TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मुखरोगाणां निदानान्याह ॥

॥ अथ मुखरोगाणां निदानान्याह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ मुखरोगाणां निदानान्याह ॥
॥ अथ मुखरोगाणां निदानान्याह ॥
तत्र मुखस्य स्वरुपमाह । ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो गलादि सकलं सप्ताड्गं मुखमुच्यते ॥१॥
आनूपपिशितक्षीरदधिमाषादिसेवनात्‍ । मुखमध्ये गदान्कुर्यु: क्रुद्धा दोषा: कफोत्तरा: ॥१॥
अथ मुखरोगाणां संख्यामाह । स्युरष्टावोष्ठयोर्दन्तमूलेषु दश षट्‍ तथा । दन्तेष्वष्टौ च निह्वायां पञ्च स्युर्नव तालुनि ॥१॥
कण्ठे त्वष्टादश प्रोक्तास्त्रय: सर्वसरा: स्मृता: । एवं मुखामया: सर्वे: सप्तषष्टिर्मता बुधै: ॥२॥
तत्रौष्ठरोगांस्तेषां निदानपूर्विकां सड्ख्यां चाह । पृथग्‍ दोषै: समस्तैश्च रक्तजो मांसजस्तथा । मेदोजश्चभिघातोत्थ एवमष्टौष्ठजा गदा: ॥१॥
अथ तत्र वातिकस्य लक्षणमाह ॥ कर्कशो परुषौ स्तब्धौ कृष्णौ तीव्ररुजान्वितौ । दाल्येते परिपाट्येते ह्योष्ठौ मारुतकोपत: ॥१॥
अथ पैत्तिकमाह ॥ चीयेते पिटिकाभिस्तु सरुजाभि: समन्तत: । सदाहपाकपिटिकौ पीताभासौ च पित्तत: ॥१॥
अथ श्लैष्मिकमाह ॥ सवर्णाभिस्तु चीयेते पिटिकाभिरवेदनौ । कण्डूमन्तौ कफाच्व्छेतौ शीतलौ पिच्छिलौ गुरु ॥१॥
अथ सान्निपातिकमाह ॥ सकृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च । सन्निपातेन विज्ञेयावनेकपिटिकाचितौ ॥१॥
अथ रक्तजमाह ॥ खर्जूरफलवर्णाभि: पिटिकाभिर्निपीडितौ । रक्तोपसृष्टौ रुधिरं स्त्रवत: शोणितप्रभौ ॥१॥
अथ मांसजमाह ॥ मांसदुष्टौ गुरुस्थूलौ मांसपिण्डवदुद्गतौ । जन्तवश्वात्र मूर्च्छन्ति नरस्योभयतो मुखात्‍ ॥१॥
अथ मेदोजमाह ॥ सर्पिर्मण्डपतीकाशौ मेदसा कण्डुरौ विदीर्येते पीड्येते चाभिघातत: । मथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ ॥१॥
उक्तं भोजे ॥ क्षतावभिहतौ चापि रक्तावष्ठौ सवेदनौ । भवत: सपरिस्त्रावौ रक्तपित्तप्रदूषितौ ॥२॥
इत्योष्ठरोगनिदानम्‍ ॥ अथ दन्तवेष्टरोगा: ॥ तत्र दन्तवेष्टरोगाणां नामानि संख्यां चाह ॥ शीतादो गदित: पूर्वं दन्तनाड्यश्च पञ्च च । दन्तविद्रधिरप्यत्र दन्तवेष्टेषु षोडश ॥३॥
तत्र शीतादस्य लक्षणमाह ॥ शोणीतं दन्तवेष्टेभ्यो यत्राकस्मात्प्रवर्तते । दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च ॥१॥
दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम्‍ । शीतादो नाम स व्याधि: कफशोणितसंभव: ॥२॥
अथ दन्तपुप्पुटाकमाह ॥ दन्तयोस्त्रिषु वा यत्र श्वयथुर्जायते महान्‍ । दन्तपुप्पुटाको नाम स व्याधि: कफरक्तज: ॥१॥
अथ दन्तवेष्टमाह ॥ स्त्रवन्ति पूयं रुधिरं चला दन्ता भवन्ति च । दन्तवेष्ट: स विज्ञेयो दुष्टशोणितसंभव: ॥१॥
अथ सौषिरमाह ॥ श्वयथुर्दन्तमूलेषु रुजावान्कफवातज: ॥ लालास्त्रावी स ज्ञेय: सौषिरो गद: ॥१॥
अथ महासौषिरमाह ॥ दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते । यस्मिन्स सर्वजो व्याधिर्महासौषिरसंज्ञक: ॥१॥
सप्तरात्रान्मारकश्चायं यत आह भोज: ॥ सदाहो दन्तमूलेषु शोथ: पित्तकफानिलात्‍ । महासौषिर इत्येष सप्तरात्रान्निहन्त्यसून्‍ ॥१॥
अथ परिदरमाह ॥ दन्तमांसानि शीर्यन्ते यस्मिन्स्त्रवति चाप्यसृक्‍ । पित्तासृक्कफजो व्याधि र्ज्ञेय: परिदरो हि स: ॥१॥
अथोपकुशमाह ॥ वेष्टेषु दाह: पाकश्च ताभ्यां दन्ताश्चलन्ति च । अत्यर्दिता: प्रस्त्रवन्ति शोणितं मन्दवेदनम्‍ ॥१॥
आध्मायन्ते स्त्रुते रक्ते मुखं पूति च जायते । यस्मिन्नुपकुश: स स्यात्पित्तरक्तसमुद्भव: ॥२॥
अथ वैदर्भमाह ॥ घृष्टेषु दन्तमूलेषु संरम्भो जायते महान्‍ । चलन्ति च रदा यस्मिन्स वैदर्भोऽभिघातज: ॥१॥
अथ खलिवर्धनमाह ॥ मारुतेनाधिको दन्तो जायते तीव्रवेदन: । खलिवर्धनसंज्ञोऽसौ सञ्जति रुक्‍ प्रशाम्यति ॥१॥
अथाधिमांसकमाह ॥ हानव्ये पश्चिमे दन्ते महाञ् शोथो महारुज: । लालास्त्रावी कफकृतो विज्ञेय: सोऽधिमांसक: ॥१॥
अथ पञ्चदन्तनाडीराह ॥ दन्तमूलगता नाड्य: पञ्च ज्ञेया यथेरिता: ॥१॥
अथ दन्तविद्रधिमाह ॥ दन्तमांसमलै: सात्रैर्बाह्यत: श्वयथुर्महान्‍ । सदाहरुक्‍ स्त्रवेद्भिन्न: पूयास्त्रं दन्तविद्रधि: ॥१॥
इति दन्तवेष्टरोगा: ॥ अथ दन्तरोगा: ॥ तत्र दन्तरोगाणां नामानि संख्यां चाह ॥ दालन: कथित: पूर्वं कृमिदन्तक एव च । प्रोक्तो भञ्जनको दन्तहर्षो वै दन्तशर्करा ॥१॥
कपालिकात्र कथिता श्यावदन्तक एव च । करालसंज्ञ इत्यष्टौ दन्तरोगा: प्रकीर्तिता: ॥२॥
तत्र दालनस्य लक्षणमाह ॥ दीर्यमाणेष्विव रुजा यत्र दन्तेषु जायते । दालनो नाम स व्याधि: सदागतिनिमित्तज: ॥१॥
अथ कृमिदन्तकमाह ॥ कृष्णच्छिद्रश्चल: स्त्रावी ससंरम्भो महारुज: । अनिमित्तरुजो वातात्स ज्ञेय: कृमिदन्तक: ॥१॥
अथ भञ्जनकमाह ॥ वक्तृं वक्रं भवेद्यस्य दन्तभड्गश्च जायते । कफवातकृतो व्याधि: स भञ्जनक उच्यते ॥१॥
अथ दन्तहर्षमाह ॥ शीतरुक्षप्रवाताम्लस्पर्शानामसहा द्विजा: । यत्र स्युर्वातपित्ताभ्यां दन्तहर्ष: स कीर्तित: ॥१॥
अथ दन्तशर्करामाह ॥ मलो दन्तगतो यस्तु कफश्चानिलिशोषित: । शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ॥१॥
अथ कपालिकामाह ॥ कपोलेष्विव दीर्यत्सु दन्तेषु समलेषु च । कपालिकेति विज्ञेया दन्तच्छिद्दन्तशर्करा ॥१॥
॥ अथ श्यावदन्तकमाह ॥ योऽसृगमिश्रेण पित्तेन दग्धो दन्तस्त्वशेषत: । श्यावतां नीलतां वापि गत: स श्यावदन्तक: ॥१॥
अथ करालमाह ॥ शनै: शनै: प्रकुपितो यत्र दन्ताश्रितोऽनिल: । करालान्‍ विकटान्‍ दन्तान्स करालो न सिध्यति ॥१॥
अथ हनुमोक्षमाह ॥ वातेन तैस्तैर्भावस्तु हनुसन्धिर्विसंहत: । हनुमोक्ष इति ज्ञेयो व्याधिरर्दितलक्षण: ॥१॥
तन्त्रान्तरे ॥ भाराभिघाताज्जन्तोश्च हनुसन्धिर्विमुच्यते । निरस्तजिह्वकृच्छ्रेण भाषितुं तत्र गच्छति ॥ सकृच्छ्र्मानिलव्याधिं हनिमोक्षं विनिर्दिशेत्‍ ॥१॥
इत्येवमष्टौ दन्तरोगा: ॥ अथ जिह्वारोगा: ॥ तत्र जिह्वारोगाणां निदानं नामानि संख्यां चाह ॥ वातज: पित्तजश्चापि कफजोऽलाससंज्ञक: । उपजिह्विका च गदा जिह्वायां पञ्च कीतिता: : ॥१॥
अथ वातजमाह ॥ जिह्वानिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा ॥१॥
अथ पित्तजमाह । पित्तात्सदाहैरनुचीयते च दीर्घै: सरक्तैरपि कण्टकैश्च ॥१॥
अथ कफजमाह ॥ कफेन ग्रुर्वी बहुलान्विता च मांसोच्छ्रयै: शाल्मलिकण्टकाभै: ॥१॥
अथालासमाह ॥ जिह्वातले य: श्वयथु: प्रगाढ: सोऽलाससंज्ञ: कफरक्तमूर्ति: । जिह्वां स तु स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति प्राकम्‍ ॥१॥
अथोपजिह्विकामाह ॥ जिह्वाग्ररुप: श्वयथुर्हि जिह्वामुन्नम्य जात: कफरक्तयोनि: । प्रसेककण्डूपरिदाहयुक्त: प्रकथ्यते सा उपजिह्विकेति ॥१॥
इति जिह्वारोगा: ॥ अथ तालुरोगा: ॥ तत्र तालुरोगाणां नामानि संख्यां चाह ॥ गलशुण्ठीतुण्डिकेर्यध्रुव: कच्छप एव च । ताल्वर्बुदश्च कथितो मांससड्घात एव च ॥१॥
तालुपुप्पुट नामा च तालुशोषस्तथैव च । तालुपाकश्च कथितास्तालुरोगा अमी नव ॥२॥
तत्र गलशुण्ठीलक्षणमाह ॥ श्लेष्मासृग्भ्यां तालुमूलात्प्रवृद्धो दीर्घ: शोफो ध्मातवस्तिप्रकाश: । तृष्णाकासश्वासकृत्तं वदन्ति व्याधिं वैद्य: कण्ठशुण्डीतिनाम्ना ॥१॥
अथ तुण्डिकेरीमाह ॥ शोथ: शूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु ॥१॥
अथाध्रुवलक्षणमाह । शोथ: स्तब्धो लोहित: शोणितोत्थो ज्ञेयोऽध्रुव: सज्वरस्तीव्ररुक्‍ च ॥१॥
अथ ताल्वर्बुदमाह ॥ पद्माकारं तालुमध्ये तु शोथं विद्याद्रक्तादर्बुदं प्रोक्तलिड्गम्‍ ॥ अथ मांससड्घातमाह ॥ दुष्टं मांसं श्लेष्मणा नीरुजं च ताल्वन्त:स्थं मांससंघातमाहु: ॥१॥
अथ तालुपुप्पुटमाह ॥ नीरुक्‍ स्थायी कोलमात्र: कफात्य्स्यान्मेदोयुक्तात्पुप्पुटस्तालुदेशे ॥१॥
अथ तालुशोषमाह ॥ शोषोऽत्यर्थं दीर्यते चापि तालु श्वासो वातात्तालुशोषो‍ऽयमुक्त: ॥ अथ तालुपाकमाह ॥ पित्तं कुर्यात्पाकमत्यर्थघोरं तालुन्येवं तालुपाकं वदन्ति ॥१॥
इति तालुरोगा: ॥ अघ गलरोगा: ॥ तत्र गलरोगाणां नामानि संख्यां चाह । रोहिणी पञ्चधा प्रोक्ता कण्ठशालूक एव च । अधिजिह्वश्च वलयोऽलासनामैकवृन्दक: ॥१॥
ततो वृन्दं शतघ्नी च गिलायु: कण्ठविद्रधि: । गलौघश्च स्वरघ्नश्च मांसतानस्तथैव च ॥ विदारी कण्ठदेशे तु रोगा अष्टादश स्मृता: ॥२॥
अथ पत्र पञ्चानामपि रोहिणीनां सामान्यां संप्राप्तिमाह ॥ गलेऽनिल: पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसं च तथैव शोणितम्‍ । गलोपसंरोधकरैस्तथाड्कुरैर्निहन्त्यसून्व्याधिरयं तु रोहिणी ॥१॥
अथ तत्र वातजालक्षणमाह ॥ जिह्वाअ समन्तादृशवेदनास्तु मांसाड्कुरा: कण्ठनोरोधना: स्यु: । सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्रवगाढजुष्टा ॥१॥
अथ पित्तजामाह ॥ क्षिप्रोद्रमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजाता ॥१॥
अथ श्लेष्मजामाह ॥ स्त्रोतोनिरोधिन्यपि मन्दपाका गुरुस्थिरा सा कफसंभवा तु ॥१॥
=====================
अथ सन्निपातजामाह ॥
गम्मीरपाकिन्यनिवार्यवीर्या त्रिदोषलिड्गा त्रिभवा भवेत्सा ॥१॥
अथ रक्तजामाह ॥ स्फोटैश्चिता पित्तसमानलिड्गा साध्या प्रदिष्टा रुधिरात्मिका तु ॥१॥
सद्यखिदोषजा हन्ति त्र्यहात्कफसमुद्भवा । पश्चाहात्पित्तसंभूता सप्ताहात्पवनोत्थिता ॥२॥
अथ कण्ठशालूकमाह ॥ कोलस्थितमात्र: कफसंभवो योग्रन्थिर्गले कण्टकशूकभूत: । खर: स्थिर: शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति ब्रुवन्ति ॥१॥
अथाधिजिह्वमाह ॥ जिह्वाग्ररुप: श्वयथु: कफात्तु जिह्वोपरिष्टादसृजैव मिश्रात्‍ । ज्ञेयोऽधिजिह्व: खलु रोग एष विवर्जयेदागतपाकमेनम्‍ ॥१॥
अथ वलयमाह ॥ बलास एवायतमुन्नतं च शोथं करोत्यन्नगतिं निवार्य । तं सर्वथैवाप्रतिवार्यवीर्यं विवर्जनीयं वलयं वदन्ति ॥१॥
अथालासमाह ॥ गले तु शोथं कुरुत: प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम्‍ । मर्मच्छिदं दुस्तरमेनमाहुरलाससंज्ञं भिषजो विकारम्‍ ॥१॥
अथैकवृन्दमाह ॥ वृत्तोन्नतोऽन्त: श्वयथु: सदाह: सकण्डुरोऽपाक्यमृदुर्गुरुश्च । नाम्नैकवृन्द: परिकीर्तितोऽसौ व्याधिबलासक्षतजप्रसूत: ॥१॥
अथ वृन्दमाह ॥ समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति । तच्चापि पित्तक्षतजप्रकोपाद्विद्यात्सतोदं पवनात्मकं तु ॥१॥
अथ शतघ्नीमाह ॥ वर्तिर्घना कण्ठनिरोधिनी या चितातिमात्रं पिशितप्ररोहै: । अनेकरुकप्राणहरा त्रिदोषाज्ज्ञेया शतघ्नीसद्दशी शतघ्नी ॥१॥
अथ गिलायुमाह ॥ ग्रन्थिर्गले त्वामलकास्थिमात्र: स्थिरोऽल्परुक्‍ स्यात्कफरक्तमूर्ति: । संलक्ष्यते सक्तमिवाशितं च स शस्त्रसाध्यस्तु गिलासंयुज्ञ: ॥१॥
अथ गलविद्रधिमाह ॥ सर्वं गलं व्याप्य समुत्थितो य: शोफो रुज: सन्ति च यत्र सर्वा: । स सर्वदोषैर्गलविद्रधिस्तु तस्यैव तुल्य: खलु सर्वजस्य ॥१॥
अथ गलौघमाह ॥ शोथो महानन्नजलावरोधी तीव्रज्वरो वायुगतेर्निहन्ता । कफेन जातो रुधिरान्वितेन गले गलौघ: परिकीर्त्यतेऽसौ ॥१॥
अथ स्वरघ्नमाह ॥ यस्ताम्यमान: श्वसिति प्रसक्तं भिन्नस्वर: शुष्कविमुक्तकण्ठ: । कफोपदिग्धेष्वनिलायनेषु ज्ञेय: स रोग: श्वसनात्स्वरघ्न: ॥१॥
अथ मांसतानमाह ॥ प्रतावान्‍ य: श्वयथु: सुकष्ठो गलोपरोधं कुरुते क्रमेण । स मांसतान: कथितोऽवलम्बी प्राणप्रणुत्सर्वकृतो विकार: ॥१॥
अथ विदारीफलमाह ॥ सदाहतोदं श्वयथुं प्रसक्तमन्तर्गले पूतिविशिर्णमांसम्‍ । पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात्स तु येन शेते ॥१॥
इति गलरोगा: ॥ अथ समस्तमुखरोगा: ॥ तत्र तेषां निदानं संख्यां चाह ॥ पृथग्दोषैस्त्रयो रोगा: समस्तमुखजा: स्मृता: ॥१॥
अथ तत्र वातिकस्य लक्षणमाह ॥ स्फोटै: सतोदैर्वदनं समन्ताद्यस्याचितं सर्वसर: स वातात्‍ ॥१॥
अथ पैत्तिकमाह ॥ रक्तै: सदाहैस्तनुभि: मुपीतैर्यस्याचितं वापि स पित्तकोपात्‍ ॥१॥
अथ श्लैष्मिकमाह ॥ अवेदनै: कण्डुयुतै: सवर्णैर्यस्याचितं वापि स वै कफेन ॥१॥
अथ कैश्चिन्मुखपाकरोग एक एव प्रदिष्ट: ॥ रक्तेन पित्तोदित एक एव कैश्चित्प्रदिष्टो मुखपाकरोग: ॥१॥
अथ मुखरोगेष्वसाध्यानाह ॥ ओष्ठप्रकोपे वर्ज्या: स्युर्मांसरक्तत्रिदोषजा: । दन्तवेष्टेषु वर्ज्यौ तु त्रिलिड्गतिसौषिरौ ॥१॥
दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जना: । जिह्वारोगेष्वलासस्तु तालुजेष्वर्बुदं तथा ॥२॥
स्वरघ्नो वलयो वृन्दो बलास: सविदारिक: । गलौघो मांसतानश्च शतघ्नी रोहिणी गले ॥३॥
असाध्या: कीर्तिता ह्येते रोगा दश नवोत्तरा: । तेषु चापि क्रियां वैद्य: प्रत्याख्याय समाचरेत्‍ ॥४॥
इति समस्तमुखरोगा: ॥
====

॥ अथ मुखरोगाणां चिकित्सा ॥
तत्रौष्ठरोगेषु । गलदन्तमूलदशनच्छ्देषु रोगा: कफासृगभूयिष्ठा: । तस्मादेतेष्वसकृद्रुधिरं विस्त्रावयेद्दुष्टम्‍ ॥१॥
इति भावप्रकाशात्‍ ॥ अथ वातजे ॥ स्नेहांस्तथोष्णान्‍ परिषेकलेपान्घृतस्य पानं रसभोजनं च । अभ्यञ्जनस्वेदनलेपनं तदोष्ठे विदध्यात्पवनाभिभूते ॥१॥
तैलं घृतं सर्जरसं ससिक्थं रास्नागुडं सैन्धवगैरिकं च । पक्त्वा समांशं दशनच्छदानां त्वगभेदहन्तृ व्रणरोपणं च ॥२॥
रालं मधूच्छिष्टगुडेन पक्वं तैलं घृतं वा विनिहन्ति लेपात्‍ । त्वकतोदपारुष्यरुजोऽधरस्य पूयास्त्रसंस्त्रावमपि प्रसह्य ॥३॥
अथ पित्तजे ॥ वेधं शिराणां वमनं विरेकं तिक्तस्य पानं रसभोजनं च । शीता: प्रदेहा: परिषेचनं च पित्तोपसृष्टिष्वधरेषु कुर्यात्‍ ॥१॥
अथ कफजे ॥ शिरोविरेचनं धूम: स्वेद: कवल एव च । हृते रक्ते प्रयोक्तव्य ओष्ठकोपे कफात्मके ॥१॥
मेदोजे स्वेदिते भिन्ने शोधिते कवलो हित: । प्रियड्गुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम्‍ ॥२॥
अथ प्रतिसारणस्य विधिमाह ॥ दन्तजिह्वामुखानां यच्चूर्णकल्कावलेहकै: । शनैर्घर्षणमड्गुल्या तदुक्तं प्रतिसारणम्‍ ॥१॥
ओष्ठरोगेष्वशेषेषुय द्दष्ट्वा दोषमुपाचरेत्‍ । तेषु व्रणत्वं यातेषु व्रणवत्समुपाचरेत्‍ ॥२॥
इत्योष्ठरोगचिकित्सा ॥ अथ दन्तमूलरोगाणां चिकित्सा ॥ दन्तमूलसमुत्थेषु दन्तोत्थेषु गदेषु च । रक्तमोक्षं प्रशंसन्ति जलौकालाबुशृड्गकै: ॥१॥
अथ शीतादस्य चि० ॥ शीतादेऽस्त्रस्त्रुतिं कुर्यात्तथा गण्डूषधारणम्‍ । शुण्ठीपर्पटकक्वाथै: कवोष्णैश्च मुहुर्मुहु: ॥१॥
इति योगतरड्गिण्या: ॥ शीतादे हृतरक्ते तु तोयं नागरसर्षपान्‍ । निषक्वाथ्य त्रिफलां चापि कुर्याद्गण्डूषधारणम्‍ ॥१॥
इति भावप्रकाशात्‍ ॥ कासीसलोध्रकृष्णामन: शिलासप्रियड्गुतेजोह्वा: । एषां चूर्णं मधुयुक्‍ शीतादे पूतिमांसहरम्‍ ॥ तैलं घृतं वा वातघ्नं शीतादे संप्रशस्यते ॥१॥
अथ दन्तपुप्पुटकस्य चिकित्सा ॥ दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम्‍ । सपञ्चलवणक्षारै: सक्षौद्रै: प्रतिसारणम्‍ ॥१॥
अथ दन्तवेष्टस्य चिकित्सा ॥ दन्तवेष्टे विधि: कार्यो रक्तपित्तनिबर्हण: । शिरोविरेकश्च हितो नस्यं स्निग्धं च भोजनम्‍ ॥१॥
विस्त्राविते दन्तवेष्टे व्रणं तु प्रतिसारयेत्‍ । लोध्रपत्तड्गमधुकलाक्षाचूर्णैर्मधुप्लुतै: ॥२॥
गण्डूषे क्षीरिणो योज्या: सक्षौद्रघृतशर्करा: । चलद्‍दन्तस्थैर्यकरं कार्यं बकुलचर्वणम्‍ ॥३॥
अथ भद्रमुस्तादिवटिका ॥ भद्रमुस्ताभयाव्योषविडड्गारिष्टपल्लवै: । गोमूत्रपिष्टैर्गुटिकां छायाशुष्कां प्रकल्पयेत्‍ ॥१॥
तां निधाय मुखे स्वप्याच्चलदन्तातुरो नर: । नात: परतरं किञ्चिच्चलदन्तस्य भेषजम्‍ ॥२॥
अथ सहाचरादितैलम्‍ ॥ तुलां धृतां नीलसहाचरस्य द्रोणेऽम्भस: संश्रपयेद्यथावत्‍ । ततश्चतुर्भागरसे तु तैलं पचेच्छनैरर्धपलप्रमाणै: ॥१॥
कल्कैरनन्ताखदिरारिमेदजम्ब्वाम्रयष्टीमधुकोत्पलानाम्‍ । ततैलमाश्वेव धृतं मुखेन स्थैर्यं द्विजानां विदधाति सद्य: ॥२॥
इति सहाचरादितैलं भावप्रकाशात्‍ ॥ अथ जीरकाद्यं चूर्णम्‍ ॥ जरणलवणपथ्याशाल्मलीकण्टकानामनुदिनमनु घृष्टं दन्तमूलेषु चूर्णम्‍ । व्रणदरणरुगस्त्रस्त्रावचाञ्चल्यशोथानपनयति विवस्वानन्धकारानिवाशु ॥१॥
अथ कणाद्यं चूर्णम्‍ ॥ कणासिन्धूत्थजरणचूर्णं तूर्णं व्यपोहति । घर्षणाद्दन्तचाञ्चल्यव्यथाशोथास्त्रसंस्त्रवात्‍ ॥१॥
अथ दशमूलादितैलघृते ॥ दशमूलीकपाषेण तैलं वा घृतमेव वा । विपक्वं केवलं शस्तं सक्षौद्रं दन्तचालने ॥१॥
इति दन्तवेष्टरोगचिकित्सा ॥ अथ सौषिरस्य ॥ सौषिरे हृतरक्ते तु लोध्रमुस्तारसाञ्जनै: । सक्षौद्रै: शस्यते लेपो गण्डूषे क्षीरिणो हिता: ॥१॥
अथ परिदरोपकुशयोश्चिकित्सा ॥ क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षण: । संशोध्योभयत: कायं शिरश्चोपकुशे तथा ॥१॥
काकोदुम्बरिकापत्रैर्व्रणं विस्त्रावयेद्भिषक्‍ । लवणै: क्षौद्रयुक्तैश्च सव्योषै: प्रतिसारयेत्‍ ॥२॥
अथ वैदर्भखलिवर्धनाधिमांसकदन्तविद्रधिरोगाणां चिकित्सामाह ॥ शस्त्रेणोत्कृत्य वैदर्भं दन्तमूलानि शोधयेत्‍ । तत: क्षारं प्रयुञ्जीत क्रिया:  सर्वाश्च शीतला: ॥१॥
उद्‍धृत्याधिकदन्तं तु ततो‍ग्निमवचारयेत्‍ । कृमिदन्तकवच्चात्र विधि: कार्यो विजानता ॥२॥
छित्वाधिमासं सक्षौद्रैरेतैश्चूर्णैरुपाचरेत्‍ । वचातेजोवतीपाठास्वर्जिकायावशूखजै: ॥३॥
क्षौद्रद्वितीयपिप्पल्य: कवले चात्र कीर्तिता: । पटोलनिम्बत्रिफलाकषायश्चात्र धावन: ॥४॥
विद्रध्युक्तं च विधिवद्‍ विदध्याद्दन्तविद्रधौ । शस्त्रकर्म नरस्तत्र कुशलेनैव कारयेत्‍ ॥५॥
नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत्‍ । यद्दन्तमध्ये जायेत नाडी दन्तं तमुद्धरेत्‍ ॥६॥
छित्वा मांसानि शस्त्रेण यदि नोपरमो भवेत्‍ । उद्‍धृत्य च दहेच्चापि क्षारेण ज्वलनेन वा ॥७॥
भिनत्युपेक्षिते दन्ते हनुं सास्थिगतिर्धुवम्‍ । उद्‍धृते तूत्तरे दन्ते शोणितं प्रस्त्रवेदति ॥८॥
रक्तातिसेकात्पूर्वोक्ता घोरा रोगा भवन्ति हि । काण: संजायते जन्तुरर्दितं तस्य जायते ॥९॥
चलमप्युत्तरं दन्तमतो नैवोद्धरेद्भिषक्‍ । समूलं दशनं तस्मादुद्धरेद्भग्रमस्थि च ॥१०॥
अथ जात्यादितैलम्‍ ॥ कषायैर्जातिमदनकण्टकीस्वादुकण्टकै: । मञ्जिष्ठालोध्रखदिरयष्ट्यह्वैश्चापि यत्कृतम्‍ । तैलं यत्साधितं तत्र हन्याद्दन्तगतां गतिम्‍ ॥१॥
अथ दन्तरोगाणां चिकित्सा ॥ दन्तरोगेषु सर्वेषु शस्तो वातहरो विधि: । पक्वं तैलं कवोष्णं च शस्तं कवलधारणे ॥१॥
जयेद्विस्त्रावणै: स्विन्नमचलं कृमिदन्तकम्‍ । तथावपीडैर्वातघ्नै: स्नेहगण्डूषधारणै: ॥२॥
भद्रदार्वादिवर्षाभूलेपै: स्निग्धैश्च भोजनै: । कृमिदन्तापहं कोष्णं हिड्गु दन्ताम्बरे स्थितम्‍ ॥३॥
बृहतीभूमिकादम्बीपञ्चाड्गुलकण्टकारिकाक्वाथ: । गण्डूषस्तैलयुत: कृमिदन्तकवेदनाशमक: ॥४॥
नीलीवायसजड्घाकटुतुम्बीमूलमेकैकम्‍ । संचूर्ण्य दशनविधृतं दशनकृमिपातनं प्राहु: ॥५॥
पिष्ट्वा च सारिवापर्णं दृढं दन्तेषु धारयेत्‍ । पतन्ति दन्तकीटाश्च चाञ्चल्यं हरति क्षणात्‍ ॥२॥
इति वैद्यविलासात्‍ ॥ कासीसं हिड्गु सौराष्ट्री देवदारु समं जलै: । गुटिकां धारयेद्‍ दन्तकृमिशूलहरं परम्‍ ॥१॥
इति चिकित्सासारात्‍ ॥ अथ दन्तहर्षचिकित्सा ॥ स्नेहानां कवला: कोष्णा: सर्पिषास्त्रिवृत्तस्य च । निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दना: ॥१॥
स्नैहिकोऽत्र हितो धूमो नस्थं स्नैहिकमेव च । रसा रसयवाग्वश्च क्षीरं सन्तानिकाघृतम्‍ ॥ शिरोबस्तिर्हितश्चापि क्रमो यश्चानिलापह: ॥२॥
अच्छिद्य दन्तमूलानि शर्करामुद्धरेद्भिषक्‍ । लाक्षाचूर्णैर्मधुयुतैस्ततस्तां प्रतिसारयेत्‍ ॥३॥
दन्तहर्षक्रियां चात्र कुर्यान्निरवशेषित: । कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता ॥४॥
अथ सामान्यचिकित्सा । अरिमेदत्वचं क्षुण्णां पचेच्छतपलोन्मिताम्‍ । जलद्रोणेन तत्क्वाथं गृह्वीयात्पादशेषिताम्‍ ॥१॥
तैलस्यार्धाढकं दत्वा कल्कै: कर्षमितै: पचेत्‍ । अरिमेदलवड्गाभ्यां गैरिकागुरुपद्मकै: ॥२॥
मञ्जिष्ठालोध्रमधुकैर्लाक्षान्यग्रोधमुस्तकै: । त्वगजातीपलकर्पूरकक्कोलखदिरैस्तथा ॥३॥
पत्तड्गघातकीपुष्पसूक्ष्मैलानागकेशरै: । कट्‍फलेन च संसिद्धं तैलं मुखरुजं जयेत्‍ ॥४॥
प्रदुष्टमांसचलितं शीर्णं दन्तं च सौषिरम्‍ । शीतादं दन्तहर्षं च विद्रधिं कृमिदन्तकम्‍ ॥ दन्तस्फुटनदौर्गन्ध्यं जिह्वाताल्वोष्ठजां रुजम्‍ ॥५॥
इत्यरिमेदादि तैलं भावप्रकाशात्‍ ॥ अथ लाक्षादितैलम्‍ ॥ तैलं लाक्षारसं क्षीरं पृथक्‍ प्रस्थमितं पचेत्‍ । द्रव्यै: पलमितैरेतै: क्वाथैश्चापि चतुर्गुणै: ॥१॥
लोध्रकट्‍फलमञ्जिष्ठापद्मकेसरपद्मकै: । चन्दनोत्पलयष्टयाह्वैस्तत्तैलं वदने घृतम्‍ ॥२॥
दालनं दन्तचालं च दन्तमोक्षकपालिकाम्‍ । शीतादं पूतिवक्त्रं च विरुचिं विरसास्यताम्‍ ॥३॥
हन्यादाशु गदानेतान्कुर्याद्दन्तानपि स्थिरान्‍ । लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम्‍ ॥४॥
इति लाक्षादितैलम्‍ ॥ अथ कुष्ठादिचूर्णम्‍ ॥ कुष्ठं दार्वी लोध्रमब्दं समड्गा पाठा तिक्ता तेजनी पीतिका च । चूर्णं शस्तं घर्षणे तद्‍द्विजानां रक्तस्त्रावं हन्ति कण्डूरजं च ॥१॥
सौराष्ट्रीत्रिफलामदत्रुटिकृमिद्विट्‍तुत्थपत्राड्गकं कासीसं खदिरस्य सारममलं मायाफलं चायसम्‍ । जीमूतं च समांशकं हि सकलं संकुट्य वस्त्रे भृशं पूतं तोययुतं रदेषु रदरुग्विच्छित्तिकृद्‍घृष्टकम्‍ ॥२॥
छिन्नया पिष्टया वारा दन्तशूलो विनश्यति । स्वेदिता रवितोयेन चलता नाशयेद्‍ध्रुवम्‍ ॥३॥
अथ जातीपत्रादिचूर्णम्‍ ॥ जातीपत्रपुनर्नवागजकणाकोरण्टकुष्ठं वचा शुण्ठीदीप्यहरीतकीतिलसमं श्लक्ष्णं भृशं चूर्णयेत्‍ । तच्चूर्णं वदने धृतं विजयते दौर्गन्ध्यदन्तव्यथां चाञ्चल्यत्वमतिव्रणश्वयथुरुक्‍कण्डूकृमिव्यापद: ॥१॥
फलान्यम्लानि शीताम्बु रुक्षान्नं दन्तधावनम्‍ । तथातिकठिनं भक्ष्यं दन्तरोगी विवर्जयेत्‍ ॥२॥
इति दन्तरोगचिकित्सा ॥ अथ जिह्वारोगाणां चिकित्सामाह ॥ जिह्वागतविकाराणां शस्तं शोणितमोक्षणम्‍ । गुडूचीपिप्पलीनिम्बकवल: कटुभि: मुख: ॥१॥
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक्‍ चिकित्सितम्‍ । कण्टकेष्वनिलोत्थेषु तत्कार्यं भिषजा खलु ॥२॥
पित्तजेषु विघृष्टेषु नि:सृते दुष्टशोणिते । प्रतिसारण गण्डूषनस्यं च मधुरं हितम्‍ ॥३॥
उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत्‍ । शिरोविरकगण्डूषधूमैश्चैनामुपाचरेत्‍ ॥४॥
व्योषक्षाराभयावह्निचूर्णमेतत्प्रघर्षणम्‍ । उपजिह्वाप्रशान्त्यर्थमेभिस्तैलं च पाचयेत्‍ ॥५॥
गृहधूमारनालेन क्वाथं समधुसैन्ध्वम्‍  । पाणिना मर्दयेच्चास्ये उपजिह्वाप्रशान्तये ॥६॥
निर्गुण्डीमुसलीकन्दं चर्वयेदुपजिह्वजित्‍ । काञ्चनारत्वच: क्वाथ: प्रातरास्ये धृत: सुख: ॥ कुर्यात्सखदिरो जिह्वादरणोन्मूलनं मुहु: ॥७॥
इति जिह्वारोगचिकित्सा ॥ अथ तालुरोगाणां चिकित्सा ॥ युञ्ज्यात्कफहरं शुण्ठ्यां रसं गण्डूषधारणे । कुष्ठोषणवचासिन्धुकणापाठाप्लवै: सह ॥१॥
सक्षौद्रेर्भिषजा कार्यं गलशुण्डीप्रघर्षणम्‍ । अड्गुष्ठाड्गुलिसन्दंशेनाकृष्य गलशुण्डिकाम्‍ ॥२॥
छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम्‍ । अतिच्छेदात्स्त्रवेद्रक्तं ततो हेतोर्म्रियेत च ॥३॥
हीनच्छेदात्भवेच्छोथो लालास्त्रावो भ्रमस्तथा । तस्माद्वैद्य: प्रयत्नेन दृष्टकर्मा विशारद: ॥४॥
गलशुण्डीं तु संछिद्य कुर्यात्‍ प्राप्तमिमं क्रमम्‍ । पिप्पल्यतिविषाकुष्ठवचामरिचनागरै: ॥५॥
क्षौद्रयुक्तै: सलवणैस्ततस्तां प्रतिसारयेत्‍ । तुण्डीकेर्यध्रुवे कूर्मे संघाते तालुपुप्पुटे ॥६॥
एष एव विधि: कार्यो विशेष; शस्त्रकर्मणि । तालुपाके तु कर्तव्यं विधानं पित्तनाशनम्‍ ॥
स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशन: ॥७॥
इति तालुरोगाणां चिकित्सा ॥ अथ गलरोगाणां चिकित्सा ॥ रोहिणीनां तु साध्यानां हितं शोणितमोक्षणम्‍ । वमनं धूमपानं च गण्डूषो नस्यकर्म च ॥१॥
वातजां तु हृते रक्ते लवणै: प्रतिसारयेत्‍ । सुखोष्णास्नेहगण्डूषान्‍ धारयेच्चाप्यभीक्ष्णश: ॥२॥
विस्त्राव्य पित्तसंभूतां सिताक्षौद्रप्रियड्गुभि: । घर्षयेत्कक्लो द्राक्षापरुषै: क्वथितैर्हित: ॥३॥
अंगारधूमकटुकै: कफजां प्रतिसारयेत्‍ । श्वेताविडड्गदन्तीषु तैलं सिद्धं ससैन्धवम्‍ ॥४॥
नस्यकर्मणि दातव्यं कवलं च कफोच्छ्रये । पित्तवत्साधयेद्वैद्यो रोहिणीं रक्तसंभवाम्‍ ॥५॥
विस्त्राव्य कण्टशालूकं साधयेत्‍ तुण्डिकेरिवत्‍ । एककाले यवान्नं च भुञ्जीत स्निग्धमल्पश: ॥६॥
उपजिह्वकवचापि साधयेदधिजिह्वकम्‍ । एकवृन्दं च समुपाचरेत्‍ । गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत्‍ ॥ अमर्मस्थं सुसंपक्वं छेदयेद्गलविद्रधिम्‍ ॥८॥
अथ सामान्यानां गलरोगाणां चिकित्सा ॥ कण्ठरोगेष्वसृग्मोक्षैस्तीक्ष्णैर्नस्यादिकर्मभि: । चिकित्सकाश्चिकित्सां तु कुशलोऽत्र समाचरेत्‍ ॥१॥
क्वाथं दद्याच्च दार्वीत्वग्निम्बुतार्क्ष्यकलिड्गजम्‍ । हरीतकीकषायो वा हितो माक्षिकसंयुत: ॥२॥
कटुकातिविषादारुपाठामुस्ताकलिड्गका: । गोमूत्रक्वथिता: पीता: कण्ठरोगविनाशना: ॥३॥
मृद्वीकाकटुकाव्योषदार्वीत्वक्‍त्रिफला घनम्‍ । पाठा रसाञ्जनं दूर्वा तेजोह्वेति सुचूर्णितम्‍ ॥४॥
क्षौद्रयुक्तं विधातव्यं गलरोगे महौषधम्‍ । योगास्त्वेते त्रय: प्रोक्ता वातपित्तकफापहा: ॥५॥
यवाग्रजं तेजवतीं सपाठां रसाञ्जनं दारुनिशां सकृष्णाम्‍ । क्षौद्रेण कुर्यात्तद्रुटिकां मुखेन तां धारयेत्सर्वगलामयेषु ॥६॥
इति गलरोगाणां चिकित्सा ॥ अथ समस्त्मुखरोगाणां चिकित्सा ॥ वातात्सर्वसरं चूर्णैर्लवणै: प्रतिसारयेत्‍ । तैलं वातहरै: सिद्धं हितं कवलनस्ययो: ॥१॥
पित्तात्मके सर्वसरे शुद्धकायस्य देहिन: । सर्वपित्तहर: कार्यो विधिर्मधुरशीतल: ॥२॥
प्रतिसारणगण्डूषधूमसंशोधनानि च । कफात्मके सर्वसरे क्रमं कुर्यात्कफापहम्‍ ॥३॥
इति सर्वसरोपक्रम: ॥ मुखपाके शिरवेध: शिरसश्च विरेचनम्‍ । मधुमूत्रघृतक्षीरै: शीतैश्च कवलग्रह: ॥१॥
जातीपत्रामृताद्राक्षायासदार्वीफलत्रिकै: । क्वाथ: क्षौद्रयुतं शीतो गण्डूषो मुखपाकनुत्‍ ॥२॥
कार्यं च बहुधा नित्यं जातीपत्रस्य चर्वणम्‍ । कृष्णजीरककुष्ठेन्द्रयवचर्वणतस्त्र्यहात्‍ ॥३॥
मुखपाकव्रणक्लेददौर्गन्ध्यशाम्यति । पटोलनिम्बजम्ब्वाम्रमालतीनवपल्लवै: ॥४॥
पञ्चपल्लवज: श्रेष्ठ: कषायो मुखधावने । पञ्चवल्कलज: क्वाथस्त्रिफलासंभवोऽथवा ॥५॥
मुखपाके प्रयोक्तव्य: सक्षौद्रो मुखधावने । स्वरस: क्वथितो दार्व्या घनीभूतो रसक्रिया ॥ सक्षौद्रो मुखरोगासृगदोषनाडीव्रणापह: ॥६॥
सप्तच्छदोशीरपटोलमुस्तहरीतकीतिक्तकरोहिणीभि: । यष्ट्याह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत्पाकहरं मुखस्य ॥७॥
पटोलशुण्ठीत्रिफलाविशालात्रायान्तितिक्ताद्विनिशामृतानाम्‍ । पीत: कषायो मधुना निहन्ति मुखे स्थितश्चास्यगदानशेषान्‍ ॥८॥
तिला नीलोत्पलं सर्पि: सर्करा क्षीरमेव च । सलोध्रो दिग्धक‍त्रस्य गण्डूषो दाहनाशन: ॥९॥
अथ हरिद्रा तैलम्‍ ॥ हरिद्रानिम्बपत्राणि मधुकं नीलमुत्पलम्‍ । तैलमेभिर्विपक्तव्यं मुखपाकहरं परम्‍ ॥१॥
अथ यष्टीमध्वादितैलम्‍ ॥ यष्टीमधुपलमेकं त्रिंशन्नीलोत्पलस्य तैलस्य । प्रस्थं तदद्विगुणपयो विधिना पक्वं तु नस्येन ॥१॥
निशि वदनस्य स्त्रावं क्षपयति गात्रस्य दोषसंघातम्‍ । वपु:स्वर्णत्वमवश्यं क्रमशोऽभ्यड्गेन जन्तूनाम्‍ ॥२॥
अथ खदिरादिगुटिका ॥ खदिरस्य तुलां तोयद्रोणे पक्त्वाष्टशेषिते । जातीकोशेन्दुपूगैश्च चातुर्जातमृगाण्डजै: ॥१॥
पृथक्कर्षमितै: पिष्टैर्मेलयित्वा चणोपमाम्‍ । गुटीं कृत्वा मुखे धार्या सा निहन्त्यखिलान्‍ गदान्‍ ॥ जिह्वोष्ठदन्तवदनगलतालुसमुद्भवान्‍ ॥२॥
अन्यच्च । तुल्यं खदिरसारस्य त्वेषां चूर्णं विनिक्षिपेत्‍ । जातीकक्कोलकर्पूरक्रमुकानां विचक्षण: ॥ गुटिकास्तु प्रकर्तव्यो मुखे स्थाप्या: सदैव हि ॥१॥
ताम्बूलमध्यस्थितचूर्णकेन दग्धं मुखं यस्य भवेत्कथंचित्‍ । तैलेन गण्डूषमसौ विदध्यादम्लारनालेन पुन: पुनर्वा ॥२॥
इति समस्तमुखरोगाणां चिकित्सा ॥ अथ पथ्यापथ्यविधि: ॥ स्वेदो विरेको वमनं गण्डूष: प्रतिसारणम्‍ । कवलोऽसृकस्त्रुतिर्नस्यं धूम: शस्त्राग्निकर्मणि ॥१॥
तृणधान्यं यवा मुद्गा कुलत्था जाड्गलो रस: । बहुपत्री कारवेल्लं पटोलं बालमूलकम्‍ ॥२॥
कर्पूरनीरं ताम्बूलं तप्ताम्बु खदिरो घृतम्‍ । कटुतिक्तौ च वर्गो‍ऽयं मित्रं स्यान्मुखरोगिणाम्‍ ॥३॥
दन्तकाष्ठं स्नानमम्लं मत्स्यमानूपमामिषम्‍ । दधि क्षीरं गुडं माषं रुक्षान्नं कठिनाशनम्‍ ॥४॥
अधोमुखेन शयनं गुर्वभिष्यन्दकारि च । मुखरोगेषु सर्वेषु दिवा निद्रां च वर्जयेत्‍ ॥५॥
इति पथ्यापथ्यविधि: ॥ इति मुखरोगाधिकार: ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T20:15:51.1000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अवगुंठन

  • n  Enveloping. Veiling, cloaking, muffling up. 
  • न. लपेटणें ; लपविणें ; आच्छादणें ; गुरफटणें ; वेष्टन ; बुरखा ; घुंगट ; ओढणी . [ सं . ] 
RANDOM WORD

Did you know?

जन्मानंतर पाचवी पूजनाचे महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.