TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ धान्यादिफलकन्दशाकगुणाः ॥

॥ अथ धान्यादिफलकन्दशाकगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ धान्यादिफलकन्दशाकगुणाः ॥
श्वेता रक्ता स्थूलसूक्ष्मा ये चान्ये शालयः शुभाः ।
स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः ॥१॥
कषायानुरसाः पथ्या लघवो मूत्रला हिमाः ।
षष्टिका व्रीहिषु श्रेष्ठा गौराश्चासितगौरतः ॥२॥
रूक्षः शीतो गुरुः स्वादुः सरो विड्वातकृद्यवः ।
सन्धानकारी मधुरो गोधूमः स्थैर्यकृत्सरः ॥३॥
युगन्धरस्त्रिदोषघ्नः स्वादुः पथ्यो रसायनः ।
मुद्राढकीमसूरादि शिम्बिधान्यं विबन्धकृत्‌ ॥४॥
कषायं स्वादु सङ्ग्राहि कटुपाकं हिमं लघु ।
मेदश्लेष्मास्रपित्तेषु हितं लेपोपसेकयोः ॥५॥
मुद्रस्तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम्‌ ।
वातानुलोमी कौलत्थोगुल्मतूनिप्रतृनिजित्‌ ॥६॥
वरोऽत्र मुद्गोऽल्पबलः कलायस्त्वतिवातलः ।
चणको वातलस्तद्वत्कु लत्थः कफवातहृत्‌ ॥७॥
वास्तुकं ग्रहणीकुष्ठत्रिदोषार्शोहरं सरम्‌ ।
तद्वल्लघुदला चिल्ली काचमाची च मेथिका ॥८॥
तन्दुलीयो हिमो रूक्षो विशपित्तास्रकासजित्‌ ।
चाङ्गेरी कफवातास्रसंग्रहण्यतिसारजित्‌ ॥९॥
हृद्यं पटोलं कृमिजित्‌ स्वादु शीतं रुचिप्रदम्‌ ।
पटोलपत्रं पित्तघ्नं नालं तस्य कफापहम्‌ ॥१०॥
फलं त्रिदोषशमनं मूलं चास्यविरेचनम्‌ ।
पित्तलं दीपनं भेदि वातघ्नं बृहतीद्वयम्‌ ॥११॥
कारवेल्लं सतिक्तं स्याद्दीपनं कफजित्परम्‌ ।
कर्कोटकं ज्वरश्वासदद्रुकुष्ठविषापहम्‌ ॥१२॥
वार्ताकं कफवातघ्नं किञ्चित्पित्तप्रकोपनम्‌ ।
सरलं मूत्रलं प्रोक्तं बलकृद्वालमेव तत्‌ ॥१३॥
भेण्डी त्वम्लरसा सोष्णा ग्राहिका रुचिकारिका ।
बिम्बीफलं स्वादु शीतं स्तम्भनं लेखनं गुरु ॥१४॥
पित्तास्रदाहशोफघ्नं वाताध्मानविबन्धकृत्‌ ।
कूष्माण्डं बृंहणं शीतं गुरु पित्तास्रवातजित्‌ ॥१५॥
बालं पित्तापहं शीतं मध्यमं कफकारकम्‌ ।
पक्कं नातिहिमं स्वादु सारकं दीपनं लघु ॥१६॥
बस्तिशुद्धिकरं चेतोरोगदोषत्रयापहम्‌ ।
मिष्टतुम्बीफलं वृष्यं कफपित्तहरं गुरु ॥१७॥
कटुतुम्बी हिमा हृद्या पित्तकासकफापहा ।
त्रपुसं मूत्रलं शीतं रूक्षं पित्तास्रकृच्छ्रजित्‌ ॥१८॥
तत्पक्कमुष्णमम्लं स्यात्पित्तलं कफवातजित्‌ ।
कोशातकी लघुस्तिक्ता रूक्षामाशयशोधिनी ॥१९॥
शोफपाण्डूदरप्लीहकुष्ठार्शःकफपित्तजित्‌ ।
तत्पत्रं भेदनं शीतं लघु मेहविशोषजित्‌ ॥२०॥
शतपुष्पा कटुः स्निग्धा तिक्तोष्णा श्लेष्मवातहा ।
रुच्या बस्तिहिता नेत्र्या बद्धविट्क्रिमिशुक्रनुत्‌ ॥२१॥
चक्रवर्त्याभिधं शाकं गुणैर्वास्तुकवन्मतम्‌ ।
सरं शीतं त्रिदोषघ्नं लघु दीपनपाचनम्‌ ॥२२॥
शाकं तु सर्षपोद्भूतं चक्षुर्ध्नं दाहि रोचनम्‌ ।
बद्धविट्कं बद्धमूत्रं गुरूष्णं च त्रिदोषकृत्‌ ॥२३॥
कौसुम्भं स्वादु रूक्षोष्णं कफजित्पित्तलं लघु ।
चणकं शाकमुद्दिष्टं दुर्जरं कफवातकृत्‌ ॥२४॥
शिग्रुस्तीक्ष्णो लघुर्ग्राही वह्निदः कफवातजित्‌ ।
तीक्ष्णोष्णो विद्रधिप्लीहव्रणघ्नश्चाम्लपित्तजित्‌ ॥२५॥
[ ग्रन्थान्तरे ]
मधुशिग्रुः कटुस्तिक्तः शोफघ्नोदीपनः सरः ।
तत्पत्रं वातपित्तघ्नं चक्षुष्यं स्वादु शीतलम्‌ ॥२६॥
शिग्रुजं कुसुमं स्वादु कफपित्तहरं गुरु ।
सकषायं गुरु ग्राहि चक्षुष्यं कृमिनाशनम्‌ ॥२७॥
सौभाञ्जनफलं स्वादु कषायं कफपित्तजित्‌ ।
शूलकुष्ठक्षयश्वासगुल्मघ्नं दीपनं परम्‌ ॥२८॥
आर्द्रां कुस्तुम्बरी कुर्यात्‌ स्वादुसौगन्ध्यहृद्यताः ।
शुष्का स्निग्धा स्वादुपाका कषाया कटुका लघुः ॥२९॥
कदलीकुसुमं तिक्तं कषायं ग्राहि दीपनम्‌ ।
उष्णवीर्यं बलासघ्नं तद्गुणं चास्फुटं दलम्‌ ॥३०॥
आगस्त्यपुष्पं शिशिरं चतुर्थज्वरशान्तिकृत्‌ ।
नक्तान्ध्यनाशनं प्रोक्तं दीपनं श्लेष्मपित्तनुत्‌ ॥३१॥
सतिक्तं कटुकं पाके कषायं वातलं मतम्‌ ।
आगस्त्यशिम्बः सदृशो गुणैः पुष्पस्य दुर्जरः ॥३२॥
शतपत्री तरुण्युक्ता कर्णिका चारुकेसरा ।
सहाकुमारी गन्धाढ्या लाक्षापुष्पातिमञ्जुला ॥३३॥
शतपत्री हिमा हृद्या ग्राहिणी शुक्रला लघुः ।
दोषत्रयास्रजिद्वर्ण्या तिक्ता कट्व्री च पाचनी ॥३४॥
मूलकं बालकं रुच्यं वीर्योष्णं पाचनं लघु ।
महत्तदेव रूक्षोष्णं गुरु दोषत्रयप्रदम्‌ ॥३५॥
सोरणो दीपनो रूक्षः कफार्शःकृमिजिल्लघुः ।
तद्वद्वन्यो विशेषेण कफघ्नो रक्तपित्तकृत्‌ ॥३६॥
गर्जरं मधुरं तीक्ष्णं तिक्तोष्णं दीपनं लघु ।
संग्राहि रक्तपितार्शोग्रहणीकफवातजित्‌ ॥३७॥
शीतलः कदलीकन्दो ग्राही रूक्शोऽस्रपित्तजित्‌ ।
ईषत्कषायः कफकृत्‌ वातलः प्रदरे हितः ॥३८॥
रूक्षातिपित्तकृद्गुर्वी वातला गौरवाकुची ।
तिक्ता नोदरिणां पथ्या ग्रहण्यर्शोविकारनुत्‌ ॥३९॥
क्षुपजं मरिचं रुच्यं दोषलं सर्वरोगकृत्‌ ।
विशेषतः प्रमेहार्शोविकारेषु न शस्यते ॥४०॥
बृहन्मरीचं क्षुपजं ततोऽप्यल्पतरं गुणैः ।
क्षीराकर्कटिका त्वन्या राजकर्कटिका च सा ॥४१॥
सुदीर्घा राजिलफला वाणैः कुलककर्कटी ।
वालुकं श्लेष्मलं स्वादु लघु भेदि च पित्तजित्‌ ॥४२॥
मधुराम्लरसः पित्तरक्तजित्पक्कमुत्तमम्‌ ।
अग्निदीप्तिकरं श्वेतं शाकूटममलं सरम्‌ ॥४३॥
दुर्नामकृमिमेहघ्नं कफपित्तहरं परम्‌ ।
दुर्नामहृत्‌ श्यामलशाकुटं तु मन्दाग्निविण्मूत्रविबन्धहन्तृ ।
द्राक्षाबालफलं कटूष्णविशदं पित्तास्नदोशप्रदं मध्यं चाम्लरसं रसान्तरगतं रुच्यातिवह्निप्रदम्‌ ।
पक्कं चेन्मधुरं तथाम्लसहितं तृश्णास्रपित्तापहं पक्कं शुष्कतमं श्रमार्तिशमनं सन्तर्पणं पुष्टिदम्‌ ॥४४॥
द्राक्षा पक्का सरा शीता चक्षुष्या बृंहणी गुरुः ।
हन्ति तृष्णाज्वरश्वासवातवान्तास्रकामलाः ॥४५॥
कृच्छ्रास्रपित्तसंओहदाहशोषमदात्ययान्‌ ।
आमा स्वल्पगुणा गुर्वी सैवाम्ल रक्तपित्तजित्‌ ॥४६॥
आम्रो ग्राही प्रमेहास्रकफपित्तव्रणान्जयेत्‌ ।
तत्फलं बालमत्यम्लं रूक्षं दोषत्रयास्रकृत्‌ ॥४७॥
बद्धास्थि तादृगेवाक्तं वातहारि च पित्तलम्‌ ।
पक्कं तु मधुरं वृष्यं स्निग्धं हृद्यं बलप्रदम्‌ ॥४८॥
गुरु वातहरं रुच्यं वर्ण्यं शीतमपित्तलम्‌ ।
सन्तर्पणो यः सकलेन्द्रियाणाम बलप्रदो वॄष्यतमश्च हृद्यः ।
स्त्रीषु प्रहर्षं प्रचुरं ददाति फलाधिराजः सहकार एव ॥४९॥
रसस्त्वस्य स्निग्धो रोचनो बलर्ण्कृत्‌ ।
आम्रबीजं कषायं स्याच्छर्द्यतीसारनाशकृत्‌ ॥५०॥
आम्रपुष्पमतीसारकफपित्तप्रमेहनुत्‌ ।
असृग्दोषहरं शीतं रुचिकृद्वातनाशनम्‌ ॥५१॥
आम्रस्य पल्लवं रुच्यं कफपित्तविनाशनम्‌ ।
पनसं शीतलं पक्कं स्निग्धं पित्तानिलापहम्‌ ॥५२॥
बल्यं शुक्रप्रदं हन्ति रक्तपित्तक्षतक्षयान्‌ ।
आमं तदेव विष्टम्भि वातलं तुवरं गुरु ॥५३॥
ईषत्कषायं मधुरं तद्बीजं वातलं गुरु ।
तत्फलं च विकारघ्नं रुच्यं त्वग्दोषनाशनम्‌ ॥५४॥
कदली योनिदोषाश्मरक्तपित्तहरा हिमा ।
तत्कन्दः शीतलो बल्यः केश्यः पित्तकफास्रजित्‌ ॥५५॥
तत्फलं मधुरं शीतं विष्टम्भि बलकृद्रुरु ।
स्निग्धं पित्तास्रहृद्दाहक्षतक्षयसमीरजित्‌ ॥५६॥
बालं फलं मधुरमम्लमथो कषायं पित्तापहं शशिररुच्यमथापि नालम्‌ ।
पुष्पं तदप्यनुगुणं कृमिहारि कन्दं पर्णं च शूलशमनं कदलीभवं स्यात्‌ ॥५७॥
रम्भापक्कफलं कषायमधुरं बल्यं च शीतं तथा पित्तं चास्रविमर्दनं गुरुतरं पथ्यं न मन्दानले ।
सद्यः शुक्रविवर्धनं कृमिहरं तृष्णापहं कान्तिदं दीप्ताग्नौ सुखदं कफामयहरं सन्तर्पणं दुर्जरम्‌ ॥५७॥
नारीकेलफलं शीतं दुर्जरं बस्तिशोधनम्‌ ।
विष्टम्भि बृंहणं बल्यं वातपित्तास्रदाहजित्‌ ॥५८॥
तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलं लघु ।
तत्पादपशिरोमज्जा शुक्रला वातपित्तजित्‌ ॥५९॥
वेशषतः कोमलनारिकेलं निहन्ति पित्तज्वरपित्तदोषान्‌ ।
तदप्यजीर्णं गुरुपित्तकारि विदाहि विष्टम्भि मतं भिषग्भिः ॥६०॥
खर्जूरिकाफलं शीतं स्वादु स्निग्धं क्षुदास्रजित्‌ ।
बल्यं हन्ति मरुत्पित्तमदमूर्छामदात्ययान्‌ ॥६१॥
तस्मात्स्वल्पगुणं ज्ञेयमन्यत्खर्जूरिकाफलम्‌ ।
दाडिमं ग्राहि दोषघ्नं हृद्यं रोचनदीपनम्‌ ॥६२॥
तद्वदामलकं पथ्यं मधुराम्लरसं सरम्‌ ।
बदरंझ लघु संग्राहि रुच्यमुष्णं समीरजित्‌ ॥६३॥
कफपित्तकरं तद्वत्कोमलं गुरु संमतम्‌ ।
सौवीरं बदरं शीतं भेदनं गुरु शुक्रलम्‌ ॥६४॥
बृंहणं पित्तदाहास्रक्षयतृशःणानिलापहम्‌ ।
जम्बूफलं ग्राहि रूक्षं कफपित्तव्रणास्रजित्‌ ॥६५॥
क्षुद्रजम्बूफलं तद्वद्विशेशाद्वातनाशनम्‌ ।
खर्बुजं मूत्रलं बल्यं कोष्ठशुद्धिकरं गुरु ॥६६॥
स्निग्धं स्वादुतरं शीतं वृष्यं पित्तानिलापहम्‌ ।
वाताममुष्णं सुस्निग्धं वातहृद्बलशुक्रकृत्‌ ॥६७॥
अक्षोटं मधुरं बल्यं गुरूष्णं वातहृत्सरम्‌ ।
सेव्यं समीरपित्तघ्नं बृंहणं कफकृत्‌ गुरु ॥६८॥
रसे पाके च मधुरं शिशिरं रुचिशुक्रकृत्‌ ।
शीताफलं तु मधुरं शीतं पित्तविनाशनम्‌ ॥६९॥
हृद्यं बलकरं स्वादु पुष्टिदं स्वल्प वातलम्‌ ।
रामाह्वयफलं तद्वदीषत्स्वादु च वातकृत्‌ ॥७०॥
शृङ्गाटं मधुरं रूक्षं गुरु ग्राहि हिमं तथा ।
शुक्रानिलश्लेष्मकरं शुष्कमार्द्रं विशेषतः ॥७१॥
विरेचनफलः शाखी श्यामः करभवल्लभः ।
अर्कार्धः कटुकः पीलुः कषायो मधुराम्लकः ॥७२॥
रसः स्वादुश्च गुल्मार्श ।
शमनो दीपनः परः ।
मधुरस्तु महापीलुर्वृष्यो विषविनाशनः ॥७३॥
पित्तप्रशमनो रुच्यो ह्यामघ्नो दीपनः परः ।
सुस्वादु पाकरसयोर्गुरु शीतलं च श्लेष्मामवातकरमञ्जिरमग्निशत्रु ।
आमं तु कैतकं रुच्यं कफपित्तकरं गुरु ।
अन्नप्ररोचकं हृद्यं श्रमक्लमनिबर्हणम्‌ ॥७४॥
पक्कं तु पित्तहृत्स्वादुरसमातपदोषनुत्‌ ।
बीजपूरफलं रुच्यं रसेऽम्लं दीपनं लघु ॥७५॥
रक्तपित्तकरं ग्राहि जिह्वाहृच्छोधनं परम्‌ ।
त्वक्‌ तस्य तिक्ता गुर्व्युष्णा कॄमिवातकफापहा ॥७६॥
तन्मांसं बृंहणं शीतं गुरु पित्तसमीरजित्‌ ।
केसरो मधुरो ग्राही शूलगुल्मोदरापहः ॥७७॥
बीजमुष्णं कृमिश्लेष्मवातजित्‌ गर्भदं गुरु ।
तत्पुष्पं शीतलं ग्राहि रक्तपित्तहरं लघु ॥७८॥
मधुकर्कटिका शीता रक्तपित्तहरा गुरुः ।
कालिङ्गं ग्राहि दृक्पित्तशुक्रहृत्‌ शीतलं गुरु ॥७९॥
नारङ्गमम्लमत्युष्णं रुच्यं वातहरं सरम्‌ ।
कट्वम्लमपरं हृद्यं दुर्जरं वातनाशनम्‌ ॥८०॥
जम्बीरमम्लं शूलघ्नं गुरूष्णं कफवातजित्‌ ।
आस्यवैरस्यहृत्पीडावह्निमान्द्यकृमीन्जयेत्‌ ॥८१॥
अम्लवेतसमत्यम्लं भेदनं शतवेधि च ।
हृद्रोगशूलगुल्मघ्नं पित्तास्रकफदूषणम्‌ ॥८२॥
साराम्लमम्लं वातघ्नं गुरुपित्तकफप्रदम्‌ ।
कर्मरङ्गं हिमं ग्राहि स्वाद्वम्लं कफपित्तजित्‌ ॥८३॥
निम्बूकमम्लं वातघ्नं पाचनं दीपनं लघु ।
राजनिम्बुफलं स्वादु कफपित्तसमीरजित्‌ ॥८४॥
मिष्टनिम्बूफलं पित्तवातहृत्‌ गुरु रोचनम्‌ ।
भ्रमतृड्दाहपित्तास्रच्छर्दिक्षयगरापहम्‌ ॥८५॥
आम्लिकाभागुरुर्वातहरा पित्तकफास्रजित्‌ ।
पक्का तद्वत्सरा रुच्या वह्निबस्तिविशुद्धिकृत्‌ ॥८६॥
शुष्का हृद्या श्रमभ्रान्तितृष्णाकृमिहरा लघुः ।
तित्तिडीकं समीरघ्नमाममुष्णं परं गुरु ॥८७॥
तत्पक्कं लघु संग्राहि ग्रहणीकफवातजित्‌ ।
करमर्दं गुरूष्णाम्लं रक्तपित्तकफप्रदम्‌ ॥८८॥
तत्पक्कं मधुरं रुच्यं लघु पित्तसमीरजित्‌ ।
शुष्कं पक्कवच्छ्यामं पक्कमप्यार्द्रमामवत्‌ ॥८९॥
कपित्थमामं सङ्ग्राहि लघु दोषत्रयापहम्‌ ।
पक्कं गुरु तृशाहिक्काशमनं वातपित्तजित्‌ ॥९०॥
स्वाद्वम्लं तुवरं कण्ठशोधनं ग्राहि दुर्जरम्‌ ।
आम्रातमामं वातघ्नं गुरूष्णं रुचिकृत्सरम्‌ ॥९१॥
पक्कं स्वादु हिमं वृष्यं मरुत्पित्तक्षतास्रजित्‌ ।
पूगं गुरु हिमं रूक्षं कषायं कफपित्तजित्‌ ॥९२॥
मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम्‌ ।
आर्द्रं तु गुर्वभिष्पन्दिवह्निदृष्टिकरं सरम्‌ ॥९३॥
स्विन्नं त्रिदोषहृत्सर्वं तद्भेदांस्ताद्वदादिशेत्‌ ।
लशुनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः ॥९४॥
भग्नसन्धानकृत्‌ केश्यो गुरुः पित्तास्रबुद्धिदः ।
रसायनं कफश्वासकासगुल्मज्वरारुचीः ॥९५॥
हन्ति शोफप्रमेहार्शः कुष्ठशूलानिलं कृमीन्‌ ।
तत्पत्रं मधुरं क्षारं नालो मधुरपिच्छिलः ॥९६॥
पलाण्डुस्त गुणैस्तुल्यः कफकृन्नातिपित्तलः ।
अनुष्णः केवलं वातं स्वादुपाकरसैर्जयेत्‌ ॥९७॥
आर्द्रं पाचनदीपनं रुचिकरं वृष्यं कटूष्णं वरं स्वर्यं मेदहरं कफामयहरं शोफापहं शूलजित्‌ ।
जिह्वाकण्ठविशोधनं सलवणं पथ्यं सदा भोजने निम्बूतोयविमिश्रितं रुचिकरं संदीपनं सारणम्‌ ॥९८॥
कुष्ठे पाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे ।
दाहे निदाघे शरदि नैव पूजितमार्द्रकम्‌ ॥९९॥
शाकेषु सर्वेषु वसन्ति रोगाः सहेतवो देहविनाशनाय ।
तस्माद्बुधः शाकविवर्जनं हि कुर्यात्तथाम्लेषु स नैव दोषः ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-10T18:53:12.1330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

steriliised water

  • निर्जंतुक पाणी 
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site