संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथानुपानानि ॥

॥ अथानुपानानि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


वल्लं वल्लार्धमाषं च यथायोगेन योजयेत्‌ ।
त्रिफलालोहचूर्णं च व्वलीपलितनाशनम्‌ ॥१॥
व्योषं भार्गी च मधुना लोहं धातुरुजापहम्‌ ।
कज्जलीमधुकृष्णाभ्यां श्लेष्मरोगविनारणम्‌ ॥२॥
शर्करा च चतुर्जातं रक्तपित्तरुजापहम्‌ ।
पुनर्नवा च गोक्षीरैर्बलवृद्धिकरं परम्‌ ॥३॥
पुनर्नवारसेनैव पाण्डुरोगनिषूदनम्‌ ।
हरिद्रा लोहचूर्णं च पिप्पली मधुना सह ।
विंशतिं च प्रमेहानां नाशयेन्नात्र संशयः ॥४॥
शिलाजतुसमायुक्तं मूत्रकृच्छ्रनिवारणम्‌ ।
वासकः पिप्पली द्राक्षा लोहं च मधुना सह ॥५॥
गुटिकां भक्षयेत्‌ प्रातः पञ्चकासनिवारणम्‌ ।
ताम्बूलेन समायुक्तं भक्षयेल्लोहमुत्तमम्‌ ॥६॥
अग्निदीप्तिकरं वृष्यं देहकान्तिविवर्धनम्‌ ।
किमत्र बहुनोक्तेन देहलोहकरं मतम्‌ ॥७॥
अल्पौषधैस्तोकपुटैर्हीनं गन्धकपारदैः ।
अपक्कं लोहजं चूर्णमायुःक्षयकरं नृणाम्‌ ॥८॥
इति लोहम्‌ ॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP