संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रोगिणां अष्टस्थानानि लक्षयेत्‌ ॥

॥ अथ रोगिणां अष्टस्थानानि लक्षयेत्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


रोगाक्रान्तशरीरस्य स्थानान्यष्टौ निरीक्षयेत्‌ । नाडीं मूत्रं मलं जिव्हां शब्दं स्पर्शं दृगाकृती ॥१॥
दोषकोपे घनेऽल्पे च पूर्वं नाडीं परीक्ष्य च । अन्ते चादौ स्थितिस्तस्या विज्ञेया भिषजा स्फुटम्‌ ॥२॥
यथा वीणागता तन्त्री सर्वान्‌ रागान्प्रभाषते । तथा हस्तगता नाडी सर्वान्‌ रोगान्प्रभाषते ॥३॥
सर्वेषामेव रोगाणां निदानं कुपिता मलाः । तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम्‌ ॥४॥
निदानार्थकरो रोगो रोगस्याप्युपलक्ष्यते । आदौ सर्वेषु नाडीजिव्हाक्षिमूत्रतः ॥५॥
परीक्षां कारयेद्वैद्यैः पश्चाद्रोगं चिकित्सयेत्‌‍ । नाड्या मूत्रस्य जिव्हाया लक्षणं यो न विन्दति ॥६॥
मारयत्याशु वै जन्तुं स वैद्यो न यशो भजेत्‌ । लक्षयित्वा देशकालौ ज्ञात्वा रोगबलाबलम्‌ ॥७॥
चिकित्सामारभेद्वैद्यो यशः कीर्तिमवाप्नुयात्‌ ॥८॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP