TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ तच्चिकित्सा ॥

॥ अथ तच्चिकित्सा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ तच्चिकित्सा ॥
॥ अथ तच्चिकित्सा ॥
अथ तत्राष्टावुदराणि ॥ पृथग्‍ दोषै: समस्तैश्च प्लीहबद्धक्षतोदकै: ॥१॥
तत्र । पृथग्‍ दोषैर्वातिपित्तकफै: सन्निपातेनैकम्‍ । प्लीहोदरं बद्धोदरं क्षतोदरं जलोदरमिति संज्ञा भवन्ति । तेष्वसाध्यं परिस्त्रावि च । षडवशिष्टानि कृच्छ्रसाध्यानि । सर्वाण्येव च प्रत्याख्यायोपक्रमेत्‍ । तेष्वाद्यश्चतुर्वर्गो भेषजसाध्य: । उत्तर: शस्त्रसाध्य: । कालप्रकर्षात्सर्वाण्येव शस्त्रसाध्यानि भवन्ति । वर्जयितव्यानि इति सुश्रुतात्‍ ॥ अथ वातोदरचिकित्सामाह ॥ उपक्रमेद्भिषग्दोषबलकालविशेषवित्‍ । स्थिरादिसर्पिष: पानं स्नेहं स्वेदं विरेचनम्‍ ॥१॥
वेष्टनं वाससा ग्लानौ शाल्वलं चोपनाहनम्‍ । पेया यूषरसान्नं च योज्यं वातोदरे क्रमात्‍ ॥२॥
अथैरण्डतैलादियोग: ॥ एरण्डतैलं दशमूलमिश्रं गोमूत्रयुक्तं त्रिफलारजो वा । निहन्ति वातोदरशोथशूलं क्वाथ: समूत्रो दशमूलजश्च ॥१॥
अथ दशमूलादियोग: ॥ दशमूलकषायेण क्षीरवृत्ति: श्लाजतु । सद्यो वातोदरी क्षीरमौष्ट्र्माजं च केवलम्‍ ॥१॥
अथ कुष्ठादिचूर्णम्‍ ॥ कुष्ठं दन्ती यवक्षारं व्योषं त्रिलवणं वचाम्‍ । अजाजीं दीप्यकं हिड्गु स्वर्जिकां चव्यचित्रके ॥ शुण्ठीं चोष्णाम्भसा पीत्वा वातोदररुजापहाम्‍ ॥१॥
अथ वृन्दात्‍ सामुद्राद्यं चूर्णम्‍ ॥
सामुद्रसौवर्चलसैन्धवानां क्षारो यवानामजमोदभाग: । सपिप्पलीचित्रकशृड्गबेरं हिड्गुविड्गं च समानि कुर्यात्‍ ॥१॥
एतानि चूर्णानि घृतप्लुतानि भुञ्जीत पूर्वं कवलान्प्रशस्तम्‍ । वातोदरं गुल्ममजीर्णभुक्तं वातप्रकोपं ग्रहणीं च दुष्टाम्‍ ॥२॥
अर्शांसि दुष्टानि च पाण्डुरोगं भगन्दरं चापि निहन्ति सद्य: ॥२॥
अथ दशमूलाद्यं घृतम्‍ ॥ दशमूलीकषायेण रास्त्रानागरदारुभि: । पुनर्नदाभ्यां च घृतं सिद्धं वातोदरापहम्‍ ॥१॥
इति वातोदरम्‍ ॥ अथ पित्तोदरम्‍ ॥ पित्तोदरे च बलिनं पूर्वमेव विरेचयेत्‍ । पयसा त्रिवृता कल्केनोरुबूकशृतेन वा ॥१॥
सातलात्रायमाणाभ्यां शृतेनारग्वधे न च । घृतं पित्तोदरे पेयं मधुरौषधसाधितम्‍ ॥२॥
स्यान्त्रिवृन्त्रिफलासिद्धं सर्पिष्पानं विशुद्धये । पृश्निपर्णीबलाव्याघ्रीलाक्षानागरसाधितम्‍ ॥ क्षीरं पित्तोदरं हन्ति जठरं कतिभिर्दिनै: ॥३॥
इति पित्तोदरम्‍ ॥ अथ श्लेष्मोदरम्‍ ॥ श्लेष्मोदरिणं तु पिप्पल्यादिसिद्धेन सर्पिषा स्नेहं पीत्वा स्नुहिक्षीरानुलोम्य त्रिकटुकमूत्रतैलमुस्तादिक्वाथेनास्थापयेदनुवासयवकिट्टसर्षपामलकबीजैश्चोपनाहयेदुदरम्‍ । भोजयेच्चैनं त्रिकटुकप्रगाढेन कुलित्थयूषेण पयसा वा स्वेदयेच्चाभीक्ष्णम्‍ । व्योषयुक्तं कुलित्थाम्बुपयो वा भोजने हितम्‍ । गोमूत्रारिष्टपानैश्च चूर्णायस्कृतिभिस्तथा ॥ सक्षीरतैलपानैश्च शमयेत्तु कफोदरम्‍ ॥१॥
इति श्लेष्मोदरम्‍ ॥ अथ दूष्योदरम्‍ ॥ त्रिलिड्गमुदरं च ॥ सन्निपातोदरे कार्यं एष एव क्रियाविधि: । हरीतक्यभयाकल्कभावितं मूत्रमम्बुना ॥१॥
पीतं सर्वोदरप्लीहमेहार्श:कृमिगुल्मनुत्‍ । सप्तलाशड्खिनीसिद्धं घृतं चात्रविशोधनम्‍ ॥२॥
दन्तीद्रवन्तीफलजं तैलं दूष्योदरी पिबेत्‍ । नागरत्रिफलप्रस्थं घृतं तैलं तथाढकम्‍ ॥३॥
मस्तुना साधयित्वा तु पिबेत्सर्वोदरापहम्‍ । कफमारुतसंभूतं गुल्मं चैव प्रशाम्यति ॥३॥
इति दूष्योदरम्‍ । त्रिलिड्गमुदरं च ॥ अथ प्लीहोदरयकृदुदरयोश्चिकित्सा ॥ स्नेहस्वेदविकारादिविधेयं प्लीहरोगिणाम्‍ । वामबाहौ च मोक्तव्या कूर्पराभ्यन्तरे शिरा ॥१॥
अथ शरपुड्खामूलकल्क: ॥ शरपुड्खामूलकल्क: पीतस्तक्रेण नाशयत्यचिरात्‍ । बहुतरकालसमुत्थं प्लीहानं रुढमवगाढम्‍ ॥१॥
अथ लवणादितक्रम्‍ ॥ लवणं रजनी राजी प्रत्येकं पलपञ्चकम्‍ । चूर्णितं निक्षिपेद्भाण्डे शतक्रप्लान्विते ॥१॥
त्रिदिनं मुद्रितं रक्षेत्पश्चात्पञ्चपलं तदा । प्लीहानं नाशयेत्पीत्वा त्रि:सप्ताहं न संशय: ॥२॥
अथ शड्खनाभिचूर्णम्‍ ॥ सुपक्कजम्बीररसेन शड्खनाभीरज: पीतमवश्यमेव । कर्षप्रमाणं शमयेदवश्यं प्लीहामयं कूर्मसमानमाशु ॥१॥
अथ यवान्यादिचूर्णम्‍ ॥ यवानिकाचित्रकयावशूकषड्‍ग्रन्थदन्तीमगधोद्भवानाम्‍ । प्लीहानमेतद्विनिहन्ति चूर्णमुष्णाम्बुना मस्तुसुरासवैर्वा ॥१॥
अथ कुष्ठादिचूर्णम्‍ ॥ कुष्ठं वचा शृड्गबेरं चित्रकं कौटजं फलम्‍ । पाठा चैवाजमोदा च पिप्पल्य: समचूर्णीता: ॥१॥
ततो बिडालपदकं पिबेदुष्णेन वारिणा । प्लीहोदरमुदावर्तं सर्वमेतेन शाम्यति ॥२॥
अथ लघुहिड्ग्वादिचूर्णम्‍ ॥ हिड्गुत्रिकटुकं कुष्ठं यवक्षारोऽथ सैन्धवम्‍ । मातुलुड्गरसेनैव प्लीहशूलहरं परम्‍ ॥१॥
वायु: प्लीहानमुद्धूय कुपितो यस्य तिष्ठति । शूलै: परितुदनपार्श्वे प्लीहा तस्य प्रवर्धते ॥२॥
अथ सिन्ध्वादिचूर्णम्‍ । सिन्धुमगधाग्निचूर्णं शिग्रुशिफाजाजिकासमं पीतम्‍ । प्रबलमपि योगराज: प्लीहानं नाशयत्याशु ॥१॥
अथ विड्ड्गादिचूर्णम्‍ ॥ विड्ड्गानि यवानी च चित्रकं चेति तत्समम्‍ । द्विगुणं देवदारु च नागरं सपुनर्नवम्‍ ॥१॥
त्रिवृद्‍भागाश्च चत्वारस्तत्सर्वं कल्कपेषितम्‍ । क्षीरेणोष्णेन पातव्यं श्रेष्ठं प्लीहविनाशनम्‍ ॥२॥
अथ चैतानि चूर्णानि गवां मूत्रेण पाययेत्‍ । उदरीभूतमप्येवं प्लीहानं संग्रणाशयेत्‍ ॥३॥
अथ वज्रक्षार: ॥ सौवर्चलं यवक्षारं सामुद्रं काचसैन्धवम्‍ । टड्कणं स्वर्जिकाक्षारं तुल्यमेकत्र चूर्णयेत्‍ ॥१॥
अर्कदुग्धै: स्नुहीदुग्धैर्भावयेदातपे त्र्यहम्‍ । ऊर्ध्वाधस्थै: क्रमात्तस्य तत्तुल्यैरर्कपल्लवै: ॥२॥
भाण्डे संस्थाप्य मृल्लिप्ते रुद्ध्वा गजपुटे पचेत्‍ । स्वाड्गशीतं तु संचूर्ण्य चूर्णमेषां तु मेलयेत्‍ ॥३॥
त्र्यूषणं च विड्ड्गं च राजिकां त्रिफलामपि । चव्यं च हिड्गुसंभृष्टं तक्रेणाद्याद्यथाबलम्‍ ॥४॥
वज्रक्षारामिधं चूर्णमुदराणि विनाशयेत्‍ । शोधं गुल्मं तथाष्ठीलां मन्दाग्निमरुचि तथा ॥ प्लीहानं यकृद्दाल्याख्यमुदरं च विशेषत: ॥५॥
अथ वृन्दाच्छुक्तिकाक्षारादियोग: । पातव्यो युक्तित: क्षार: क्षीरेणोदधिशुक्तिज: । पयसा वा प्रयोक्तव्या: पिप्पल्य: प्लीहशान्तये ॥१॥
अथ क्षारादियोग: ॥ क्षारं वा बिडकृष्णाभ्यां पूतीकस्याम्बु निशृतम्‍ । यत्कृप्लीहप्रशान्त्यर्थं पिबेत्प्रातर्यथाबलम्‍ ॥१॥
अथ सौभाञ्जनादियोग: ॥ सौभाञ्जनकनिर्यूहं सैन्धवाग्निकणान्वितम्‍ । पलाशक्षारयुक्तं वा यवक्षारं प्रयोजयेत्‍ ॥१॥
अथ लशुनादियोग: ॥ लशुनं पिप्पलीमूलमभयां चैव भक्षयेत्‍ । पिबेद्‍ गोमूत्रगण्डूषं प्लीहरोगविमुक्तये ॥१॥
अथ रोहीतकादिकल्कम्‍ ॥ रोहीतकाभयाकल्कं भावितं मूत्रमम्बुना । पीतं सर्वोदरप्लीहमेहार्श:कृमिगुल्मनुत्‍ ॥१॥
अथ द्रवन्तीनागवटी ॥ तिलैरण्डद्रवन्तीनां क्षारो भल्लातकं कणा । एषां भागं समं कृत्वा तत्तुल्यं तु गुडं मतम्‍ ॥१॥
खादेदग्निबलं मत्वा पावकस्य विवृद्धये । जयेत्प्लीहानमत्युग्रं यकृद्‍गुल्मं तथैव च ॥२॥
अथ शिग्रुक्वाथ: ॥ शोफं प्लीहोदरं हन्ति पिप्पलीमरिचान्वित: । आम्लवेतससंयुक्त: शिग्रुक्वाथ: ससैन्धव: ॥१॥
अथ क्षारभावितपिप्पली ॥ पलाशक्षारतोयेन पिप्पली परिभाविता । गुल्मप्लीहार्तिशमनी वह्निदीप्तिकरी मता ॥१॥
अथाग्निमुखं लवणम्‍ ॥ चित्रकं त्रिवृता दन्तीत्रिफलारुचकै: समै: । यावन्त्येतानि चूर्णानि तावन्मात्रं तु सैन्धवम्‍ ॥१॥
भावयित्वा स्नुहीक्षीरै: स्नुक्काण्डे प्रक्षिपेत्तत: । मृत्पड्केनानुलिप्याथ प्रक्षिपेज्जातवेदसि ॥२॥
सुदग्धं च ततो ज्ञात्वा शनैर्वैद्य: समुद्धरेत्‍ । तक्रेण पीतं तच्चूर्णं यकृत्प्लीहोदरापहम्‍ ॥ एतदग्निमुखं नाम्ना लवणं वह्निवर्धनम्‍ ॥३॥
अथ चित्रकाद्यं घृतम्‍ ॥ चित्रकस्य तुलाक्वाथे घृतप्रस्थं विपाचयेत्‍ । आरनालं तु द्विगुणं दधिमण्डं चतुर्गुणम्‍ ॥१॥
पञ्चकोलकतालीसं क्षारौ च पटुपञ्चकम्‍ । यवान्यौ द्वे च जरणे मरीचं चाक्षसंमितम्‍ ॥२॥
एतैर्युक्त्या घृतं सिद्धं मात्रया च पिबेत्प्रगे प्लीहशोफोदरार्शोघ्नं विशेषादग्निदीपनम्‍ ॥३॥
अथ महारोहीतकं घृतम्‍ ॥ रोहीतकात्पलशतं संक्षुद्य बदराढकम्‍ । साधयित्वा जलद्रोणे चतुर्भागावशेषिते ॥१॥
घृतप्रस्थं समावाप्य च्छागक्षीरं चतुर्गुणम्‍ । तस्मिन्द्रव्याणि सर्वाणि प्रदद्यात्कर्षिकाणि च ॥२॥
व्योषं फलत्रिकं हिड्गु यवानीं तुम्बरुं बिडम्‍ । विडड्गं चित्रकं चैव हपुषा चविकं वचा ॥३॥
अजाजीकृष्णलवणं दाडिमं देवदारु च । पुनर्नवा विशाला च यवक्षारं सपौष्करम्‍ ॥४॥
एतैर्घृतं विपक्वं तु विदध्यादृढभाजने । पाययेच्च पलं मात्रां रसयूषयोऽम्बुभि: ॥५॥
यकृत्प्लीहोदरं शूलमग्निमाद्यं च नाशयेत्‍ । कुक्षिशूलं कटिशूलमरोचकम्‍ ॥६॥
विबन्धशूलं शमयेत्पाण्डुरोगं सकाममलम्‍ । छर्द्यतीसारशमनं तन्द्राज्वरनिवारणम्‍ ॥ महारोहीतकं नाम्ना प्लीहघ्नं तु विशेषत: ॥७॥
इति महारोहीतकं घृतम्‍ ॥ इति प्लीहचिकित्सा ॥ अथ यकृदुरचिकित्सा ॥ प्लीहोद्दिष्टा: क्रिया: सर्वा यकृत: संप्रकल्पयेत्‍ । कार्यं च दक्षिणे बाहौ तत्र शोणितमोक्षणम्‍ ॥१॥
पिप्पलीकल्कसंयुक्तं घृतं क्षीरं चतुर्गुणम्‍ । पक्त्वा पिबेद्द्यथावह्नि यकृद्दाल्युदरापहम्‍ ॥२॥
इति यकृदुरचिकित्सा ॥ अथ बद्धगुदप्रतीकार: ॥ स्विन्ने बद्धोदरे योज्यो बस्तिस्तीक्ष्णैस्तु भेषजै: । सतैललवणैश्चापि निरुहश्चानुवासनम्‍ ॥१॥
उदावर्तहरं सर्वं प्रकर्तव्य़ं चिकित्सितम्‍ । वर्तयो विविधाश्चात्र पायौ शस्ता: प्रकीर्तिता: ॥२॥
तीक्ष्णैर्विरेचनं चात्र शस्यते तु विशेषत: । वातहन्ता विधि: सर्वो विधातव्यो विजानता ॥३॥
इति बद्धगुदोदरम्‍ ॥ अथ क्षतोदरमुदकोदरं च ॥ छिद्रान्त्रबद्धसंज्ञेषु जठरेषु प्रयोगवित्‍ । लब्धानुज्ञो भिषक्‍ कुर्यात्पाटनं व्यधनक्रियाम्‍ ॥१॥
तथा जातोदकं सर्वमुदरं व्यधयेद्भिषक्‍ । ज्ञातींश्च सुहृदो दारान्ब्राह्मणान्नृपतिं गुरुम्‍ ॥२॥
अनुज्ञाप्य भिषग्वर्य्यो विदध्यात्संशयं ध्रुवम्‍ । सुवेष्टितं त्वधो नाभेर्वामतश्चतुरड्गुलात्‍ ॥३॥
अड्गुल्युदरमात्रं तु व्रीहिवक्रेण भेदयेत्‍ । नाडीमुभयतोद्वारां संयोज्यापहरेज्जलम्‍ ॥४॥
न चैकस्मिन्दिने सर्वं दोषं त्वपहरेत्तथा । कासश्वासज्वरतृष्णा गात्रभड्गश्च वेपथु: ॥५॥
अतिसारश्च सुतरां पूर्यते जठरे तत: । तृतीयपञ्चमाद्येषु दिवसेष्वल्पश: पुन: ॥६॥
स्त्रावयेदुदकं तैलवणाभ्यां दहेद्‍व्रणम्‍ । बध्रीयाद्विषतो दोषे रक्तं प्राक्‍ प्रतिपूर्य च ॥७॥
संवेष्टयेद्गाढतरं कौशयादिकचर्मणा । जलोदरेऽम्बु विश्राव्य़ं जातं जातं विरेचनै: ॥८॥
विरिक्तजठराध्मानं स्नेहाद्यैर्बस्तिभिर्जयेत्‍ । निशृतां लड्घितां पेयामस्नेहलवणां पिबेत्‍ ॥९॥
अत: परं तु षण्मासात्क्षीरवर्ती भवेन्नर: । त्रीन्‍ मासान्पयसा पेयं पिबेत्‍ त्रींश्चापि योजयेत्‍ ॥१०॥
सकोरदूषश्यामाकपयसा लवणं लघु । नर: संवत्सरेणैव जयेदाशु जलोदरम्‍ ॥११॥
इति क्षतोदरोदकोदरप्रतीकार: ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-03T20:06:36.1800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

stereosphere

  • पु. त्रिमितीय गोलक 
RANDOM WORD

Did you know?

Why Cows are considered secred in Hinduism?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.