TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मसूरिकानिदानमाह ॥

॥ अथ मसूरिकानिदानमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.

॥ अथ मसूरिकानिदानमाह ॥
॥ अथ मसूरिकानिदानमाह ॥
तत्रादौ तत्संप्राप्तिमाह ॥ कट्‍वम्ललवणक्षारविरुद्धाध्यशनाशनै: । दुष्टनिष्पावशाकाद्यै: प्रदुष्टै: पवनोदकै: ॥१॥
क्रुद्धग्रहेक्षणाद्वापि देहे दोषा: समुद्धता: । जनयन्ति शरीरेऽस्मिन्दुष्टरक्तेन संगता: ॥ मसूराकृतिसंस्थाना: पिटिका: स्युर्मसूरिका: ॥२॥
अथ तासां पूर्वरुपमाह ॥ तासां पूर्वं ज्वर: कण्डूर्गात्रभड्गोऽरुचिभ्रम: । त्वचि शोथ: सवैवर्ण्यो नेत्ररोगस्तथैव च ॥१॥
अथ वातजमाह ॥ स्फोटा: कृष्णारुणा रुक्षास्तीव्रवेदनयान्विता: । कटिनाश्चिरपाकाश्च भवन्त्यनिलसंभवा: ॥१॥
अथ पित्तजामाह ॥ संध्यस्थिपर्वणां भेद: कासकम्पारतिभ्रमा: । शोथस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता: ॥१॥
रक्ता: पीता: सिता: स्फोटा: सदाहास्तीव्रवेदना: । मृदवोऽचिरपाकाश्च पित्तकोपसमुद्भवा: ॥२॥
विड्भेदश्चाड्गमर्दश्च दाहस्तृष्णारुचिस्तथा । मुखपाकोऽक्षिपाकश्च ज्वरस्तीव्र: सुदारुण: । रक्तजायां भवन्त्येते विकारा: पित्तलक्षणा: ॥३॥
कफप्रसेक: स्तैमित्यं शिरोरुग्गात्रगौरवम्‍ । हृल्लासश्चारुचिर्निद्रा तन्द्रालस्यसमन्विता ॥४॥
अथ कफजमाह ॥ श्वेता: स्निग्धा: भृशं स्थूला: कण्डूरा मन्दवेदना: । मसूरिका: कफोत्थाश्च चिरपाका: प्रकीर्तिता: ॥१॥
अथ सन्निपातजामाह ॥ नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजा: । प्रभूताश्चिरपाकाश्च पूतिस्त्रावास्त्रिदोषजा: ॥१॥
कण्ठे रोधोऽरुचिस्तन्द्राप्रलापारुचिसंयुता: । दुश्चिकित्स्या: समुद्दिष्टा: पिटिकाश्चर्मसंज्ञिता: ॥२॥
रोमकूपोन्नतिसमा रागिण्य: कफपित्तजा: । कासारोचकसंयुक्ता रोमान्त्या ज्वरपूर्विका: ॥३॥
अथ सप्तधातुगता: ॥ तत्र रसजा: ॥ तोयबुद्‍बुदसंकाशास्त्वग्गतास्तु मसूरिका: । स्वल्पदोषा: प्रजायन्ते भिन्नास्तोयं स्त्रवन्ति च ॥१॥
अथ रक्तजामाह ॥ रक्तस्था लोहिताकारा: शीघ्रपाकास्तनुत्वच: । साध्या नात्यर्थदुष्टाश्च भिन्ना रक्तं स्त्रवन्ति च ॥१॥
अथ मांसस्थामाह ॥ मांसस्था: कठिना: स्निग्धाशचिरपाका घनत्वच: गात्रशूलारतिकण्डूतृष्णाज्वरसमन्विता: ॥१॥
मेदोगतामाह ॥ मेदोजा मण्डलाकारा मृदव: किञ्चिदुन्नता: । घोरज्वरपरीताश्च स्थूला: स्निग्धा: सवेदना: ॥ संमोहारतिसन्तापा: कश्चिदाभ्यो विनिस्तरेत्‍ ॥१॥
अस्थिमज्जागतामाह ॥ क्षुद्रा गात्रसमा रुक्षाश्चिपिटा: किञ्चिदुन्नता: । मज्जोत्था भृशसंमोहखेदनारतिसंयुता: ॥१॥
छिन्दन्ति मर्मधामानि प्राणानाशु हरन्ति च । भ्रमरेणेव विद्वानि कुर्वन्त्यस्थीनि सर्वत: ॥२॥
अथ शुक्रगतामाह । पक्वाभ्य: पिटिका: स्निग्धा: श्लक्ष्णाश्चात्यर्थवेदना: । स्तैमित्यारतिसंमोहदाहोन्मादसमन्विता: ॥१॥
शुक्रजायां मसूर्यां तु लक्षणानि भवन्ति हि । निर्दिष्टं केवलं चिह्नं दृश्यते न तु जीवितम्‍ ॥२॥
इति सप्तधातुगता: ॥ दोषामिश्राश्च सप्तैता द्रष्टव्या दोषलक्षणै: । त्वग्गता रक्तजाश्चैव पित्तजा: श्लेष्मजास्तथा ॥१॥
श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिका: । एता विनापि क्रियया प्रशाम्यन्ति शरीरिणाम्‍ ॥२॥
वातजा वातपित्तोत्था: श्लेष्मवातकृताश्च या: । कृच्छ्रसाध्या मतास्तस्माद्यत्नादेता उपाचरेत्‍ ॥३॥
अतोऽन्यास्तु विनिर्दिष्टा यास्तु सम्यक्‍ क्रियां विना । न सिध्यन्ति यतस्तस्मात्तास्तु यत्नादुपाचरेत्‍ ॥४॥
असाध्या: सन्निपातोत्थास्तासां वक्ष्यामि लक्षणम्‍ । प्रवालसदृशा: काश्चित्काश्चिज्जम्बूफलोपमा: ॥५॥
लोहजालनिभा: काश्चिदतसीफलसंन्निभा: । आसां बहुविधा वर्णा जायन्ते दोषभेदत: ॥६॥
कासो हिक्का प्रमेहाश्च ज्वरस्तीव्र: सुदारुण: । प्रलापश्चारतिर्मूर्च्छा तृष्णा दाहोऽतिघूर्णता ॥७॥
मुखेन प्रस्त्रवेद्रक्तं तथा घ्राणेन चक्षुषा । कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्पर्थदारुणम्‍ ॥८॥
मसूरिकाभिभूतस्य यस्तैतानि भिषग्वर: । लक्षणानीह दृश्यन्ते न दद्यात्तत्र भेषजम्‍ ॥९॥
मसूरिकाभिभूतो यो भृशं घ्राणेन निश्वसेत्‍ । स भृशं त्यजति प्राणांस्तृष्णार्तो वायुदूषित: ॥१०॥
मसूरिकान्ते शोथ: स्यात्कूर्परे मणिबन्धके । तथांसे फलके वापि दुश्चिकित्स्य: सुदारूण: ॥११॥
इति मसूरिकानिदानम्‍ ॥

====
॥ अथ मसूरिकाचिकित्सामाह ॥
मसूरिकायां कुष्ठोक्ता लेपनादिक्रिया हिता । पित्तश्लेष्मविसर्पोक्ता क्रिया वात्र प्रशस्यते ॥१॥
सर्वासां वमनं पूर्वं पटोलारिष्टवासकै: । कषायश्च वचावत्सयष्टयाह्वफलकल्कितै: ॥२॥
सक्षौद्रं पायमेद्‍ ब्राह्मीरसं वा हिलमोचकम्‍ । वान्तस्य रेचनं देयं शमनं त्वबले नरे ॥ उभाभ्यां हृददोषस्य विशुष्यन्ति मसूरिका: ॥३॥
अथ वेणुत्वगादिधूप: ॥ वेणुत्वकसुरसालाक्षाकार्पासास्थिमसूरिका: । यवपिष्टं विषं सर्पिर्वचा ब्राह्मी सुवर्चला ॥१॥
धूपनार्थे यथालाभं धूपमेनं प्रयोजयेत्‍ । आदावयं प्रयोक्तव्यो नश्यन्त्यस्मान्मसूरिका: ॥ न गृह्णन्ति विषं केचिद्यथालाभं श्रुतेरिह ॥२॥
अथ श्वेतचन्दनादि: ॥ श्वेतचन्दनकल्काढ्यं हिलमोचाभवं द्रवम्‍ । पिबेन्मसूरिकारम्भे नैम्बं वा केवलं रसम्‍ ॥१॥
गुडूची मधुकं द्राक्षा मोरटं दाडिमै: सह । पाककाले प्रदातव्यं भेषजं गुडसंयुतम्‍ ॥ तेन कुप्यति नो वायु: पाकं यान्ति मसूरिका: ॥२॥
अथ बृहत्पटोलदिक्वाथ: ॥ पटोलं सारिवा मुस्तं पाठा कटुकरोहिणी । खदिर: पिचुमन्दश्च बला धात्री विकड्कत: ॥ एषां कषायपानं तु हन्ति वातमसूरिकाम्‍ ॥१॥
अथ दशमूलादि: ॥ द्वे पञ्चमूल्यौ रास्त्र्ना च धात्र्युशीरं दुरालभा । सामृतं धान्यकं मुस्तं जयेद्वातमसूरिकाम्‍ ॥१॥
अथ न्यग्रोधादिलेप: ॥ न्यग्रोधप्लक्षमञ्जिष्ठाशिरीदोषोदुम्बरत्वचाम्‍ । ससर्पिष्कं मसूर्यां तु वातजायां प्रलेपनम्‍ ॥१॥
शोधनं पिताजायां न कार्यं वैद्येन जानता । तत्रादौ तर्पणं कार्यं लाजाचूर्णै: सशर्करै: ॥२॥
आदावेव मसूर्यां तु पित्तजायां प्रयोजयेत्‍ । निम्बादिक्वथितं तेन प्रशाम्यति मसूरिका ॥३॥
तद्यथा ॥ निम्ब: पर्पटकं पाठा पटोलं चन्दनद्वयम्‍ । वासा दुरालभा धात्री सेव्यं कटुकरोहिणी ॥४॥
एतेषां क्वथितं शीतं सितया मधुरीकृतम्‍ । मसूरिकां पित्तकृतां हन्ति रक्तोत्तरामपि ॥५॥
अथ द्राक्षादि: ॥ द्राक्षाकाश्मर्यखर्जूरपटोलारिष्टवासकै: । लाजामलकदुस्पर्शै: क्वथितं शर्करान्वितम्‍ ॥ मसूरिकां पित्तकृतां रक्तनां च विनाशयेत्‍ ॥१॥
अथ पञ्चमूलादिक्वाथ: ॥ बृहत्‍ : पञ्चमूलस्य वृषत्रयुतस्य च । कषाय: शमयेत्पीत: कफोत्थां तु मसूरिकाम्‍ ॥१॥
वृषपत्ररसं दद्यात्‍ पानार्थं मधुसंयुतम्‍ । कफजायां मसूर्यां तु कठिनायां विशेषत: ॥२॥
खदिरारिष्टपत्रैश्च शिरीषोदुम्बरत्वचाम्‍ । क्रुर्याल्लेपं कफोत्थायां मसूर्यां भिषगुत्तम: ॥३॥
अथ दुरालभादि: ॥ दुरालभा पर्पटकं पटोलं कटुरोहिणी । पिबेन्मसूर्यामेतेषां क्वाथं पित्तकफात्मनि ॥१॥
अथ गुडूच्यादि: ॥ गुडूचीपर्यटाननन्ताकटुकाक्कथितं पिबेत्‍ । वातपित्तमसूर्यां तु घोरोपद्रवभाजि च ॥१॥
अथ नागरादि: ॥ नागरमुस्तागुडूचीधान्यकभार्गीवृषै: कृत: क्वाथ: । वातश्लेष्ममसूरीं दूरीकुरुतेऽनुपानत: सत्यम्‍ ॥१॥
अथ निम्बादिक्वाथ: ॥ निम्ब: पर्पटकं पाठा पटोलं कटुरोहिणी । वासा दुरालभा धात्री ससेव्यं चन्दनद्वयम्‍ ॥१॥
एष निम्बादिक: क्वाथ: पीत: शर्करयान्वित: । मसूरीं सर्वजां हन्ति ज्वरवीसर्पसंयुताम्‍ ॥२॥
॥ अथ काञ्चनादिक्वाथ: ॥ काञ्चनारत्वचाक्काथस्ताप्यचूर्णावचूर्णित: । निर्गत्यान्त: प्रविष्टां तु मसूरीं बाह्यतो नयेत्‍ ॥१॥
अथ पटोलादि: ॥ पटोलकुण्डलीमुस्तावृषधन्वयवासकै: । भूनिम्बनिम्बकटुकापर्पटैश्च शृतं जलम्‍ ॥१॥
मसूरीं शमयेदामां पक्वां चैव विशोधवेत्‍ । नात: परतरं किंचिच्छीतलाज्वरशान्तये ॥२॥
दाहे ज्वरे विसर्पे च व्रणे पित्ताधिकेऽपि च । मसूर्यो रक्तजा नाशं यान्ति शोणितमोक्षणै: ॥३॥
धात्रीफलं समधुकं क्वथितं मधुसंयुतम्‍ । मुखे कण्ठे व्रणे जाते गण्डूषार्थं प्रशस्यते ॥४॥
अक्ष्णो: सेकं प्रशंसन्ति गवेधुमधुकाम्बुना । मधुकं त्रिफला मूर्वा दार्वीत्वड्नीलमुत्पलम्‍ ॥५॥
उशीरलोध्रमाञ्जिष्ठाप्रलेपाश्चोतने हिता: नश्यन्त्येन दृग्जाता मसूर्यो न भवन्ति च ॥६॥
अथाञ्जनम्‍ ॥ शम्बूकमांसस्वरसेन नेत्रे समञ्जयेत्तेन मसूरिकाभ्य: । न जायते तत्र भयं भवन्ति नैता: प्रजानास्तु शमं प्रयान्ति ॥१॥
इत्यञ्जनम्‍ ॥ प्रलेपं चक्षुषोर्दद्याद्‍ बहुवारस्य वल्कलै: । पञ्चवल्कलचूर्णेन क्लेदिनीमवधूलयेत्‍ ॥१॥
भस्मना केचिदिच्छन्ति केचिद्गोमयेणुना । निम्बातिमुक्तिका स्फोता बिम्बी वेतसवल्कम‍ ॥२॥
शृतशीतं प्रयोक्तव्यं मसूरीव्रणधावने । रालहिड्गुरसोनैश्च धूपयेत्ता मसूरिका: । कृमयो न पतन्त्यत्र जाता: शाम्यन्ति ते लघु ॥३॥
अथ मसूरिकाभेदस्य शीतलाया अधिकार: । तत्र शीतलाया रुपमाह ॥ भावप्रकाशात्‍ । देव्या शीतलया क्रान्ता मसूर्येव हि शीतला । ज्वर एव यथा भूताधिष्ठितो विषमज्वर: ॥१॥
सा च सप्तविधा ख्याता तासां भेदान्प्रचक्ष्महे । ज्वरपूर्वा बृहत्स्फोटै: शीतळा बृहती क्षवेत्‍ ॥२॥
सप्ताहान्नि:सरत्येषा सप्ताहात्‍ पूर्णतां व्रजेत्‍ । ततस्तृतीये सप्ताहे शुष्यति स्स्वलति त्वचम्‍ ॥३॥
तासां मध्ये गदा काञ्चित्पाकं गत्वा स्त्रवन्ति च । तत्रावधूलनं कुर्याद्वनगोमयभस्मना ॥४॥
निम्बसत्पत्रशाखाभिर्मक्षिकामपसारयेत्‍ । जलं च शीतलं दद्याज्ज्वरेऽपि न तु तत्पिबेत्‍ ॥५॥
स्वापयेत्तं स्थले पूते रम्ये रहसि शीतले । नाशुचि: संस्पृशेत्तं तु न च तस्यान्तिकं व्रजेत्‍ ॥६॥
बहवो भिषजो नात्र भेषजं योजयन्ति हि । केचित्प्रयोजयन्त्यवे मतं तेषामथो ब्रुवे ॥७॥
ये शीतलेन सलिलेन विशिष्य सम्यक्‍ चिञ्चोत्थबीजसहितां रजनीं पिबन्ति । तेषां भवन्ति न कदाचिदपीह देहे पीडाकरो जगति शीतलिकाविकार: ॥८॥
मोचारसेन सहितं सितचन्दनं ये वासारसेन मधुकं मधुकेन वाथ । आदौ पिबन्ति सुमनास्वरसेन मिश्रं ते नाप्नुवन्ति भुवि शीतलिकाविकारम्‍ ॥९॥
शीतलासु क्रिया कार्या शीतला रक्षया सह । बध्नीयान्निम्बपत्राणि परितो भवनान्तरे ॥१०॥
कदाचिदपि नो कार्यंमुच्छिष्टस्य प्रवेशनम्‍ । स्फोटेष्वधिकदाहेषु रक्षा रेणूत्करो हित: ॥११॥
तेन ते शोषमायान्ति प्रकोपं न भजन्ति च । चन्दनं वासको मुस्तं गुडूची द्राक्षया सह ॥ एषां शीतकषायस्तु शीतलाज्वरनाशन: ॥१२॥
जपहोमोपहारैश्च दानस्वस्त्यनार्चनै: । विप्रगोशम्भुगौरीणां पूजनैस्तां शमं नयेत्‍ ॥१३॥
स्तोत्रं च शीतलादेव्या: पठेच्छीतलिनोऽन्तिके । ब्राह्मण: श्रद्धया युक्तस्तेन शाम्यन्ति शीतला: ॥१४॥
अथ शीतलाया भेदानाह ॥ कफमारुतसंभूत: कोद्रवो नामतो गद: । अपाक: कोद्रवाकार: सूचीनिस्तोदकारक: ॥१॥
जलशूक इवाड्गेषु विध्यतीव विशेषत: । सप्ताहाद्‍द्वादशाहाद्वा शान्तिं याति विनौषधै: ॥२॥
यदि वा भेषजं दद्याब्ददिराष्ठकनिर्मितम्‍ । कषायं हि तदा तद्यात्को दद्यात्कोद्रवस्य प्रशान्तये ॥३॥
खदिरत्रिफलानिम्बपटोलामृतवासक: । अष्टकोऽयं जयेत्कुष्ठकण्डूविस्फोटकानि च ॥४॥
विसर्पपामाकिटिभं शीतपित्तमसूरिके । काश्चिद्विनापि यत्नेन सुखं सिध्यन्ति शीतला: ॥५॥
दुष्टा: कष्टतरा: काश्चित्‍ काश्चित्सिध्यन्ति वा नवा । काश्चिन्नैव तु सिध्यन्ति यत्नतोऽपि चिकित्सिता: ॥६॥
अथ पथ्यापथ्यम्‍ ॥ जीर्णा: षष्टिकशालयोऽपि चणका मुद्गा मसूरा कुलकं द्राक्षाफलं दाडिमं मेध्यं बृंहणमन्नपानमखिलं कोलानि मांसो रस: ॥१॥
अक्ष्णो: सेकविधौ गवेधुमधुकोद्भूतं सुशीतोदकं शम्बूकोदरकोशनीरमपि वा कर्पूरचूर्णानि वा । पक्वो मुद्गरसोऽपि जाड्गलरस: शालिं च शाकं घृतं धूपो गोमयभस्मगुण्ठनमथोशेषा व्रणोक्तक्रिया: ॥२॥
इत्थं सर्वद्दशा विभागविहितं पथ्यं यथादोषत: संयुक्तं मुदमातनोति नितरां नृणां मसूरीगदे ॥३॥
वातं स्वेदं श्रमं तैलं गुर्वन्न क्रोधमातपम्‍ । कट्वम्लं वेगरोधं च मसूरिगदवांस्त्यजेत्‍ ॥४॥
इति मसूरिकाचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T20:12:58.6300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ताकवणी

  • f  Watery butter-milk. 
RANDOM WORD

Did you know?

शंकराला अर्धी प्रदक्षिणा कां घालतात ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.