TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ त्रिदोषच्छर्दि: ॥

॥ अथ त्रिदोषच्छर्दि: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ त्रिदोषच्छर्दि: ॥
॥ अथ त्रिदोषच्छर्दि: ॥
॥ अथ धात्रीफलादिपानकम्‍ ॥
पिष्ट्वा धात्रीफलं द्राक्षां शर्करां च पलोन्मिताम्‍ । दत्वा मधुपलं चैव कुडवं सलिलस्य च ॥ वाससा गालितं पीतं हन्ति च्छर्दिं त्रिदोषजाम्‍ ॥१॥
अथ मसूरसक्तु: । मसूरसक्तव: क्षौद्रमर्दिता दाडिमाम्भसा । पीता निवारयन्त्याह च्छर्दिं दोषत्रयोद्भवाम्‍ ॥१॥

॥ अथैलादिचूर्णम्‍ ॥
एलालवड्गगजकेशरकोलमज्जालाजप्रियड्गुघनचन्दनपिप्पलीनाम्‍ । चूर्णं सितामधुयुतं मनुजो विलिह्य च्छर्दिं निहन्ति कफमारुतपित्तजाताम्‍ ॥१॥
योगरत्नावलित: ॥

॥ अथ शार्ड्गधराद्बिल्वादि: ॥
बिल्वत्वचो गुडूच्या वा क्वाथ: क्षौद्रेण संयुत: । जयेत्त्रिदोषजां छर्दिं पर्पटं: पित्तजां तथा ॥१॥

॥ अथ सामान्यच्छर्दि: ॥
कोलामलकमज्जानौ मक्षिकाविट्‍ सिता मधु । सकृष्णा तण्डुलो लेहश्छर्दिमाशु व्यपोहति ॥१॥
इति कोलाद्यवलेह: ॥

॥ अथ मन:शिलादियोग: ॥
योगशतात्‍ । मन:शिलामागधिकोषणानां चूर्णं कपित्थाम्लरसेन युक्तम्‍ लाजै: समांशैर्मधुनावलीढं छर्दिं प्रसक्तामसकृन्निहन्ति ॥१॥

॥ अथ योगसारादश्वत्थवल्कलादि: ॥
अश्वत्थवल्कलं शुष्कं दग्धं निर्वापितं जले । तज्जलं पानमात्रेण च्छर्दिं जयति दुर्जयाम्‍ ॥१॥
योगतरड्गिण्या: ॥

॥ अथ लाजादियोगत्रयम्‍ ॥
लाजाकपित्थमधुभागधिकोषणानां क्षौद्राभयात्रिकटुधान्यकजीरकाणाम्‍ । पथ्यामृतामरिचमाक्षिकपिप्पलीनां लेहास्त्रय: सकलवम्यरुचिप्रशान्त्यै ॥१॥
अथ योगतरड्गिण्या आम्रास्थिक्वाथ: । आम्रास्थिबिल्वनिर्यूह: पीत: समधुशर्कर: । निहन्ति च्छर्द्यतीसारं वैश्वानर इवाहुतिम्‍ ॥१॥

॥ अथ योगत: पद्मकाद्यं घृतम्‍ ॥
पद्मकामृतनिम्बानां धान्यचन्दनयो: पचेत्‍ । कल्के क्वाथे च हविष: प्रस्थं छर्दि निवारणम्‍ ॥१॥

॥ अथ मयूरपक्षभस्मावलेह: ॥
योगतरड्गिण्या: । मयूरपक्षं निर्दह्य तद्भस्म मधुमिश्रितम्‍ । लीढ्वा निवारयत्याशु च्छर्दिं सोपद्रवामपि ॥१॥

॥ अथ सारसंग्रहात्‍ गोण्याद्यम्‍ ॥
पुराणगोणिभस्माम्भो मधुयुक्तं निपीय तु । छर्दि छिनत्ति मनुजस्तृणानीव हुताशन: ॥१॥
अथ चिकित्सासारात्‍ जातीपत्रादि: । जातीपत्ररसं कृष्णा मरिचं शर्करान्वितम्‍ । एतानि मधुयुक्तानि घ्रन्ति च्छर्दिं चिरोद्भवाम्‍ ॥१॥

॥ अथ कोलमज्जादि: ॥
चिकित्सासारात्‍ । कोलमज्जा कणा बर्हिपक्षभस्म सशर्करम्‍ । मधुना लेहयेच्छर्दिहिक्काकोपस्य शान्तये ॥१॥

॥ अथ शार्ड्गधराब्दीजपूरादि: ॥
बीजपूराम्रजम्बूनां पल्लवानि जटा: पृथक्‍ । विपचेत्पुटपाकेन क्षौद्रयुक्तश्च तद्रस: ॥
छर्दि निवारयेद्‍घोरां सर्वदोषसमुद्भवाम्‍ ॥१॥

॥ अथ चिकित्सासाराज्जम्ब्वाम्रपल्लवादि: ॥
जम्ब्वाम्रपल्लवोशीरवटशृड्गावरोहज: । क्वाथ: क्षौद्रयुत: पीत: शीतो वा विनियच्छति ॥ छर्दिं ज्वरमतीसारं मूर्च्छां तृष्णां च दुर्जयाम्‍
॥१॥

॥ अथ पटोलाद्यं घृतम्‍ ॥
पटोलशुण्ठयो: कल्काभ्यां केवलं कुलकेन वा । घृतप्रस्थं विपक्तव्यं कफपित्तवमीर्हरेत्‍ ॥१॥

॥ अथ हिड्ग्वादि: ॥
हिड्गुना सारिवामूलं सर्ववान्तिहरं परम्‍ । रम्भा कन्दरसो वापि मधुना छर्दिनाशकृत्‍ ॥२॥

॥ अथ दध्युत्थरसादि: ॥
दध्युत्थरससंयुक्तं पिप्पलीमाक्षिकान्वितम्‍ । मुहुर्मुहुर्नरो लिह्याच्छर्दिभ्य: प्रतिमुच्यते ॥१॥ इति सुश्रुवात्‍ ॥

॥ अथ करञ्जादि: ॥
कोमलकरञ्जपत्रं सलवणमम्लेन संयुक्तम्‍ । य: खादति दीनवदनश्छर्दिकफौ तस्य कुत्रेह ॥१॥ इति सारसंग्रहात्‍ ।

॥ अथ करञ्जबीजादि: ॥
ईषद्‍भृष्टं करञ्जस्य बीजं खण्डीकृतं पुन: । मुहुर्मुहुर्नरो भुक्त्वा छर्दिं जयति दुस्तराम्‍ ॥१॥

॥ अथ शड्खपुष्पीरसादि: ॥
सड्खपुष्पीरसं टड्कद्वयं समरिचं मुहु: । स क्षौद्रं मनुज: पीत्वा छर्दिभ्य: किल मुच्यते ॥१॥ इति लघुयोगत: ।

॥ अथ योगसाराज्जीरकाद्यो धूप: ॥
जीरान्वितं पट्टवस्त्रं वर्तिं कृत्वाथ धूपयेत्‍ । आघ्राणाद्विलयं याति सर्वा छर्दिश्चिरोद्भवा ॥१॥ इति सामान्यविधि: ।

॥ अथ बीभत्सादिपञ्चवमिषु ॥
बीभत्सजामभीभत्सैर्हेतुभि: संहरेद्वमिम्‍ । दौर्त्दृदस्थां वमिं त्दृद्यै: काड्क्षितैर्वस्तुभिर्जयेत्‍ ॥१॥
लड्घनैर्वमनैर्वापि सात्म्यैर्वासात्म्यसम्भवाम्‍ । कृमित्दृद्रोगवच्चापि साधयेत्कृमिजां वमिम्‍ ॥२॥
यथादोषं च वितरेच्छस्तं विधिमनन्तरम्‍ । पवनघ्नी चिरोत्थासु प्रयोज्या छर्दिषु क्रिया ॥३॥

॥ अथ रसा: ॥
॥ अथ पारदादिचूर्णम्‍ ॥
रसरत्नदीपात्‍ । रसबलिघनसारकोलमज्जामरकुसुमाम्बुधरप्रियड्गुलाजा: । मलयजमगधात्वगेलपत्रं दलितमिदं परिभाव्य चन्दनाद्बि: ॥
मधुमरिचयुतं रजोऽस्य माषं जयति वर्मि प्रबलां विलिह्य मर्त्य: ॥१॥

॥ अथ योगरत्नावल्या: ॥
॥ जीरकादिरस: ॥
अजाजिधान्यपथ्याभि: सक्षौद्रै: सकटुत्रिकै:  । एतै: सार्धं सूतभस्म सद्यो वान्तिं विनाशयेत्‍ ॥१॥

॥ अथ योगसाराद्दमनामृतयोग: ॥
गन्धक: कमलाक्षश्च यष्टी मधु शिलाजतु । रुद्राक्षष्टड्कणश्चैव सारड्गस्य च शृड्गकम्‍ ॥१॥
चन्दनं च तवक्षीरी गोरोचनमिदं समम्‍ । बिल्वमूलकषायेण मर्दयेद्याममाम्रकम्‍ ॥२॥
मात्रां चैव प्रकुर्वीत वल्लस्यैव प्रमाणत: । नानाविधानुपानेन च्छर्दिं हन्ति त्रिदोषजाम्‍ ॥ वमनामृतयोगोऽयं कमलाकरभाषित: ॥३॥

॥ अथ द्वितीयो वान्तित्दृद्रस: ॥
अय: शड्खो बलिसूत: खल्वे तुल्यं विमर्दयेत्‍ । कन्याकनकचाड्गेरीरसैर्गोलं विधाय च ॥१॥
सप्तमृत्कर्पटैर्लिप्त्वा पुटितो वान्तित्दृद्रस: । द्विवल्ल: कृमिरोगेऽपि साजमोद: सवेल्लक: ॥२॥
वान्तिहारेण मुनिना प्रोक्तोऽयं मधुना युत: । पिप्पलक्षारपानीयं पाययेद्वान्तित्दृद्भिषक्‍ ॥३॥

॥ अथ छर्द्यन्तकरस: ॥
रसभस्म पलांशं स्यात्तत्पाद: स्वर्णभस्म च । ताम्रं भुजड्गवड्गे च मौक्तिकं तत्समांशकम६ ॥१॥
तेषां सममयश्चूर्णमभ्रकं तत्समं भवेत्‍ । तत्समं गन्धकं दत्वा बीजपूरार्द्रकाम्बुना ॥२॥
सर्वं खल्वे विनिक्षिप्य मर्दयेत्रिदिनावधि । तत्कल्कं भावयेत्सप्त दिनान्यामलकद्रवै: ॥३॥
पश्चात्तन्मूलमूषायां रुद्ध्वा भाण्डे विनिक्षिपेत्‍ । पांसुभि: परिपूर्याथ क्रमवृद्धेन वह्निना ॥४॥
पचेद्यामत्रयं चुल्ल्यां स्वाड्गशीतलमुद्धरेत्‍ । तत: सर्वं समाकृष्य चूर्णयेत्पट्ट्गालितम्‍ ॥५॥
अजाजी दीप्यकं व्योषं त्रिफला कृष्णजीरकम्‍ । कृमिशत्रु वरालं च प्रत्येकं निष्कमानकम्‍ ॥६॥
तत: सर्वं चूर्णयित्वा योजयेत्पूर्वभस्मना । इत्थं पञ्चरसेनेन प्रोक्तश्छर्द्यन्तको रस: ॥७॥
तत्तद्रोगहरैतर्दृद्यैर्दद्याद्वल्लप्रमाणत: । अम्लपित्तमसृकपित्तं छर्दि गुल्ममरोचकम्‍ ॥८॥
आमवातं च दु:साध्यं प्रसेकच्छर्दित्दृद्रुजम्‍ । सर्वलक्षणसमपूर्णं विनिहन्ति क्षयामयम्‍ ॥ स्वस्थचित्ते हितकर: सर्वेषाममृतोपम: ॥९॥
इति रसा: ॥

॥ अथ पथ्यापथ्यम्‍ ॥
कलाययवगोधूममुद्गषष्टिकशालय: । शशतित्तिरलावाद्या मृगजाड्गलसंज्ञिता: ॥१॥
रागखाण्डववेत्राग्रकोलद्राक्षाफलानि च । वमिरोगेषु पथ्यानि मुनिभि: कथितानि तु ॥२॥
लंबा बिम्बीकोशवत्यौ मधूकं चित्रामेलां सर्षपं देवदालीम्‍ । व्यायामं वा सात्म्यदुष्टान्नपानं छर्द्यां सद्यो वर्जयेदप्रमत्त: ॥३॥
इति पथ्यापथ्यविधि: ॥ इति छर्दिचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-20T18:47:41.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

भेगलणें

  • v i  Crack, split, open. 
  • भेगळी f  A crack. 
RANDOM WORD

Did you know?

हिंदू धर्मात स्त्रियांना उपनयनाचा धर्मसंमत अधिकार का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.