातकयुतं व्योम त्वर्शोदोषनिवारणम्‌ ॥८॥
नागरं पौष्करं भार्गी गगनं मधुना सह ।
अश्वगन्धायुतं खादेद्वातव्याधिनिवारणम्‌ ॥९॥
चातुर्जातं सिता चाभ्रं पित्तरोगनिवारणम्‌ ।
कट्फलं पिप्पली क्षौद्रं श्लेष्मरोगनिवारणम्‌ ॥१०॥
सर्वक्षारयुतं चाभ्रमग्निवृद्धिकरं परम्‌ ।
मूत्राघातं मूत्रकृच्छ्रमश्मरीमपि नाशयेत्‌ ॥११॥
विजयारससंयुक्तं शुक्रस्तम्भकरं परम्‌ ।
लवङ्गमधुसंयुक्तं धातुवृद्धिकरं परम्‌ ॥१२॥
गोक्षीरंशर्कर्रायुक्तं पित्तरोगविनाशनम्‌ ।
अभ्रकं विधिसंयुक्तं पथ्ययोगेन योजितम्‌ ॥१३॥
वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुसङ्ग्रहणिकाशूलं च कुष्ठामयम्‌ ।
सर्व चासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां परिहरेच्छेषामयान्निश्चितम्‌ ॥१४॥
वलीपलितनाशः स्याज्जीवेच्च शारदां शतम्‌ ।
नातः परतरं किञ्चिज्जर्रामृत्युविनाशनम्‌ ॥१५॥
इति सहस्रपुटाभ्रकानुपानानि  ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-15T19:39:18.7030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सेचक

  • n. धृतराष्ट्रकुलोत्पन्न एक नाग, जो जनमेजय के सर्वसत्र में दग्ध हुआ था [म. आ. ५२.१४] । पाठभेद (भांडारकर संहिता) - ‘मैचक’। 
RANDOM WORD

Did you know?

गणपतीचे प्रकार किती व कोणते?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.