संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथोन्मादनिदानं चिकित्सा च ॥

॥ अथोन्मादनिदानं चिकित्सा च ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथोन्मादनिदानं चिकित्सा च ॥
मदयन्त्युद्धता दोषा यस्मादुन्मार्गमास्थिता: । मानसोऽयमतो व्याधिरुन्माद इति कीर्तित: ॥१॥
एकैकश: सर्वशश्च दोषैरुन्मार्गगामिभि: । मानसेन च दु:खेन स पञ्चविध उच्यते ॥२॥
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम्‍ । स चाप्रवृद्धतरूणो मदसंज्ञां बिभर्ति च ॥३॥
भयोद्वेगो तम: शोषो गात्राणामपकर्षणम्‍ । मृत्युत्साहोऽरुचिश्चान्ने स्वप्नेष्वम्बुषु मज्जनम्‍ ॥४॥
वायुनोन्मादनं चैव भ्रमक्लमगतस्य च । यस्य स्यादचिरेणैवमुन्मादं सोऽपि गच्छति ॥५॥
विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्‍ । उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमाश्च चेष्टा: ॥६॥
तैरल्पसत्वस्य मला: प्रदुष्टा बुद्धैर्निवासं हृदयं प्रदूष्य । स्त्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेत: ॥७॥

॥ अथ साधारणोन्मादलक्षणम्‍ ॥
धीविभ्रम: सत्वपरिप्लवश्च पर्याकुला दृष्टिरुधीरता च । अबद्धवाक्यं त्दृदयं च शून्यं सामान्यमुन्मादमदस्य लिड्गम्‍ ॥१॥

॥ अथ वातोन्मादलक्षणम्‍ ॥
रुक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिल: प्रवृद्ध: । चिन्तादिदुष्टं स्दृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम्‍ ॥१॥
अस्थानहासस्मितनृत्यगीतवाद्याड्गविक्षेपणरोदनानि । पारुष्यकार्श्यारुणवर्णतश्च जीर्णे बलं चानिलजस्य रुपम्‍ ॥२॥

॥ अथ पित्तोन्मादलक्षणम्‍ ॥
अजीर्णकट्वम्लविदाह्यशीतैर्भोजयिश्चितं पित्तमुदीर्णवेगम्‍ । उन्मादमत्युग्रमनात्मकस्य हृदि स्थितं पूर्ववदाशु कुर्यात्‍ ॥१॥
अमर्षसंरम्भविनग्नभावा: सन्तर्जनाभिद्रवणौष्ण्यरोषा: । प्रच्छायशीतान्नजलाभिलाषा: पीता च भा पित्तकृतस्य लिड्गम्‍ ॥२॥

॥ अथ कफोन्मादलक्षणम्‍ ॥
सम्मूरणैर्मन्दविचेष्ठितस्य सोष्मा कफो मर्मणि सम्प्रवृद्ध: । बुद्धिं स्मृतिं चाप्युपहन्ति चित्तं प्रमोहयन्सञ्जनयेद्विकारम्‍ ॥१॥
वाकचेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियता च निद्रा । छर्दिश्च लाला च बलं च भुक्ते नखादिशौक्ल्यं च कफातके स्यात्‍ ॥२॥

॥ अथ सान्निपातिकमाह ॥
य: सन्निपातप्रभवोऽतिघोर: सर्वै: समस्तैरपि हेतुभि: स्यात्‍ । सर्वाणि रुपाणि बिभर्ति तादृग्‍ विरुद्धभैषज्यविधिर्विवर्ज्य: ॥१॥

॥ अथ मनोदू:खजमाह ॥
चौरेर्नर्न्द्रपुरुषैररिभिस्तथानयिर्वित्रासितस्य धनबान्धवसंक्षयाद्वा । गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकार: ॥१॥

॥ अथ तस्य रुममाह ॥
चित्रं ब्रवीति च मनोऽनुगतं विसंज्ञो गायत्यथो हसति रोदिति चातिमूढ: ॥१॥

॥ अथ विषजमाह ॥
रक्तेक्षणो हतबलेन्द्रियभा: सुदीन: श्यावाननओ विषकृतेन भवेद्विसंज्ञ: ॥१॥

॥ अथासाध्यलक्षणमाह ॥
अवाड्गमुखश्चोन्मुखो वा क्षीणमांसबलो नर: । जागरुको ह्यसन्देहमुन्मादेन विनश्यति ॥१॥
इत्युन्मादनिदानम्‍ ॥

॥ अथोन्मादचिकित्सा ॥
आश्वासयेत्सुत्दृद्वाक्यैर्बूयादिष्टाविनाशनम्‍ । दर्शयेदद्भुतं कर्म ताडयेच्चा कशादिभि: ॥१॥
सुबद्धं विजने हेहे त्रासयेदहिभिर्हिया । बद्धं सर्पपतैलाक्तं न्यसेदुत्तानमातपे ॥२॥
कपिकच्छ्वाथ वा तप्तलोहतैलजलै: स्पृशेत्‍ । वक्राभिधाने कूपे वा सततं च निवेशयेत्‍ ॥३॥
सततं धूपयेच्चैनं गोमांससैश्च सपूतिभि: । कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान्‍ ॥४॥
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्‍ । जलाग्निद्रुतशैलेभ्यो विषमेभ्यश्च तं सदा ॥५॥
परस्परप्रतिद्वन्दैरेभिरेव शमं नयेत्‍ । जलाग्निद्रुमशैलेभ्यो किञ्चिदपस्मारे चिकित्सितम्‍ ॥६॥
उम्मादे तच्च कर्तव्यं सामान्याद्दोषदुष्ययो: । स्नेहादिनाक्रमेणादाबुन्मादिनमुपाचरेत्‍ ॥७॥
बस्तिभि: स्नेह्कल्कैश्च निरुहै:  स्वेदनाञ्जनै:  । वातिके स्नेहपानं प्राग्विरेक: पित्तसम्भवे ॥ कफजे वमनं कार्यं परो बस्त्यादिक: क्रम: ॥८॥
॥ अथ शार्ड्गधराब्दाह्यादिस्वरस: ॥
बाह्यीकूष्माण्डषड्ग्रन्थाशाड्खिस्वरसा: पृथक्‍ । मधुकुष्टयुता: पीता: सर्वोन्मादापहारिण: ॥१॥
॥ अथ ब्राह्यादिकल्को वीरसिंहावलोकत: ॥
ब्राम्हीरस: स्यत्सवच: सकुष्ट: सशड्खपुष्प: ससुवर्णचूर्ण: । उन्मादिनामुन्मदमानसानामपस्मृतेर्भूतहतात्मनां हि ॥ नस्येऽञ्जने पानविधौ च शस्तो ब्राम्हीरसोऽयं सवचादिचूर्ण: ॥१॥

॥ अथ त्र्यषूणादिवर्ति: ॥
त्र्यूषणं हिड्गुलवणं वचा कटुकरोहिणी । शिरीषनक्तमालानां बीजं श्वेताश्च सर्षपा: ॥१॥
गोमूत्रपिष्ठैरेतैस्तु वर्तिर्नेत्राञ्जने हिता । चातुर्थिकमपस्मारमुमादं च नियच्छति ॥२॥

॥ अथ शिरीषादि: ॥
शिरिषं लशुनं हिड्गु मधुकं वचा । कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्‍ ॥१॥
तद्वव्द्योषं हरिद्रे द्वे मञ्जिष्ठा गौरसर्षपा: । शिरीषबीजमुन्मादग्रापस्मारनाशनम्‍ ॥२॥ इति वृन्दात्‍ ॥

॥ अथ चिकित्सासारात्‍ सिद्धार्थकादियोग: ॥
सिद्धार्थकवचाहिड्गु करञ्जो देवदारु च । मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक्कटुत्रयम्‍ ॥१॥
समांशानि प्रियड्गुश्च शिरीषो रजनीद्वयम्‍ । बस्तमूत्रेण पिष्टोऽयमगद: पानमञ्जनम्‍ ॥२॥
नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा । अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापह: ॥३॥
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते । सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत्‍ ॥४॥

॥ अथ योगतरड्गिण्या: सितकुसुमबलादियोग: ॥
सितकुसुमबलाया: सार्धकर्षत्रयं य: शिखरिचरणकेन क्षीरपाकेन पक्वम्‍ । पिबति तदनु नित्यम्‍ प्रातरुत्थाय शीतं जयति झटिति घोरं व्याधिमुन्मादसंज्ञम्‍ ॥१॥
॥ अथ योगतरड्गिण्या दशमूलादियोग: ॥
दशमूलाम्बु सघृतं युक्तं मांसरसेन वा । ससिद्धार्थकचूर्णं वा केवलं वा नवं घृतम्‍ ॥१॥
उन्मादशान्तये पेयो रसो वा कालशाकज: । प्रयोज्य सार्षपं तैलं नस्याभ्यञ्जनयो: सदा ॥२॥

॥ अथ घृतानि ॥
अथ हिड्ग्वादिघृतम्‍ वृन्दात्‍ । हिड्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्‍ । चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम्‍ ॥१॥
अथ कल्याणघृतम्‍ ॥ योगतरड्गिण्या: । विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्‍ । स्थिरानन्ता हरिद्रे द्वे सारिवे द्वे प्रियड्गुका ॥१॥
नीलोत्पलैलामञ्जिष्ठादन्तीदाहडिमल्कलम्‍ । विडड्गं पृश्नीपर्णी च कुष्ठचन्दनपद्मकै: ॥२॥
तालीसपत्रं बृहतीं मालत्या: कुसुमं नवम्‍ । एतै: कर्षसमै: कल्कैर्विशत्यष्टाभिरेव च ॥३॥
चतुर्गुणं जलं दत्वा घृतप्रस्थं विपाचयेत्‍ । अपस्मारे ज्वरे शोषे कासे मन्दानले क्षये ॥४॥
वातरक्ते प्रतिश्याये तृतीयकचतुर्थके । वाताऽर्शोमूत्रकृच्छ्रेषु विसर्पोपहतेषु च ॥५॥
कण्डूपाण्डवामयोन्मादविषमेहगदेषु च । भूतोपहतचित्तानां गण्डदानामचेतसाम्‍ ॥६॥
शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुर्बलप्रदम्‍ । अलक्ष्मीपापरक्षोघ्नं सर्वग्रहनिवारणम्‍ ॥ कल्याणमिदं सर्पि: श्रेष्ठं पुंस्त्वप्रदं नृणाम्‍ ॥७॥
पञ्चमूली च काश्मर्यो रास्त्रैरण्डस्त्रिब्दला । मूर्वा शतावरी चेति क्वाथैर्द्विपलिकै: शुभै: ॥८॥
कल्याणकस्य चाड्गेण चैतसं नाम तद्‍घृतम्‍ । सर्वचेतोविकाराणां शमनं परमं मतम्‍ ॥९॥
कार्य: कषायो द्विगुण: क्वाथान्मस्तुकलागुणम्‍ । कल्याणकोक्तकल्केन पादांशेन घृतं पचेत्‍ ॥१०॥
इति योगतरड्गिण्या: चैतसघृतम्‍ ॥

॥ अथ रसरत्नप्रदीपादुन्मादगजकेसरी रस: ॥
सूतं गन्धं शिलातुल्यं स्वर्णबीजं विचूर्ण्य च । भावयेदुग्रगन्धाया: क्वाथे मुनिदिनै: पृथक्‍ ॥१॥
रास्त्राक्वाथेन सप्तैव भावयित्वा विचूर्णयेत्‍  । रस: सञ्जायते नूनमुन्मादगजकेसरी ॥२॥
अस्य माष: ससर्पिष्को लीढो हन्ति हठाद्गदम्‍ । उन्मादाख्यमपस्मारं भूतोन्मादमपि ज्वरम्‍ ॥३॥
इत्युन्मादगजकेसरी रस: ॥ प्रसादश्चेन्द्रियार्थानां बुद्ध्यात्ममनसामपि । धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्‍ ॥१॥

॥ अथ पथ्यापथ्यम्‍ ॥
गोधूममुद्रारुणशालयश्च धारोष्णदुग्धं शतधौतसर्पि: । घृतं नवीनं च पुरातनं च कूर्मामिषं धन्वरसा रसाला ॥१॥
पुराणकूष्माण्डफलं पटोलं ब्राम्हीदलं वास्तुकतण्डुलीयम्‍ । द्राक्षा कपित्थं पनसं च वैद्यैर्विधेयमुन्मादगदेषु पथ्यम्‍ ॥२॥
मद्यं विरुद्धाशनमुष्णभोजनं निद्राक्षुधातृट‍कृतवेगधारणम्‍ । तिक्तानि तीक्ष्णानि भिषक्‍ समादिशेदुन्मादरोगापहतेषु गर्हितम्‍ ॥३॥
इत्युन्मादचिकित्सा ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP