संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ धारोष्णगुणाः ॥

॥ अथ धारोष्णगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


धारोष्णं शस्यते गव्यं धाराशीतं तु माहिषम्‌ ।
शृतोष्णमाविकं पथ्यं शृतशीतमजापयः ॥१॥
पित्तघ्नं माहिषं क्षीरं वातघ्नं चाविकं पयः ।
वातपित्तहरं गव्यं त्रिदोषघ्नमजापयः ॥२॥
धारोष्णं पवनप्रकोपशमनं दुग्धं गवां पुष्टिकृत्पाण्डुं कामलकां निहन्ति तरसा क्षीणोर्जकृच्छ्रीकरम्‌ ।
दाहं देहगतं कराङ्घ्रिनयनज्वालां च पित्तोन्नतिं दुष्टास्रं कृशतां कृशानुजनितां कृच्छ्रांश्च रोगाञ्जयेत्‌ ॥३॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP