TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथात: शोथनिदानं व्याख्यास्याम: ॥

॥ अथात: शोथनिदानं व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


अथात: शोथनिदानं व्याख्यास्याम:
॥ अथात: शोथनिदानं व्याख्यास्याम: ॥
अथ शोथस्य संप्रप्तिपूर्वकं रुपमाह ॥ रक्तपित्तकफान्वायुर्दुष्टो दुष्टान्बहि:शिरा: । नीत्वा रुद्धगतिस्तैर्हि कुर्यान्मांसत्वगाश्रयम्‍ ॥ उत्सेधं संहतं शोफं तमाहुर्निचयादत: ॥१॥
अथ संख्यामाह ॥ सर्वं हेतुविशेषैस्तु रुपभेदान्नवात्मकम्‍ । दोषै: पृथग्‍द्वये: सर्वैराभिघाताद्विषादपि ॥१॥
अथ तस्य पूर्वरुपमाह ॥ तत्पूर्वरुपं दवथु: शिरायामोऽड्गगौरवम्‍ ॥१॥
अथ श्वयथुनिदानम्‍ ॥ शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरुपसेवा । दध्याममृच्छाकविरोधिदुष्टगरोपसृष्टान्ननिषेवणं च ॥१॥
अर्शांस्यचेष्टा न च देहशुद्धिर्मर्माभिघातो विषमा प्रसूति: । मिथ्योपचार: प्रतिकर्मणां च निजस्य हेतु: श्वयथो: प्रदिष्ट: ॥१॥
अथ तस्य सामान्यलक्षणमाह ॥ सगौरवं स्यादनवस्थितत्वं सोत्सेधमूष्माथ शिरातनुत्वम्‍ । सलोमहर्षं च विवर्णता च सामान्यलिड्गं श्वयथौ: प्रदिष्टम्‍ ॥१॥
अथ वातशोथमाह ॥ चलस्तनुत्वक्परुषोऽरुणोऽसित: प्रसुप्तिहर्षार्तियुतो‍ऽनिमित्तत: । प्रशाम्यति प्रोन्नमति प्रपीडितो दिवा बली च श्वयथु: समीरणात्‍ ॥१॥
अथ पैत्तिकमाह ॥ मृदु: सगन्धोऽसितपीतरागवाञ्ज्वरभ्रमस्वेदतृषामदान्वित: । य उच्यते स्पर्शरुगक्षिरागकृत्‍ सपित्तशोफो भ्रृशदाहपाकवान्‍ ॥१॥
अथ कफजमाह ॥ गुरु: स्थिर: पाण्डुररोचकान्वित: प्रसेकनिद्रावमिवह्निमान्द्यकृत्‍ । सकृच्छ्रजन्मप्रशमो निपीडितो न चोन्नमेढ्रात्रिबलीकफात्मक: ॥१॥
सूयन्ते यस्य गात्राणि स्पन्दन्निव रुजन्निव । पीडितात्युन्नमति च वातशोफं तमादिशेत्‍ ॥२॥
यश्चाप्यरुणवर्णाभ: शोफो नक्तं प्रणश्यति । स्नेहोष्णमर्दनाभ्यां च प्रणश्येत्स च वातिक: ॥३॥
य: पीत: सज्वरार्ति: स्याद्दयते च विदह्यते । स्विद्यते क्लिद्यते गन्धि: सपैत्त: श्वयथु: स्मृत: ॥४॥
य: पीतमुखवर्णत्वक्‍ पूर्वमध्यात्प्रसूयते । तनुत्वचातिसारौ च स पैत्त: श्वयथु: स्मृत: ॥५॥
अथ सन्निपातजमाह ॥ सर्वाकृति: सन्निपाताच्छोफो व्यामिश्रहेतुज: ॥१॥
अथाभिघातजमाह ॥ अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभि: । हिमानिलो दध्यनिलैर्भल्लातकपिकच्छुकै: ॥१॥
रसै: शूकैश्च संस्पर्शाच्छ्वयथु: स्याद्विसर्पवान्‍ । भृशोष्मा लोहिताभास: प्रायश: पित्तलक्षण: ॥२॥
अथ विषजलक्षणमाह ॥ विषज: सविषप्राणिपरिसर्पणमूत्रणात्‍ । दंष्ट्रादन्तनखाघातादिविषप्राणिनामपि ॥१॥
विण्मूत्रशुक्रोपहतमलवद्वस्त्रसड्करात्‍ । विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात्‍ ॥ मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकर: ॥२॥
अथ यस्मिन्‍ देशे दोषा: शोथं कुर्वन्ति तमाह ॥ दोषा: श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशयस्थिता: ॥१॥
पक्काशयस्था मध्य तु वर्चस्थानगतास्त्वध: । कृत्स्त्रदेहमनुप्राप्ता: कुर्यू; सर्वसरं तथा ॥२॥
यो मध्यदेशे श्वयथु: सकष्ट: सर्वगश्च य: । अर्धाड्गेऽरिष्टभूतस्याद्यश्चोर्ध्वं परिसर्पति ॥३॥
अथोपद्रवारिष्टस्यासाध्यत्वमाह ॥ श्वास: पिपासा छर्दिश्च दौर्बल्यं ज्वर एव च । तस्य चानेऽरुचिर्न्नास्ति शोथिनं परिवर्जयेत्‍ ॥१॥
उर्ध्वगामी नरं पद्म्द्यामधोगामी स्त्रियं मुखात्‍ । उभयोर्वस्तिसञ्जात: शोफो हन्ति न संशय: ॥२॥
अथ स्थानभेदेन साध्यत्वमाह ॥ अनन्योपद्रवकृत: शोथ: पादसमुद्भव: । पुरुषं हन्ति नारीं तु मुखजो गुह्यजो द्वयम्‍ ॥१॥
अथ साध्यासाध्यलक्षणमाह ॥ श्वास: पिपासा दौर्बल्यं ज्वरच्छर्दिररोचका: । हिक्कातीसारकासाश्च शोथिनं क्षपयन्ति हि ॥२॥
अथ तन्त्रान्तरे ॥ पादप्रवृत्त: श्वयथु: नृणां य: प्राप्नुयान्मुखम्‍ । वक्रादधस्ताद्यो याति बस्तिस्तस्य न सिध्यति ॥३॥
अथ क्षीरपाणिनाप्युक्तम्‍ ॥ ऊर्ध्वगामी नर: पद्‍भ्यामधोगामी मुखात्‍ स्त्रिय: । उभयोर्वस्तिसंजात: शोथो हन्ति न संशय: ॥४॥
छर्दि: श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च । सप्तकोऽयं सदौर्बल्य: ज्वरच्छर्दिविरेचका: ॥ हिक्का श्वासातिसारश्च शोफिनं परिवर्जयेत्‍ ॥५॥
इति शोथनिदानम्‍ ।
====
॥ अथ तच्चिकित्सा ॥
निदानदोषार्तिविपर्ययक्रमैरुपाचरेत्तं बलकादोषवित्‍ । अथामजं लड्घनपाचनक्रमैर्विशोधनैरुल्बणदोषमादित: ॥१॥
शिरोगतं शीर्षविरेचनैरधो विरचनैरुर्ध्वमतस्तथोर्ध्वम्‍ । उपाचरेत्स्नेहभवं विरुक्षणै: स्नेहस्तु रुक्षेण विरुक्ष्यते ध्रुवम्‍ ॥२॥
विबद्धविट्‍कानिलजे निरुहणं घृतं तु पित्तानिलजे सतिक्तकम्‍ । शोथेन मूर्च्छावति दाहकर्षिते विशोधनीयं तु समुन्नमिष्यते ॥३॥
कफोत्थितं क्षारकटूष्णसंयुतै: समूत्रतक्रैस्तु च युक्तिभिर्हरेत्‍ ॥४॥
मुखतो जायते शोथ: स्त्रीणां पुंसां च पादत: । असाध्यो द्वावपि प्रोक्तौ तयो: पुण्यानिवर्तनम्‍ ॥५॥
अथ श्वयथोर्वातादिभेदविशेषचिकित्सा ॥ शोथे वातोत्थिते पूर्वं मासार्धं त्रिवृतं पिबेत्‍ ॥१॥
तैलमेरण्डजं वापि मलबन्धेऽपि तन्मतम्‍ । शाल्यन्नं पयसा युक्तं रसैर्वापि प्रयोजयेत्‍ ॥ स्वेदाभ्यड्गांश्च वा तघ्नान्सेकलेपांश्च कल्पितान्‍ ॥२॥
अथ शुण्ठ्यादिक्वाथ: ॥ शुण्ठीपुनर्नवैरण्डापञ्चमूलशृतं  जलम्‍ । वातिके श्वयथो पेयं भुक्तपाकेऽपि तन्मतम्‍ ॥१॥
अथ बीजपूरादिलेप: ॥ बीजपूरजटाहिंस्त्रादेवदारुमहौषधम्‍ । रास्त्राग्निमन्थलेपोऽयं वातशोथविनाशन: ॥१॥
इति वातशोथचिकित्सा ॥ अथ पित्तशोथे ॥ क्षीराशिन: पित्तकृतेऽतिशोफे त्रिवृद्‍गुडूचीत्रिफलाकषायम्‍ । पिबेद्‍ गवां मूत्रविमिश्रितं वा फलत्रिकाचूर्णमथाक्षमात्रम्‍ ॥१॥
अथ पटोलदिक्वाथ: ॥ पटोलत्रिफलारिष्टदार्वीक्वाथ: सगुग्गुलु: । हन्ति पित्तभवं शोथं तृष्णाज्वरसमन्वितम्‍ ॥१॥
इति पित्तशोथचिकित्सा ॥ अथ कफशोथे पुनर्नवाविश्वत्रिवृद्‍गुडूचीशम्याकपथ्यासुरदारुदारुकल्कम्‍ । शोफे कफोत्थे‍ऽक्षसमं समूत्रं क्वाथं पिबेद्वाप्यथ चैव तेषाम्‍ ॥१॥
अथ पुनर्नवावलेह: ॥ पुनर्नवामृतादारुदशमूलरसाढके ॥ आर्द्रकस्य रसप्रस्थे गुडस्य च तुलां पचेत्‍ ॥१॥
तत्सिद्धं व्योषपत्रैलात्वक्‍पत्रै: कर्षिकै: पृथक्‍ ॥ चूर्णीकृतैर्लिहेच्छीते मधुन: कुडवं क्षिपेत्‍ ॥२॥
लेह: पुनर्नवो नाम श्लेष्मशोफनिषूदन: । श्वासकासारुचिहरो बलपुष्ट्यग्निवर्धन: ॥३॥
अथारग्वधातितैलम्‍ ॥ कफोत्थेऽत्र पिबेत्तैलं सिद्धमारग्वधादिना । मन्दे‍ऽग्रौ स्तिमिते कोष्ठे स्त्रोतोरोधेऽरुचावपि ॥ क्षारमूत्रासवारिष्टचूर्णं तक्रे नियोजयेत्‍ ॥१॥
इति कफशोथचिकित्सा ॥ अथ त्रिदोषजे मिश्रे च ॥ मिश्रे मिश्रक्रमं च निदिग्धिकानागरचित्रकैश्च । रजन्यय:पिप्पलिमूलपाठामुस्तं च चूर्णं सुखतोयपीतम्‍ ॥ कल्कश्च भूनिम्बमहौषधाभ्यां हन्यान्त्रिदोषं चिरजं च शोफम्‍ ॥१॥
अथार्द्रकरसादियोग: ॥ रसैस्ततैवार्द्रकनागरस्य पेयोऽथ जीर्णे पयसाथ मद्यात्‍ । शिलाह्वयं वा त्रिफलारसेन हन्यान्त्रिदोषं श्वयथुं प्रसह्य ॥१॥
इति त्रिदोषजमिश्रचिकित्सा ॥ अथागन्तुजे विषजे च ॥ शोफे चागन्तुजे कुर्यात्सेकलेपादिशीतलम्‍ । भल्लातकभवे शोफे सतिलाकृष्णमृत्तिका ॥१॥
नवनीततिलालेपादथ दुग्धं तिलान्वितम्‍ । यष्टिदुग्धतिलैर्लेपो नवनीतेन संयुत: ॥ शोफमारुष्करं हन्ति चूर्णं शालदलस्य वा ॥२॥
इत्यागन्तुकविषचिकित्सा ॥
====
॥ अथ सामान्यविधि: ॥
अथ बिल्वपत्रस्वरस: ॥ बिल्वपत्ररस: पीत: शोषण: श्वयतौ रुजि । विट्‍सड्गे चैव दुर्नाम्नि विषूच्यां कामलास्वपि ॥१॥
अथ भूनिम्बादिकल्क: ॥ भूनिम्बविश्वकल्कं जग्ध्वा पीत: पुनर्नवाक्वाथ: । अपहरति नियतमाशु श्वयुथं सर्वाड्गजं नृणाम्‍ ॥२॥
अथ क्वाथा: निपीतो दरपाणिपादवक्राश्रितं हन्त्यचिरेण शोफम्‍ ॥१॥
अथ त्रिफलादिक्वाथ: ॥ त्रिफलाक्वाथपानं हि महिषीसर्पिषा सह । हन्ति शोफं प्रमेह चं नाडीव्रणभगन्दरम्‍ ॥१॥
अथ सिंहास्यादि: ॥ सिंहास्यामृतभण्टाकीक्वाथं पीत्वा समाक्षिकम्‍ । कृच्छ्रशोधं जयेज्जन्तु: कासं श्वासं ज्वरं वमिम्‍ ॥१॥
अथ चूर्णानि ॥ तत्रादौ पिप्पल्यादि ॥ कृष्णाग्निविश्वघनजीरककण्टकारीपाठानिशाकरिकणामगधाजटानाम्‍ । चूर्णं कवोष्णसलिलेन विलोडय पीतं नात: परं श्वयथुरोगहरं नराणाम्‍ ॥१॥

अथ गुडाद्यं चूर्णम्‍ ॥ गुडपिप्पलिशुण्ठीनां चूर्णं श्वयथुनाशनम्‍  आमाजीर्णप्रशमनं शूलघ्नं वस्तिशोधनम्‍ ॥१॥
अथान्यच्च ॥ गुडात्पलत्रयं ग्राह्यं शृड्गबेरं पलत्रयम्‍ । शृड्गबेरसमा कृष्णा लोहकिट्टायसो: पलम्‍ ॥ चूर्णमेतत्समुद्दिष्टं सर्वश्वयथुनाशनम्‍ ॥१॥
अथ पुनर्नवाद्यं चूर्णम्‍ ॥ पुनर्नवा दार्व्यमृतापाठा विश्वश्वदंष्ट्रिका । रजन्यौ द्वे बृहत्यौ च पिप्पल्यश्चित्रकं वृष: ॥१॥
समभागानि संचूर्ण्य गवां मूत्रेण वा पिबेत्‍ । बहुप्रकारं श्वयथुं सर्वगात्रावसारिणम्‍ ॥ हन्ति चाशूदराण्यष्टौ व्रणांश्वैवोद्धतानपि ॥२॥
अथ विड्ड्गादि ॥ विडड्गदन्तीकटुकात्रिवृच्चित्रकदारव: । व्योष: सकृष्णा त्रिफला समा देया ह्ययोरज: । द्विगुणं तत्पिबेच्चूर्णं पयसा शोफशान्तये ॥१॥
अथ गुडार्द्रकादियोग: ॥ गुडार्द्रकं वा गुडनागरं वा गुडाभयां वा गुडपिप्पलीं वा । कर्षाभिवृद्ध्या त्रिफलप्रमाणं खादेन्नर: पथ्यमथापि मासम्‍ ॥१॥
शोफप्रतिश्यायगलास्यरोगान्सश्वासकासारुचिपीनसादीन्‍ । जीर्णज्वरार्शोग्रहणीविकारान्‍ हन्यात्तथान्यानपि वातरोगान्‍ ॥२॥
अथ पुनर्नवदियोग: ॥ पुनर्नवामूलकदेवदारुच्छिन्नोद्भवाचित्रकमूलसिद्धा: । रसा यवागूश्च पयांसि यूषा: शोफे प्रदेया दशमूलगर्भा: ॥१॥
अथ क्षीरम्‍ ॥ क्षीरं शोफहरं दारुवर्षाभूनागरै: शृतम्‍ । पेयं वा चित्रकं व्योषत्रिवृद्दारुप्रसाधितम्‍ ॥१॥
अथार्द्रकरस: ॥ आर्द्रकस्य रस: पीत: । पुराणगुडमिश्रित: । अजाक्षीराशिन: शीघ्रं सर्वशोथहरो भवेत्‍ ॥१॥
अथ गोमूत्रमण्डूरम्‍ ॥ गोमूत्रसिद्धमण्डूरं सुरभीरसभावितम्‍ । माणकार्द्रककन्दानां रसेष्वपि च भावयेत्‍ ॥१॥
त्रिफलाकटुचव्यानां चूर्णं पाणितलद्वयम्‍ ॥ क्षिपेत्सुसिद्धे पाके तु मधुनश्च पलद्वयम्‍ ॥ निहन्ति सर्वजं शोफं सर्वाड्गं च विशेषत: ॥२॥
इति गोमूत्रमण्डूरम्‍ ॥ अथ कंसहरीतकी ॥ द्विपञ्चमूलस्य पचेत्काषाये कंसेऽभयानां च शतं गुडाच्च । लेहे सुसिद्धे च विनीय चूर्णं व्योषत्रिसौगन्ध्यमुपस्थिते च ॥१॥
प्रस्थार्धमात्रं मधुन: सुशीते किञ्चिच्च चूर्णादपि यावशूकात्‍ । एकाभयां प्राश्य ततश्च लेहाच्छुक्तिर्निहन्ति श्वयथुं प्रवृद्धम्‍ ॥२॥
कासज्वरारोचकमेहगुल्मप्लीहत्रिदोषोदरपाण्डुरोगान्‍ । कार्श्यामवातानसृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान्‍ ॥३॥
दशमूलहरितक्या तुल्या कंसहरीतकी । मानं तेनात्र तत्रस्थं चरके प्राह जेज्जट: ॥४॥
इति कंसहरीतकी ॥ अथ दशमूलहरीतकी दशमूलीकषायस्य कंसे पथ्याशृतं गुडात्‍ । तुलां पचेद्‍घने तत्र व्योषक्षारचतुष्पलम्‍ ॥१॥
त्रिजातं तु सुवर्णांशं प्रस्थार्धं मधुना हिमे । दशमूलहरीतक्य: शोफान्‍ घ्नति सुदुस्तरान्‍ ॥२॥
अथ पुनर्नवासव: ॥ पुनर्नवे द्वे तु पले सपाठा दन्ती गुडूची सह चित्रकेण । निदिग्धिका च त्रिफला विपक्का द्रोणावशेषे सलिले ततस्तम्‍ ॥१॥
पूत्वा रसे द्वे च शतं पुराणं गुडं मधुप्रस्थयुतं सुशीतम्‍ । मासं निदध्याद्‍ घृतभाजनस्थं पले यवानां परतश्च मासम्‍ ॥२॥
चूर्णीकृतैरर्धपलांशकैस्तैर्हेमत्वगेलामरिचाम्बुपत्रै: । गन्धान्वितं क्षौद्रयुतं प्रदिग्धं जीर्णे पिबेद्‍ व्याधिबलं समीक्ष्य ॥३॥
हृत्पाण्डुरोगश्वयथुं प्रवृद्धं प्लीहभ्रमारोचकमेहगुल्मान्‍ । भगन्दरार्शोजठराणि कासश्वासग्रहण्यामयकुष्ठकण्डू: ॥४॥
शाखानिलं बद्धपुरीषतां च हिक्कां तु कासं च हलीमकं च । क्षिप्रं जयेद्वर्णबलायुरोजस्तेजोऽन्वितो मांसरसांश्च भुक्त्वा ॥५॥
इति गदनिग्रहातपुनर्नवासव: ॥ अथ सर्वशोफे वासासव: ॥ वासकस्य तुले द्वे तु द्विद्रोणेऽपां विपाचयेत्‍ । द्रोणार्धशेषं तं ज्ञात्वा पूते शीते प्रदापयेत्‍ ॥१॥
गुडस्यैकां तुलां तत्र धातक्यास्तु पलाष्टकम्‍ । क्षिपेच्चूर्णीकृते तस्मिंस्त्वगेलापत्रकेसरम्‍ ॥२॥
कड्कोलव्योषतोयानि पालिकान्युपकल्पयेत्‍ । निदध्याद्‍घृतभाण्डे तु पक्षादूर्ध्वं तत: पिबेत्‍ । वासकासव इत्येष सर्वश्वयथुनाशन: ॥३॥
इति वासासव: ॥ अथ दार्वादियोग: ॥ पिबेदुष्णाम्बुना दारुपथ्याशुण्ठीपुनर्नवा: । विड्ड्गातिविषावासाविश्वदारूषनानि च ॥ वर्षाभूशृड्गबेराभ्यां कल्कं वा सर्वशोफनुत्‍ ॥१॥
अथ तक्रादियोग: ॥ तक्रं पिबेद्वा गुरुभिन्नवर्चा: सव्योषसौवर्चलमाक्षिकं च । विड्वातसड्गे पयसा रसैर्वा प्रागष्णमद्यादुरुबूकतैलम्‍ ॥१॥
अथ पुनर्नवादिघृतम्‍ ॥ पुनर्नवापत्ररसालमूलं संक्षुद्य तोयार्मणशेषसिद्धम्‍ । चतुर्थाभागेन घृते विपक्वं प्रस्थं तु तत्कल्कपलाष्टकेन ॥१॥
संसेवितं वातबलासरोगान्‍ सर्वांश्च शोफानतिदुस्तरांश्च । गुल्मोदरप्लीहगुदोद्भवांश्च निहन्ति वह्निं कुरुतेऽपि पुंसाम्‍ ॥२॥
अथ पञ्चमूलाद्यं तैलम्‍ ॥ पञ्चमूलं सलवणं सरलं देवदारु च । हस्तिकर्णीपलाशस्य फलानि निचुलस्य च ॥१॥
पलांशं काकनासा च गुडूचीदेवपुष्कम्‍ । अहिंस्त्रा श्रेयसी हिंस्त्रा बस्तगन्धा पुनर्नवा ॥२॥
कायस्था च वयस्था च दारुको जटिला जटा । अलम्बुषोरुबुकं च प्रपुन्नाटं सनागरम्‍ ॥३॥
शिग्रु गोधावनी भार्गी तर्कारी पौष्करी जटा । एतै: सिद्धं यथालाभं तैलमभ्यञ्जनैस्त्रिभि: ॥ निहन्त्युदीर्णं श्वयुथं जन्तोर्वातकफात्मकम्‍ ॥४॥
अथ शुष्कमूलकाद्यं तैलम ॥ शुष्कमूलकवर्षाभूदारुरास्त्रामहौषधै: । पक्कमभ्यञ्जने तैलं समूलं शोफनाशनम्‍ ॥१॥
अथ सेकलेपस्वेदनानि ॥ अथ पुनर्नवादिलेप: ॥ पुनर्नवादारुशुण्ठीसिद्धार्थं शिग्रुमेव च । पिष्ट्वा चैवारनालेन प्रलेप:  सर्वशोथजित्‍ ॥१॥
॥ अथ कृष्णादिलेप: ॥ कृष्णा पुराणपिण्याकशियुत्वक्‍ सिकतातसी । प्रलेपो मर्दने युञ्ज्यात्ससुखोष्णो मूत्रकल्कित: ॥१॥
अथ दार्वादि: ॥ दारुगुग्गुलुशुण्ठीनां कल्को मूत्रेण शोफजित्‍ । गोमूत्रस्य च योगो वा क्षिप्रं श्वयथुनाशन: ॥१॥
अर्थकादि: ॥ सेकस्तथार्कवर्षाभूनिम्बक्वाथेन शोफजित्‍ । गोमूणेणापि कुर्वीत सुखोष्णेनावसेचनम्‍ ॥ सौवर्चलसमं घृष्टं सर्षपैश्च प्रलेपनम्‍ ॥१॥
अथ न्यग्रोधादिलेप: ॥ न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलै: । ससर्पिष्कै: प्रलेप: स्याच्छोफनिर्वारण: पर: ॥१॥
अथ गोधूमपोलिका ॥ गोधूमकणिकायुक्ता निर्गुण्डीपत्रचूर्णिका । पोलिका तिलतैलेन युक्ता शोथविनाशनी ॥१॥
अथ पुनर्नवादिस्वेद: ॥ पुनर्नवाग्रिनिर्गुण्डीपलितैरण्डजैर्दलै: । सहचरैर्जलं तप्तं तत्स्वेद: शोफहा मत: ॥१॥
अथ कुटजादिस्वेद: ॥ कुटजार्कशिरीषाणां विदलैरण्डनिम्बजै: । पत्रैर्युक्तं जलं तप्तं तत्स्वेदो दुष्टशोफह्रुत्‍ ॥१॥
अथ बिभीतकादिलेप: ॥ बिभीतकानां पलमध्यलेप: सर्वेषु दाहार्तिहर: प्रशस्त: । यष्ट्याह्वमुस्तै: सकपित्थमूत्रै: सचन्दनैस्तत्पिटिकासु लेप: ॥१॥
इति सेकलेपस्वेदनानि ॥ अथ रसा: ॥ तत्रादौ शोफारि: ॥ हिड्गुलं जयपालं च मरिचं टड्कणं कणाम्‍ । संमर्द्य वल्ल: सघृत: सर्वशोफहर: पर: ॥१॥
अथ श्वयथुघाती रस: ॥ रसगन्धकलोहकणात्रिवृता मरिचामरदारु निशा त्रिफलात्‍ । दलितं मृदु गोसलिलेन पिबेदनुरुपममुं श्वयथूदरहम्‍ ॥१॥
देयो ह्युदयमार्तण्डो त्रैलोक्याडम्बरोऽथ वा । अग्निकुमारको वात्र देय: शोफविनाशन: ॥१॥
इति रसा: ॥ अथ पथ्यापथ्यम्‍ ॥ पुरातना: शालियवा: कुलत्था मुद्गाश्च गोधापि च शल्लकोऽपि । भुजड्गभुक्‍तित्तिरिताम्रचूडलावादयो जाड्गविष्किराश्च ॥१॥
कूर्मोऽपि शृड्गी प्रपुराणसर्पिस्तक्रं सुरा माक्षिकमासवश्च । निष्पावकाटिल्लकरक्तशिग्रुसोनकर्कोटबालमूलम्‍ ॥२॥
पुनर्नवं गृञ्जनकं पटोलं वेत्राग्रधात्री फलमूलकानि । यथामलं पथ्यमिदं प्रयुक्तं शोफामयं सत्वरमुच्छिनत्ति ॥३॥
ग्राम्यानूपं पिशितलवणं शुष्कशाकं नवान्नं गौडं पिष्टं दधि सकृशरं निर्झरं मद्यमम्लम्‍ । धाना वल्लूरमांसं बह्वनशनमथवा गुर्वसात्म्यं विदाहि स्वप्नं रात्रौ श्वयथुगदवान्‍ वर्जयेन्मैथुनं च ॥४॥
अथ वृन्दात्‍ पथ्यापथ्यम्‍ ॥ पुराणयवशाल्यन्नं दशमूलोपसाधितम्‍ । आम्लमल्पकटुस्नेहं भोजनं शोफिनां हितम्‍ ॥१॥
पिष्टान्नमुष्णं लवणानि मद्यं मृदं दिवा स्वप्नमजाड्गलं च । पयो गुडं तैलमथो गुरुणि शोफं जिघांसु: परिवर्जयते ॥२॥
इति शोफमयचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T19:53:39.5170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

granular fertilizer

  • कणीदार रासायनिक खत 
RANDOM WORD

Did you know?

चातुर्मासाचे महत्व स्पष्ट करावे.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.