संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथानुक्तवातरोगसड्वहार्थमाह ॥

॥ अथानुक्तवातरोगसड्वहार्थमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथानुक्तवातरोगसड्वहार्थमाह ॥
स्थानानामनुरुपैश्च लिड्गै: शेषान्विनिर्दिशेत्‍ । सर्वेषु तेषु संसर्गं पित्ताद्यैरुपलक्षयेत्‍ ॥१॥
हिमन्तीव व गात्राणि रोमाञ्चद्‍धुरितानि । शिरोऽक्षिवेदनालस्यं शीतवातस्य लक्षणम्‍ ॥२॥
अड्गेषु तोदनं प्रायो दाह: स्पर्श न विन्दति । मण्डलानि च दृश्यन्ते स्पर्शवातस्य लक्षणम्‍ ॥३॥
पादयोश्च भवेद्दाह: त्वकस्फोट: श्वयथु: क्लम: । रक्तस्त्राव: स्पन्दनं च रक्तवातस्य लक्षणम्‍ ॥४॥
हनुशड्खशिरोग्रीवं यो भिनति तु चानिल: । कर्णयो: कुरुते शूलं कर्णशूल: स उच्यते ॥५॥

॥ अथ साध्यासाध्यमाह ॥
हनुस्तम्भार्दिताक्षेपपक्षाघातापतानका: । कालेन महता वाता यत्नातिध्यन्ति वा न वा ॥१॥
नवान्बलवतश्चैतान्साधयेन्निरुपद्रवान्‍ । विसर्पदाहरुक्‍सड्गमूर्च्छारुच्यग्रिमार्दवै: ॥ क्षीणमांसबलं वाता: घ्नन्ति पक्षवधादय: ॥२॥
शूनं सुप्तत्वचं भुग्रे कम्याघ्माननिपीडितम्‍ । नरं रुजार्तिमन्तं च वातव्याधिर्विनाशयेत्‍ ॥३॥
अव्याहतगतिर्यस्य स्थानस्थ: प्रकृतौ स्थित: । वायु: स्यात्सोऽधिकं जीवेद्वीतरोग: समा: शतम्‍ ॥४॥
इति वातव्याधिनिदानम्‍ ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP