संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मारणम्‌ ॥

॥ अथ मारणम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना ।
मध्यमं मूलिकाभिश्च कनिष्ठं गन्धकादिभिः ॥१॥
शुद्धस्य सूतराजस्य भागो भागद्वयं बलेः ।
द्वयोः समं सारचूर्णं मर्दयेत्कन्यकाम्बुना ॥२॥
यामद्वयं तस्य गोलं संवेष्ट्यैरण्डजैर्दलैः ।
ततः सूत्रेण संबध्य स्थापयेत्ताम्रसम्पुटे ॥३॥
मुद्रयेद्वदनं तस्य मृदा संशोष्य तत्पुनः ।
त्रिदिनं धान्यराशिस्थं तत उद्धृत्य मर्दयेत्‌ ॥४॥
रजस्तद्वस्त्रगलितं नीरे तरति हंसवत्‌ ।
सोमामृताभिधमिदं लोहभस्म प्रकीर्तितम्‌ ॥५॥
अन्यच्च ।
द्वादशांशेन दरदं तीक्ष्णचूर्णस्य मेलयेत्‌ ।
कन्यानीरेण संमर्द्य यामयुग्मं तु तत्पुनः ॥६॥
शरावसम्पुटे कृत्वा पुटेद्गजपुटेन वै ।
सप्तधैवं कृतं लोहरजो वारितरं भवेत्‌ ॥७॥
अन्यच्च ।
लोहचूर्णं पलं खल्वे सोरकस्य पलं तथा ।
अश्वगन्धापलं चापि सर्वमेकत्र मर्दयेत्‌ ॥८॥
कुमार्यद्भिर्दिनं पश्चाद्गोलकं रुबुपत्रकैः ।
संवेष्ट्य च मृदा लिप्त्वा पुटेद्गजपुटे पचेत्‌ ॥९॥
स्वाङ्गशीतं समुद्भृत्य सिन्दूराभमयोरजः ।
मृतं वारितरं ग्राह्यं सर्वकार्यकरं परम्‌ ॥१०॥
अन्यच्च ।
दाडिमीपत्रजरसैर्लोहचूर्णं च भावितम्‌ ।
आतपे सप्त्तधा तेन पुनर्गजपुटद्वयम्‌ ॥११॥
इत्थं कृतं च तद्भस्म शुद्धं वारितरं भवेत्‌ ।
योजयेत्सर्वरोगेषु सत्यं गुरुवचो यथा ॥१२॥
अन्यच्च ।
गृहीत्वा तीक्ष्णजं चूर्णं तथैव च गवां दधि ।
एकत्र कारयेद्भाण्डे यावच्छोषत्वमाप्नुयात्‌ ॥१॥
उद्धृत्य गालयेदग्नौ त्रिफलायाः पुटत्रयम्‌ ।
देयं वारितरं सद्यो जायते नात्र संशयः ॥२॥
अन्यच्च ।
एकभागं लोहचूर्णं तत्समो नवसागरः ।
किञ्चित्तप्तोदकं ग्राह्यं सर्वं वस्त्रे निबध्य च ॥१॥
यामान्ते घर्षयेत्पाणौ सद्यो वारितरं भवेत्‌ ।
योजयेत्सर्वरोगेषु सर्वरोगापनुत्तये ॥२॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP