TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ क्षुद्ररोगनिदानमाह ॥

॥ अथ क्षुद्ररोगनिदानमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ क्षुद्ररोगनिदानमाह ॥
॥ अथ क्षुद्ररोगनिदानमाह ॥
ते समासेन चतुश्चत्वारिंशत्‍ क्षुद्ररोगा भवन्ति ॥ तद्यथा ॥ अथाजगल्लिका ॥ स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा । कफवातोत्थिता ज्ञेया बालानामजगल्लिका: ॥१॥
अथ यवप्रख्यमाह ॥ यवाकारा तु कठिना ग्रथिता मांससंश्रिता । पिटिका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ॥१॥
अथान्वालजीमाह । घनामवक्त्रां पिटिकामुन्नतां परिमण्डलाम्‍ । अन्वालजीमल्पपूयां तां विद्यात्कफवातजाम्‍ ॥१॥
अथ विवृत्तामाह ॥ विवृत्तास्यां महादाहां पक्वोदुम्बरसंनिभाम्‍ । विवृत्तामिति तां विद्यात्‍ पित्तोत्थां परिमण्डलाम्‍ ॥१॥
अथ कच्छपिकामाह ॥ ग्रथिता: पञ्च वा षड्‍ वा दारुणा: कच्छपोन्नता: । कफानिलाभ्यां संभूता ज्ञेया: कच्छपिका बुधै: ॥१॥
अथ वल्मीकमाह ॥ ग्रीवांसकक्षाकरपाददेशे संधौ गले वा त्रिभिरेव दोषै: । ग्रन्थि: सवल्मीकवदक्रियाणां जात: क्रमेणैव गत: स वृद्धिम्‍ ॥१॥
मुखैरनेकै: स्त्रुतितोदवद्भिर्विसर्पवत्‍ सर्पति चोन्नताग्रै: । वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात्‍ ॥२॥
॥ अथेन्द्रवृद्धामाह ॥ पद्मकर्णिकवन्मध्ये पिटिकां पिटिकाचिताम्‍ । इन्द्रवृद्धां तु तां विद्याद्वातपित्तोत्थितां भिषक्‍ ॥१॥
अथ गर्दभिकामाह ॥ मण्डलं वृत्तमुत्सन्नं सरक्तं पिटिकाचितम्‍ । रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम्‍ ॥१॥
अथ पाषाणगर्दभमाह ॥ वातश्लेष्मसमुद्भूत: श्वयथुर्हनुसंधिज: । स्थिरो मन्दरुज: स्निग्ध: ज्ञेय: पाषाणगर्दभ: ॥१॥
अथ पनसिकालक्षणमाह ॥ कर्णस्याभ्यन्तरे जातां पिटिकामुग्रवेदनाम्‍ । स्थिरां पनसिकां तां तु विद्यादन्त:प्रपाकिनीम्‍ ॥१॥
अथ जालगर्दभमाह ॥ विसर्पवत्सर्पति य: शोफस्तनुरपाकवान्‍ । दाहज्वरकर: पित्तात्स जेयो जालगर्दभ: ॥१॥
अथेरिवोल्लिकालक्षणमाह ॥ पिटिकामुत्तमाड्गस्थां वृत्तामुग्ररुजाज्वराम्‍ । सर्वात्मिकां सर्वलिड्गां जानीयादिरिवेल्लिकाम्‍ ॥१॥
अथ कक्षागन्धनयोर्लक्षणमाह ॥ बाहुकक्षांसपार्श्वषु कृष्णस्फोटां सवेदनाम्‍ । पित्तप्रकोपसंभूतां कक्षामिति विनिर्दिशेत्‍ ॥१॥
एकामेतादृशीं दृष्ट्वा पिटिकां स्फोटसंनिभाम्‍ । त्वग्गतां पित्तकोपेन गन्धनां तां प्रचक्षते ॥२॥
अथाग्निरोहिणीलक्षणमाह ॥ कक्षाभागेषु ये स्फोटा: जायन्ते मांसदारणा: । अन्तर्दाहज्वरकरा दीप्तपावकसन्निभा: ॥१॥
सप्ताहाद्वा दशाहाद्वा पक्षाद्वा घ्नन्ति मानवम्‍ । तामग्निरोहिणीं विद्यादसाध्यां सन्निपातजाम्‍ ॥३॥
अथ चिप्यलक्षणमाह ॥ नखमांसमधिष्ठाय वात: पित्तं च वेदनाम्‍ । करोति दाहपाकौ च तं व्याधिं चिप्यमादिशेत्‍ ॥१॥
अथ कुनखस्य लक्षणमाह ॥ अभिघातात्प्रदुष्टो च तं व्याधिं चिप्यमादिशेत्‍ ॥१॥
अथ कुनकस्य लक्षणमाह ॥ अभिघातात्प्रदुष्टो यो नखो रुक्षासित: खर: । भवेत्तं कुनखं विद्यात्कुलीरमिति संज्ञितम्‍ ॥१॥
अथानुशयीलक्षणमाह ॥ गम्भीरामल्पसंरम्भां सुवर्णामुपरिस्थिताम्‍ । पादस्यानुशयीं तां तु विद्यादन्त:प्रपाकिनीम्‍ ॥१॥
अथ विदारिकालक्षणमाह ॥ विदारी कन्दवद्‍वृत्ता कक्षावड्क्षणसन्धिषु । विदारिका भवेद्रक्ता सर्वजा सर्वलक्षणा ॥१॥
अथ शर्करार्बुदस्य लक्षणमाह ॥ प्राप्य मांसशिरास्नायु मेद: श्लेष्मा तथानिल: । ग्रन्थिं कुर्वन्नसौ भिन्नो मधुसर्पिर्वसानिभम्‍ ॥१॥
स्त्रवत्यास्त्रामत्यर्त्थ तत्र वृद्धिं गतोऽनिल: मांसं विशोष्य ग्रथितां शर्करां जनयेत्तत: ॥२॥
दुर्गन्धि क्लिन्नमत्यर्थं नानावर्णं तत: शिरा: । स्त्रवन्ति सहसा रक्तं तं विद्याच्छर्करार्बुदम्‍ ॥३॥
अथ पादार्या लक्षणमाह ॥ परिक्रमणशीलस्य वायुरत्यर्थरुक्षयो: । पादयो: कुरुते दारीं सरुजां तलसंश्रिताम्‍ ॥१॥
अथ कदरस्य लक्षणमाह ॥ शर्करोन्मथिते पादे क्षते वा कण्टकादिभि: । ग्रन्थि: कोलवदुत्सन्नो जायते कदरं तु तत्‍ ॥१॥
अथालसस्य लक्षणमाह ॥ क्लिन्नाड्गुल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ । दुष्टकर्दमसंस्पर्शादलसं तं विभावयेत्‍ ॥१॥
अथेन्द्रलुप्तस्य लक्षणम्‍ ॥ रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्‍ । प्रच्यावयति रोमाणि तत: श्लेष्मा सशोणित: ॥१॥
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसंभव: । तदिन्द्रलुप्तं खालित्यं रुजेति च विभाव्यते ॥२॥
अथ दारुणकस्य लक्षणमाह ॥ दारुणा कन्डुरा रुक्षा केशभूमि: प्रपठ्यते । कफमारुतकोपेन विद्याद्‍दारुणकं तु तत्‍ ॥१॥
अथारुंषिकालक्षणमाह ॥ अरुंषि बहुवक्राणि बहुक्लेदीनि मूर्धिनि । कफासृकृमिकोपेन तानि विद्यादरुंषिकाम्‍ ॥१॥
अथ पलितस्य निदानसंप्राप्तिपूर्वकं लक्षणमाह ॥ क्रोधशोकश्रमकृत: शरीरोष्मा शिरोगत: । पित्तं च केशान्‍ पचति पलितं तेन जायते ॥१॥
वातिकं विषमं रुक्षं पीतं पित्तात्मकं कफात्‍ । सर्वरुपान्वितं विद्यात्सन्निपातसमुत्थितम्‍ ॥२॥
अथ यौवनपिटिकालक्षणमाह ॥ शाल्मलीकण्टकप्रख्या: कफमारुतरक्तजा: । जायन्ते पिटिका यूनां विज्ञेया मुखदूषिका: ॥१॥
अथ पद्मिनीकण्टकमाह ॥ कण्टकैराचितं वृत्तं कण्डूमत्पाण्डुमण्डलम्‍ । पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम्‍ ॥१॥
अथ जतुमणिमाह ॥ सममुत्सन्नमरुजं मण्डलं कफरक्तजम्‍ । सहजं लक्ष्म चैकेषां लक्ष्यो जतमणिस्तु स: ॥१॥
अथास्य त्रिदोषजत्वं चरकेणोक्तं तद्यथा ॥ कृष्ण: स्निग्धो जतुमणिर्ज्ञेयो वातोत्तरैस्त्रिभि: । अरुजं त्वपरे रक्तं लक्ष्मेत्याहुर्भिषग्वरा: ॥२॥
अथ माषमाह ॥ अवेदनं स्थिरं चैव यस्मिन्‍ गात्रे प्रद्दश्यते । माषवत्कृष्णमुत्सन्ननिलान्माषमादिशेत्‍ ॥१॥
तथा च भोज: ॥ वातरिते त्वचि यदा दूष्यते कफमेदसी । श्लक्ष्णं मृदुसर्वर्णं च कुर्यात्तं माषकं वदेत्‍ ॥१॥
अथ तिलकालकमाह ॥ कृष्णानि तिलमात्राणि नीरुजानि समानि च । वातपित्तकफोद्रेकात्तान्विद्यात्तिलकालकान्‍ ॥१॥
अथ न्यच्छमाह ॥ महद्वा यदि वा चाल्यं श्यावं वा यदि वा सितम्‍ । नीरुजं मण्डलं गात्रे न्यच्छमित्यभिधीयते ॥ अथ मुखव्यड्गस्य लक्षणमाह । क्रोधायासप्रकुपितो वायु: पित्तेन संयुत: । मुखमागत्य सहसा मण्डलं विसृजत्यत: ॥१॥
नीरुजं तनुकं श्यावं मुखव्यड्गं तमादिशेत्‍ ॥१॥
अथ नीलिकामाह ॥ कृष्णमेवंगुणं गात्रे मुखे वा नीलिकां विदु: ॥१॥
अथ परिवर्तिकालक्षणमाह ॥ मर्दनात्पीडनाद्वापि तथैवाप्यभिघातत: । मेण्ढ्रचर्म यदा वायुर्भजते सर्वतश्चरन्‍ ॥१॥
तदा वातोपसृष्टत्वाच्चर्म तत्परिवर्तते । सवेदनं सदाहं च पाकं च व्रजति क्वत्चित्‍ ॥२॥
मणेरधस्तात्कोशस्तु ग्रन्थिरुपेण लम्बते । सरुजां वातसंभूतां विद्यात्तां परिवर्तिकाम्‍ ॥ सकण्डू: कठिना चापि सैव श्लेष्मसमुत्थिता ॥३॥
अथावपाटिकालक्षणमाह ॥ अल्पीय:खां यदा हर्षाब्दलाद्‍गच्छेत्‍ स्त्रियं नर: । हस्ताभिघातादपि वा चर्मण्युद्वर्तिते बलात्‍ ॥१॥
मर्दनात्पीडनाद्वापि शुक्रवेगविघातत: । यत्रावपाट्यते चर्म तां विद्यादवपाटिकाम्‍ ॥२॥
अथ निरुद्धप्रकाशस्य लक्षणमाह ॥ वातोषसृष्टे मेन्ढ्रे वै चर्म संश्रयते मणिम्‍ । मणिश्चर्मावनद्धस्तु मूत्रस्त्रोतो रुणद्धि च ॥१॥
निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम्‍ । मूत्रं प्रवर्तते जन्तोर्मणिर्विव्रियते न च ॥२॥
निरुद्धपकशं विद्यात्सरुजं वातसंभवम्‍ ॥१॥
अथ सन्निरुद्धगुदस्य लक्षणमाह ॥ वेगसंधारणाद्वायुर्विहितो गुदसंस्थित: । निरुणद्धि महत्स्त्रोत: सूक्ष्मद्वारं करोति च ॥१॥
मार्गस्य सौक्ष्म्यात्कृच्छेण पुरीषं तस्य गच्छति । सन्निरुद्धगुदव्याधिमेवं विद्यात्सुदस्तरम्‍ ॥२॥
अथानिपूतनस्य लक्षणमाह ॥ शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्‍ । स्विन्ने वा स्नाप्यमानेऽस्य कण्डू रक्तकफद्भवा ॥१॥
कण्डूयनात्तत: क्षिप्रं स्फोट: स्त्रावश्च जायते । एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम्‍ ॥२॥
अथ वृषणकच्छुलक्षणमाह ॥ स्त्रानोत्सादनहीनस्य मलो वृषणसंश्रित: । यदा प्रक्लिद्यते स्वेदात्‍ कण्डूं जनयते तदा ॥१॥
कण्डूयनात्तत: क्षिप्रं स्फोट: स्त्रावश्च जायते । प्राहुर्वृषणकच्छुं तां श्लेष्मरक्तप्रकोपजाम्‍ ॥२॥
अथ गुदभ्रंशस्य लक्षणमाह ॥ प्रवाहणातिसाराभ्यां निर्गच्छति गुदं बहि: । रुक्षदुर्बलदेहस्य तं गुदभ्रंशमादिशेत्‍ ॥१॥
अथ सूकरदंष्ट्रस्य लक्षणमाह ॥ सदाहो रक्तपर्यन्तस्त्वक्पाकी तीव्रवेदन: । कण्डूमाञ्जरकारी च स स्यात्सूकरदंष्ट्रक: ॥१॥
इति क्षुद्ररोगनिदानम्‍ ॥
====
॥ अथात: क्षुद्ररोगचिकित्सा ॥
अथाजगल्लिकाचि० ॥ तत्राजगल्लिकामामां जलौकाभिरुपाचरेत । शुक्तिसौराष्ट्रिकाक्षारकल्कैश्चालेपयेन्मुहु: ॥१॥
कठिनां क्षारयोगैश्च द्रावयेदजगल्लिकाम्‍ । श्यामालाड्गलिकामूर्वाकल्कैरपि विलेपयेत्‍ ॥ पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत्‍ ॥२॥
॥ अथ यवप्रख्यान्वालजीचिकित्सा ॥ अन्वालजीं यवप्रख्यां पूर्वं स्वेदैरुपाचरेत्‍ । मन:शिलादेवदारुकुष्ठकल्कै: प्रलेपयेत्‍ ॥१॥
पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत्‍ अथ विवृत्तेन्द्रवृद्धागर्दभिकाजालगर्दभानां चिकित्सा । विवृतामिन्द्रवृद्धां च गर्दभीं जालगर्दभम्‍ । पैत्तिकस्य विसर्पस्य क्रियया साधयेद्भिषक्‍ ॥१॥
पाके तु रोपयेदाज्यै: पक्वैर्मधुरभेषजै: । नीलपटोलमूलाभ्यां साज्याभ्यां लेपनं हितम्‍ ॥ जालगर्दभरुपं तु सद्यो हन्ति सवेदनम्‍ ॥२॥
अथ कच्छपिकाचिकित्सा ॥ कच्छपीं स्वेदयेत्पूर्वं तत एभि: प्रलेपयेत्‍ । कल्कीकृतैर्निशाकुष्ठशिलातालकदारुभि: ॥ तां पक्वां साधयेच्छीघ्रं भिषग्‍ व्रणचिकित्सा ॥१॥
अथ वल्मीकचिकित्सा ॥ शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्नीभ्यां प्रसाधयेत्‍ । विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत्‍ ॥१॥
वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मणि । तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक्‍ ॥२॥
कुलत्थकानां मूलैश्च गुडूच्या लवणेन च । आरग्वधस्य मूलैश्च दन्तिमूलैस्तथैव च ॥३॥
श्यामामूलै: सपललै: सक्तूमिश्रै: प्रलेपयेत्‍ । सुस्निग्धैश्च सुखोष्णैश्च भिषक्‍ तमुपनाहयेत्‍ ॥४॥
अथमन:शिलादितैलम्‍ ॥ मन:शिलालभल्लातसूक्ष्मैलागुरुचन्दनै: । जातीपल्लवकल्कैश्च निम्बतैलं विपाचयेत्‍ ॥१॥
वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुव्रणम्‍ । पाणिपादोपरिष्टात्तच्छिद्रैर्बहुभिरावृतम्‍ ॥ वल्मीकं यत्सशोफं स्याद्वर्ज्यं तद्धि विजानता ॥२॥
अथ पाषाणगर्दभचिकित्सा ॥ सुरदारुशिलाकुष्ठै: स्वेदयित्वा प्रलेपयेत्‍ । कफमारुतशोथघ्नो लेप: पाषाणगर्दभे ॥१॥
अथ पनसिकाचिकित्सामाह ॥ भिषक्‍ पनसिकां पूर्वं स्वेदनैरपतर्पणै: । जयेद्वदारिवल्लेपै: शिग्रुदेवद्रुमोद्भवै: ॥१॥
अथेरिवेल्लिकाचिकित्सा ॥ पैत्तिकस्य विसर्पस्य या चिकित्सा प्रकीर्तिता । तथैव भिषगेतां च चिकित्सेदिरिवेल्लिकाम्‍ ॥१॥
अथ कक्षागन्धनयोश्चिकित्सा ॥ कक्षां च गन्धनां तां च चिकित्सेत चिकित्सक: । पैत्तिकस्य विसर्पस्य क्रियया पूर्वमुक्तया ॥१॥
अथाग्निरोहिणीचिकित्सा ॥ पित्तवीसर्पविधिना साधयेदग्निरोहिणीम्‍ । रोहिण्यां लड्घनं कुर्याद्‍ रक्तमोक्षणरुक्षणम्‍ ॥१॥
शरीरस्य च संशुद्धिं तां तु वृद्धां परित्यजेत्‍ ॥२॥
अथचिप्यकुनस्वयोश्चिकित्सा ॥ चिप्यं रुधिरमोक्षेण शोधनेनाप्युपाचरेत्‍ । गतोष्माणमथैनं तु सेचयेदुष्णवारिणा ॥१॥
शस्त्रेणापि यथायोग्यमुच्छिद्यस्त्रावयेत्तत: । व्रणोक्तेन विधानेन रोपयेत्तु विचक्षण: ॥२॥
स्वरसेन हरिद्राया: पात्रे कृत्वायसेऽभयाम्‍ । घृष्ट्वां तज्जेन कल्केन लिम्पेच्चिप्यं पुन: पुन: ॥३॥
काश्मर्या: सप्तभि: पत्रै: कोमलै: परिवेष्टित: । अड्गुलीवेष्टक: पुंसां ध्रुवमाशु प्रशाम्यति ॥४॥
श्लेष्मविद्रधिकल्पेन कुनखं समुपाचरेत्‍ । नखकोटोप्रविष्टेन टड्कणेन न शाम्यति ॥ कुनखश्चेत्तदा शैल: सलिले प्लवतेऽपि च ॥५॥
दाडिमकुसुमयवासैरभया सुश्लक्ष्णचूर्णिता लेपात्‍ । नखकोटिपूतिभावं शमयति शूलं च तत्क्षणादेव ॥६॥
अथानुशयीचिकित्सा हरेदनुशयीं वैद्य: क्रियया श्लेष्मविद्रधे: ॥१॥
अथ विदारिकाचिकित्सा ॥ विदारिकायां प्रथमं जलौकायोजनं हितम्‍ । पाटनं च विपक्कायां ततो व्रणविधि: स्मृत: ॥
जयेद्विदारिकां लेपै: शिग्रुदेवद्रुमोद्भवै: ॥१॥
वृन्दात्‍ ॥ अथ शर्करार्बुदस्य चि० ॥ मेदोऽर्बुदविधानेन साधयेच्छर्करार्बुदम्‍ ॥१॥
अथ पाददार्याश्चि० ॥ पाददार्या शिरां प्राज्ञो मोक्षयेत्तलशोधिनीम्‍ । स्नेहस्वेदोपपन्नौ तु पादौ वा लेपयेन्मुहु: ॥१॥
मधूच्छिष्टवसामज्जाघृतै: क्षारविमिश्रितै: । सर्जोत्थसिन्धूद्भवयोश्चूर्ण मधुघृतप्लुतम्‍ ॥ निर्मथ्य कटुतैलाक्तं हितं पादप्रमार्जने ॥२॥
मधुसिक्थकसैन्धवघृतगुडमहिषाख्यशालनिर्यासै: । गैरिकसहितैर्लेप: पादस्फुटनापह: सिद्ध: ॥३॥
उपोदिकासर्षपनिम्बमोचकर्कारुकैर्वारुकभस्मतोयै: । तैलं विपक्वं लवणेन युक्तं तत्याददारीं विनिहन्ति लेपात्‍ ॥४॥
इत्युपोदकाद्यं तैलम्‍ । मदनं च तथा सिक्थं सामुद्रलवणं तथा । महिषीनवनीतेन सन्ततं लेपनं हितम्‍ ॥१॥
सप्ताहात्स्फुटितौ पादौ जायेते कमलोपमौ । सैन्धवं चन्दनं रालं मधु सर्पि: पुरो गुड: ॥ गैरिका स्फुटितौ पादौ लिप्तौ स्त: पड्कजोपमौ ॥२॥
मदनसैन्धवगुग्गुलुगैरिकाज्यमधुवालकपड्कविलेपनात्‍ । स्फुटितमप्यखिलं चरणद्वयं विकचतामरसप्रतिमं भवेत्‍ ॥३॥
अथ कदरस्य चिकित्सा । दहेत्कदरमुद्‍धृत्य तैलेन दहनेन वा ॥१॥
अथालसस्य चिकित्सा ॥ पादौ सिक्त्वारनालेन लेपनं त्वलसे हितम्‍ । पटोलकुनटीनिम्बरोचनामरिचैस्तिलै: ॥१॥
क्षुद्रास्वरससिद्धेन कटुतैलेन लेपयेत्‍ । तत: कासीसकुनटीतिलचूर्णैर्विचूर्णयेत्‍ ॥२॥
करञ्जबीजरजनीकासीसं पद्मकं मधु । रोचना हरितालं च लेपोऽयमलसे ह्ति: ॥३॥
अथेन्द्रुलुप्तस्य चिकित्सा ॥ इन्द्रलुप्तापहो लेपो मधुना बृहतीरस: । गुञ्जामूलं फलं वापि भल्लातकरसोऽपि वा ॥१॥
लेप: सवननीतो वा श्वेताश्वखुरजा मषी । हस्तिदन्तमषीं कृत्वा छागदुग्धं रसाञ्जनम्‍ ॥ रोमाण्येतेन जायन्ते लेपात्पाणितलेष्वपि ॥२॥
तिक्तपटोलीपत्रस्वरसैर्घृष्टा शमं याति । चिरकालजापि निरुजा नियतं दिवसत्रयेणैव ॥२॥
गोक्षुरस्तिलपुष्पाणी तुल्ये च मधुसर्पिषी । शिर: प्रलेपितं त्न केशै: समुपचीयते ॥३॥
जातीकरञ्जवरुणकरवीराग्निपाचितम्‍ । तैलमभ्यञ्जनाद्धन्यादिन्द्रलुप्तं न संशय: ॥४॥
स्नुहीपय: पयोऽर्कस्य मार्कवो लाड्गली विषम्‍ । अजामूत्रं सगोमूत्रं रक्तिका सेन्द्रवारुणी ॥५॥
सिद्धार्थकस्तीक्ष्णगन्धा सम्यगेभिर्विपाचितम्‍ । तैलं भवति नियमात्खालित्यव्याधिनाशनम्‍ ॥६॥
इति स्नुहीदुग्धादितैलम्‍ ॥
===
अथ दारुणस्य चिकित्सा ॥
कार्यो दारुणके मूर्घ्नि प्रलेपो मधुसंयुत: । प्रियालबीजमधुककुष्ठमाषै: ससैन्धवै: ॥१॥
काञ्जिकैस्तु त्रिसप्ताहं लेपो दारुणकापह: । आम्रबीजस्य चूर्णं तू शिवाचूर्णं समं द्वयम्‍ ॥ दुग्धपिष्टप्रलेपोऽयं दारुणं हन्ति दारुणम्‍ ॥२॥
अथ भृड्गराजतैलम्‍ ॥ भृड्गराजरसेनैव लोहकिट्टं फलत्रिकम्‍ । सारिवां च पचेत्कल्कैस्तैलं दारुणनाशनम्‍ ॥ अकालपलितं कण्डूमिन्द्रलुप्तं च नाशयेत्‍ ॥१॥
अथ गुञ्जातैलम्‍ ॥ गुञ्जाफलै: शृतं तैलं भृड्गराजरसेन च । कण्डूदारुणहृत्कुष्ठकपालव्याधिनाशनम्‍ ॥१॥
दुग्धेन खाखसं बीजं प्रलेपाद्दारुणं हरेत्‍ । कण्ट्कारीफलरसैस्तुल्यं तैलं विपाचयेत्‍ ॥ जपापुष्पद्रवैर्वाथ तल्लेपो दारुणप्रणुत्‍ ॥२॥
अथारुंषिकायाश्चिकित्सा ॥ नीलोत्पलस्य किञ्जल्को धात्रीफलसमन्वित: । यष्टीमधुकयुक्तश्च लेपाद्धन्यादरुंषिकाम्‍ ॥१॥
अथ त्रिफलाद्यं तैलम्‍ ॥ त्रिफलाया रजो यष्टी मार्कवोत्पलसारिवा । सैन्धवं पक्वमेतैस्तु तैलं हन्यादरुंषिकाम्‍ ॥१॥
अरुंषिकायां रुधिरेऽवसिक्ते शिराव्यधेनाथ जलौकया वा । निम्बाम्बुसिक्ते शिरसि प्रलेपो देयश्च वर्चोरससैन्धवाभ्याम्‍ ॥२॥
पुराणमथ पिण्याकं पुरीषं कुकक्रुटस्य च । मूत्रपिष्ट: प्रलेपोऽयं शीघ्रं हन्यादरुंषिकाम्‍ ॥३॥
==
॥ अथ हरिद्राद्यं तैलम्‍ ॥
हरिद्राद्वयभूनिम्बत्रिफलारिष्टचन्दनै: । एतत्तैलमरूंषीणां सिद्धमभ्यञ्जने हितम्‍ ॥१॥
खादिरारिष्टजम्बूनां त्वग्भिर्वा मूत्रसंयुतै: । कुटजत्वक्‍सैन्धवं वा लेपाद्धन्यादरुंषिकाम्‍ ॥२॥
अथ पलितस्य चिकित्सा ॥ अयोरजो भृड्गराजस्त्रिफला कृष्णमृत्तिका । स्थितमिक्षुरसे मासं लेपनात्पलितं जयेत्‍ ॥१॥
धात्रीफलद्वयं पथ्ये द्वे तथैकं बिभीतकम्‍ । पञ्चाम्रमज्नो लोहस्य कर्षैकं च प्रदीयते ॥२॥
पिष्ट्वा लोहमये भाण्डे स्थापयेदुषितं निशि । लेपोऽयं हन्ति न चिरादकालपलितं महत्‍ ॥३॥
निम्बस्य तैलं प्रकृतिस्थमेव नस्यं विधेयं विधिना यथावत्‍ । मासेन गोक्षीरभुजो नरस्य चिरात्‍ प्रभूतं पलितं निहन्ति ॥४॥
काश्मर्यं मूलमादौ सहचरकुमुमं केतकस्यापि मूलं लौहं चूर्णं सभृड्गं त्रिफलजलयुतं तैलमेभि: पचेयु: । कृत्वा लोहस्य भाण्डे क्षितितलनिहितं स्थापयेन्मासमेकं केशा: काशप्रकाशा अपि मधुपनिभा अस्य योगाद्भवन्ति ॥५॥
त्रिफला नीलिकापत्रं भृड्गराजो ह्ययोरज: । अविमूत्रेण सपिष्टं लेपात्कृष्णीकरं परम्‍ ॥६॥
अथ यौवनपिटिकान्यच्छमुखव्यड्गनीलिकाचिकित्सामाह ॥ युवानपिटिकान्यच्छनीलिकाव्यड्गशर्करा: । शिरावेधै: प्रलेपैश्चजयेदभ्यञ्जनैस्तथा ॥१॥
जातीफलं चन्दनं च मरिचै: सह पेषितम्‍ । मुखलेपेन हन्त्याशु पिटिकां यौवनोद्भवाम्‍ ॥२॥
लोध्रधान्यवचालेपस्तारुण्यपिटिकापह: । तद्वद्‍ गोरोचनायुक्तं मरिचं मुखलेपनात्‍ ॥३॥
सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम्‍ । गव्येन चार्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका ॥४॥
कण्टकै: शाल्मलीयैश्च क्षीरपिष्टै: प्रलेपयेत्‍ । मुखे तस्यापि पिटिका: संक्षयं यान्त्यसंशयम्‍ ॥५॥
त्रिभुवनविजयापत्रं मूलं स्थविरस्य शिंशपा चैभि: । उद्वर्तनं विरचितं न्यच्छव्यड्गापहं सिद्धम्‍ ॥६॥
वटाड्कुरा मसूराश्च प्रलेपाव्द्यड्गनाशना: । व्यड्गे मञ्जिष्ठावृषमाक्षिकै: । लेप: सनवनीतां वा श्वेताश्वखुरजा मषी ॥८॥
व्यड्गानां लेपनं शस्तं रुधिरेण वा ॥ वरुणस्य कषायेण मुखं प्रक्षाल्य लेपयेत्‍ ॥९॥
वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम्‍ ॥ कुष्ठं कालीयकं लोध्रमेभिर्लेपं प्रयोजयेत्‍ ॥१०॥
युवानपिटिकानां तु व्यड्गानां च विनाशनम्‍ । मातुलिड्गजटासर्पि: शिलागोशकृतो रस: ॥११॥
मुखकान्तिकरो लेप: पिटिकाव्यड्गकालजित्‍ । जातिफलस्य लेपस्तु हरेव्द्यड्गं च नीलिकाम्‍ ॥१२॥
अर्कक्षीरहरिद्राभ्यां मर्दयित्वा प्रलेपयेत्‍ । मुखकार्ष्ण्य़ं शमं याति चिरकालोद्‍भवं ध्रुवम्‍ ॥१३॥
मसूरै: क्षीरसंपिष्टैर्लिप्तमास्यं घृतान्वितै: । सप्तरात्राद्भवेत्सत्यं पुण्डरीकदलोपमम‍ ॥१४॥
अथ कुड्कुमाद्यं तैलम्‍ ॥ कुड्कुमं चन्दनं लोध्रं पतड्गं रक्तचन्दनम्‍ । कालीयकमुशीरं च मञ्जिष्ठा मधुयष्टिका ॥१॥
पत्रकं पद्मकं पद्मं कुष्ठं गोरोचनं निशा । लाक्षा दारुहरिद्रा च गैरिकं नागकेशरम्‍ ॥२॥
पालाशकुसुमं चापि प्रियड्गुश्च वटाड्कुरा: । मालती च मधूच्छिष्टं सर्षपा: सुरभिर्वचा ॥३॥
चतुर्गुणपय:पिष्टैरेतैरक्षमितै: पृथक्‍ । पचेन्मन्दाग्निना वैद्यस्तैलं प्रस्थद्वयोन्मितम्‍ ॥४॥
वदनाभ्यञ्जनादेतद्‍ व्यड्गं नीलिकया सह । तिलकं माषकं न्यच्छं नाशयेन्मुखदूषिकाम्‍ ॥५॥
पद्मिनीकण्टकं वापि हरेज्जनुमणिं तथा । विदध्याद्वदनं पूर्णचन्द्रमण्डलसुन्दरम्‍ ॥६॥
इति कुड्कुमाद्यं तैलं भावप्रकाशात्‍ ॥ अथ मञ्जिष्ठाद्यं तैलम्‍ ॥ योगतरड्गिण्या: । मञ्जिष्ठं मधुकं लाक्षा मातुलिड्गं सयष्टिकम्‍ ।
कर्षप्रमाणैरेतैस्तु तैलस्य कुडवं तथा ॥१॥
आजं पयस्तु द्विगुणं शनैर्मृद्वग्निना पचेत्‍ । नीलिकापिटिकाव्यड्गानभ्यड्गादेव नाशयेत्‍ ॥२॥
मुखं प्रसादोपचितं वलीपलितवर्जितम्‍ । सप्तरात्रप्रयोगेण भवेत्कनकसंनिभम्‍ ॥३॥
अथ पद्मिनीकण्टकचिकित्सा ॥ पद्मिनीकण्टकचिकित्सा ॥ पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा । तेनैव सिद्धं सक्षौद्रं सर्पि: पातुं प्रदापयेत्‍ ॥१॥
निम्बारग्वधकल्कैर्वा मुह्रुरुद्वर्तनं हितम्‍ । चतुर्गुणेन निम्बोत्थपत्रक्वाथेन गोघृतम्‍ ॥२॥
पचेत्ततस्तु निम्बस्य कृतमालस्य पत्रजै: । कल्कैर्भूय: पचेत्सिद्धं तत्पिबेत्‍ पलसंमितम्‍ ॥ पद्मिनीकण्टकाद्रोगान्मुक्तो भवति नान्यथा ॥३॥
इति निम्बादिघृतम्‍ ॥ अथ तिलकालकमाषजतुमणीनां चिकित्सा ॥ चर्मकीलं जतुमणिं माषकांस्तितलकालकान्‍ । उत्स्कृत्य शस्त्रेण दहेत्क्षाराग्निभ्यामशेषत: ॥१॥
अथ परिवर्तिकाचिकित्सामाह ॥ स्वेदोपनाहौ परिवर्तिकायां कृत्वा समभ्यज्य घृतेन पश्चात्‍ । प्रवेशयेच्चर्म शनै: प्रविष्टे माषै: सुपिष्टैरुपनाहयेत्तम्‍ ॥१॥
इति वृन्दात्‍ ॥ अथ भावप्रकाशात्‍ ॥ परिवर्ति घृताभ्यक्तां सुस्विन्नामुपनाहयेत्‍ । त्रिरात्रं पञ्चरात्रं वा वातघ्नै: शाल्वणादिभि: ॥१॥
ततोऽभ्यज्य शनैश्चर्मवेशयेत्पीडयेन्मणिम्‍ । प्रविष्टे चर्मणि मणौ स्वेदयेदुपनाहयेत्‍ । दद्याद्वातहरान्बस्तीन्‍ स्निग्धान्यन्नानि भोजयेत्‍ ॥२॥
अथावपाटिकाचिकित्सा ॥ स्नेहस्वेदैरिमां वैद्यश्चिकित्सेदवपाटिकाम्‍ ॥१॥
अथ निरुद्धप्रकाशस्य चिकित्सा । निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम्‍ । दारवीं वा जतुकृतां घृताक्तां संप्रवेशयेत्‍ ॥१॥
परिषिश्चेद्वसां मज्जां शिशुमारवराहयो: । चुक्रतैलं तथा योज्यं वातघ्नद्रव्यसंयुतम्‍ ॥२॥
त्र्यहात्स्थूलतरां सम्यड्‍ नाडीं गर्भे प्रवेशयेत्‍ । स्त्रोतो विवर्धयेदेवं स्निग्धमन्नं च भोजयेत्‍ ॥ भित्वा वा सीवनीं मुक्ता सद्य: क्षतवदाचरेत्‍ ॥३॥
अथ सन्निरुद्वगुदस्य चिकित्सा ॥ सन्निरुद्धगुदे तैलै: सेको वातहरैर्हित: । तथा निरुद्धप्रकशक्रिया वा कथिता हिता ॥१॥
अथाहिपूतनचिकित्सा ॥ तत्र संशोधनै: पूर्वं धात्रीस्तन्यं विशोधयेत्‍ । त्रिफलाखदिरक्वाथैर्व्रणानां क्षालनं हितम्‍ ॥१॥
शड्खसौवीरयष्टयाह्वैर्लेप: कार्यो‍ऽहिपूतने । पटोलपत्रत्रिफलारसाञ्जनविपाचितम्‍ ॥ पीतं घृतं नाशयति कृच्छ्रमप्यहिपूतनम्‍ ॥२॥
अथ वृषण कच्छुचिकित्सा ॥ सर्जाम्बुकुष्ठसैन्धवसितसिद्धार्थै: प्रकल्पितो योग: । उद्वर्तनेन नियतं शमयति वृषणकण्डूतिम्‍ ॥१॥
भिषग्‍ वृषणकच्छुं तु चिकित्सेत्पामरोगवत् । अहिपूतननिर्दिष्टक्रिययापि च तां हरेत्‍ ॥२॥
कासीसरोचनातुत्थहरितालरसाञ्जनै: । आम्लपिष्टै: प्रलेपो‍ऽयं मुष्ककण्ड्वहिपूतने ॥३॥
अथ गुद्रभ्रंशे ॥ गुदभ्रंशे गुदं स्विन्नं स्नेहेनाक्तं प्रवेशयेत्‍ । प्रविष्टं रोधयेद्यत्नाद्रव्यसच्छिद्रचर्मणा ॥१॥
पद्मिन्या: कोमलं पत्रं य: खादेच्छर्करान्वितम्‍ । एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गम: ॥१॥
मूषिकानां वसाभिर्वा गुदं भ्रंशे प्रलेपयेत्‍ । स्विन्नमूषकमांसेन अथवा स्वेदयेद्गुतम्‍ पेयं गुदभ्रंशरुजापहम्‍ ॥३॥
वृक्षाम्लनलचाड्गेरीबिल्वपाठायवाग्रजम्‍ । तक्रेण शीलयेत्पायुभ्रंशार्तो नलदीपनम्‍ ॥४॥
अथ मूषकतैलम्‍ ॥ मूषकान्दशमूलानि गृह्णीयादुभयं समम्‍ । तयो: क्वाथेन कल्केन पचेत्तैलं यथोदितम्‍ ॥१॥
अभ्यड्गात्तस्य तैलस्य गुदभ्रंशो विनश्यति । विनश्यति तथा तेन गुदशूलभगन्दरा: ॥२॥
गुडं च गव्यपयसा भक्षयेदविशड्कित: । दुष्प्रवेशो गुद्रभ्रंशो विशत्याशु न संशय: ॥ रसाञ्जनं विशेषेण पानालेपनयोर्हितम्‍ ॥३॥
अथ शूकरदंष्ट्रस्य चिकित्सा ॥ भृड्गराजकमूलस्य रजन्या सहितस्य च । चूर्णं तु सहसा लेपाद्वराहद्विजनाशनम्‍ ॥१॥
राजीवमूलकत्व: पीतो गव्येन सर्पिषा प्रात: । शमयति शूकरदंष्ट्रं दंष्ट्रोद्भूतं ज्वरं घोरम्‍ ॥२॥
रजनी मार्कवं मूलं पिष्टं शीतेन वारिणा । तल्लेपाद्धन्ति वीसर्पं वाराहदशनाद्वयम्‍ ॥३॥
इति शूकरदंष्ट्रस्य चिकित्सा ॥ अथ पथ्यापथ्यम्‍ ॥ क्षुद्ररोगेषु सर्वेषु नानारोगानुकारिषु । दोषान्‍ दूष्यानवस्थां च निरीक्ष्यमतिमान्भिषक्‍ ॥१॥
तस्य तस्य च रोगस्य पथ्यापथ्यानि सर्वश: यथासोषं यथादष्यं यथावस्थं प्रकल्पयेत्‍ ॥२॥
इति क्षुद्ररोगचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T20:14:14.4270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

sanctioning order

  • मंजूरी आदेश 
  • मंजूरी आदेश 
RANDOM WORD

Did you know?

जननशांतीचे महत्व स्पष्ट करा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.